उत्तरखण्डम् - तृतीयोऽध्यायः
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
तत्र वमनविरेचनयोः कालः
शरत्काले वसन्ते च प्रावृट्काले च देहिनाम्
वमनं रेचनं चैव कारयेत्कुशलो भिषक् ॥१॥
वमनार्हा जनाः
बलवन्तं कफव्याप्तं हृल्लासार्त्तिनिपीडितम्
तथा वमनसात्म्यं च धीरचित्तं च वामयेत् ॥२॥
वमनसाध्या रोगाः
विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
हृद्रो गकुष्ठवीसर्पमेहाजीर्णभ्रमेषु च ॥३॥
विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ॥४॥
नासाताल्वोष्ठपाकेषु कर्णस्रावे द्विजिह्वके
गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक् ॥५॥
वमनानर्हा जनाः
न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः ॥६॥
नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः
मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः ॥७॥
उदावत्तर्यूर्ध्वरक्ती च दुश्छर्दिः केवलानिली
पाण्डुरोगी कृमिव्याप्तः पठनात्स्वरघातकः ॥८॥
वमनानर्हाणामपि वमनव्यवस्था
एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः ॥९॥
सुकुमारं कृशं बालं वृद्धं भीरुं न वामयेत्
पीत्वा यवागूमाकण्ठं क्षीरतक्रदधीनि वा ॥१०॥
असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लिश्य देहिनः
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते ॥११॥
क्रमेण वमनविरेचनयोर्हितकरपदार्थाः
वमनेषु च सर्वेषु सैन्धवं मधु वा हितम्
बीभत्सं वमनं दद्याद्विपरीतं विरेचनम् ॥१२॥
वमनार्थकक्वाथनिर्माणविधिः
क्वाथ्यद्र व्यस्य कुडवं श्रपयित्वा जलाढके
अर्धभागावशिष्टं च वमनेष्ववचारयेत् ॥१३॥
भेडमतेन वामकक्वाथपानमात्रा
क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी ॥१४॥
वामककल्कादिमात्रा
कल्कचूर्णावलेहानां त्रिपलं श्रेष्ठमात्रया
मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत् ॥१५॥
उत्तमादिभेदेन वमनवेगसंख्याभेदाः
वमने चापि वेगाः स्युरष्टौ पित्तान्तमुत्तमाः
षड्वेगा मध्यमा वेगाश्चत्वारस्त्ववरे मताः ॥१६॥
वमनादौ प्रस्थमानम्
वमने च विरेके च तथा शोणितमोक्षणे
सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥१७॥
दोषविशेषेण वामकद्र व्यविशेषनिर्देशः
कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादु हिमैर्जयेत्
सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम् ॥१८॥
कृष्णा राठफलं सिन्धु कफे कोष्णजलैः पिबेत्
पटोलवासानिम्बैश्च पित्ते शीतजलं पिबेत् ॥१९॥
सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत्
अजीर्णे कोष्णपानीयैः सिन्धु पीत्वा वमेत्सुधीः ॥२०॥
वमनस्य प्रशस्तविधिः
वमनं पाययित्वा च जानुमात्रासने स्थितम्
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक्
ललाटं वमतः पुंसः पार्श्वे द्वे च प्रदापयेत् ॥२१॥
दुर्वान्तस्य लक्षणम्
प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिताद्भवेत् ॥२२॥
अतिवान्तस्य लक्षणम्
अतिवान्ते भवेत्तृष्णा हिक्कोद्गारौ विसंज्ञता
जिह्वानिःसर्पणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
रक्तच्छर्दिः ष्ठीवनं च कण्ठे पीडा च जायते ॥२३॥
अतिवमनोत्पन्नरोगचिकित्सा
वमनस्यातियोगी तु मृदु कुर्याद्विरेचनम् ॥२४॥
वमनान्तः प्रविष्टायां जिह्वायां कवलग्रहः
स्निग्धाम्ललवणैर्हृद्यैर्घृतक्षीररसैर्हितः ॥२५॥
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतां तु तिलद्रा क्षाकल्कं लिप्त्वा प्रवेशयेत् ॥२६॥
व्यावृत्तेऽक्ष्णि घृताभ्यक्ते पीडयेच्च शनैः शनैः
हनुमोक्षे स्मृतः स्वेदो नस्यं च श्लेष्मवातहृत् ॥२७॥
रक्तपित्तविधानेन रक्तच्छर्दिमुपाचरेत्
धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः ॥२८॥
मन्थं कृत्वा पाययेच्च सघृतक्षौद्र शर्करम्
शाम्यन्त्यनेन तृष्णाद्याः पीडाश्छर्दिसमुद्भवाः ॥२९॥
सम्यग्वान्तस्य लक्षणम्
हृकत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वं च लाघवम्
कफपित्तविनाशश्च सम्यग्वान्तस्य चेष्टितम् ॥३०॥
वान्तस्य पथ्यानि
ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
हृद्यैश्च जाङ्गलरसैः कृत्वा यूषं च भोजयेत् ॥३१॥
सुवान्ते फलम्
तन्द्रा निद्रा स्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम्
सुवान्तस्य न पीडायै भवन्त्येते कदाचन ॥३२॥
वमने कुपथ्यम्
अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
स्नेहाभ्यङ्गं प्रकोपं च दिनैकं वर्जयेत्सुधीः ॥३३॥
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे वमनविधिर्नाम तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : March 14, 2021
TOP