मध्यखण्डम् - अष्टमोऽध्यायः
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
अथ अवलेहकल्पनानामाष्टमोऽध्यायः
अवलेहस्य लक्षणनाममात्रानिर्देशः
क्वाथादीनां पुनः पाकाद्घनत्वं सा रसक्रिया
सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात्पलोन्मिता ॥१॥
अनुक्ते सितादीनां परिमाणनिर्देशः
सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः
द्र वं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः ॥२॥
अवलेहस्य सिद्धिलक्षणम्
सुपक्वे तन्तुमत्त्वं स्यादवलेहोऽप्सु मज्जति
खरत्वं पीडिते मुद्रा गन्धवर्णरसोद्भवः ॥३॥
अवलेहस्यानुपानानि
दुग्धमिक्षुरसो यूषः पञ्चमूलकषायजः
वासाक्वाथो यथायोग्यमनुपानं प्रशस्यते ॥४॥
कण्टकार्यवलेहः कासश्वासादौ
कण्टकारीतुलां नीरद्रो णे पक्त्वा कषायकम्
पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥५॥
पृथक्पलानि चैतानि गुडूचीचव्यचित्रकाः
मुस्तं कर्कटशृङ्गी च त्र्! यूषणं धन्वयासकः ॥६॥
भार्ङ्गी रास्ना शटी चैव शर्करा पलविंशतिः
प्रत्येकं च पलान्यष्टौ प्रदद्याद् घृततैलयोः ॥७॥
पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम्
चतुष्पलं तुगाक्षीर्याः पिप्पलीनां चतुष्पलम् ॥८॥
क्षिप्त्वा निदध्यात्सुदृढे मृण्मये भाजने शुभे
लेहोऽय हन्ति हिक्काऽत्तिश्वासकासानशेषतः ॥९॥
च्यवनप्राशः क्षयक्षीणादौ
पाटलाऽरणिकाश्मर्यबिल्वारलुकगोक्षुराः
पर्ण्यौ बृहत्यौ पिप्पल्यः शृङ्गी द्रा क्षाऽमृताऽभया ॥१०॥
बला भूम्यामली वासाऋद्धिर्जीवन्तिका शटी
जीवकर्षभकौ मुस्तं पौष्करं काकनासिका ॥११॥
मुद्गपर्णीं माषपर्णी विदारी च पुनर्नवा
काकोल्यौ कमलं मेदे सूक्ष्मैलागरुचन्दनम् ॥१२॥
एकैकं पलसम्मानं स्थूलचूर्णितमौषधम्
एकीकृत्य बृहत्पात्रे पञ्चामलशतानि च ॥१३॥
पचेद्द्रो णजलेक्षिप्त्वाग्राह्यमष्टांशशेषितम्
ततस्तुतान्यामलानिनिष्कुलीकृत्यवाससा ॥१४॥
दृढहस्तेन सम्पीड्यक्षिप्त्वा तत्र ततोघृतम्
पलसप्तमितं तानि किञ्चिद् भृष्ट्वाऽल्पवह्निना ॥१५॥
ततस्तत्र क्षिपेत्क्वाथं खण्डं चार्धतुलोन्मितम्
लेहवत्साधयित्वा च चूर्णानीमानि दापयेत् ॥१६॥
पिप्पली द्विपला देया तुगाक्षीरी चतुष्पला
प्रत्येकं च त्रिशाणं स्यात्त्वगेलापत्रकेशराः ॥१७॥
ततस्त्वेकीकृते तस्मिन्क्षिपेत्क्षौद्रं च षट्पलम्
इत्येतच्च्यवनप्रोक्तं च्यवनप्राशसंज्ञितम् ॥१८॥
लेहं वह्निबलं दृष्ट्वा खादेत्क्षीणो रसायनम्
बालवृद्धक्षतक्षीणा नारीक्षीणाश्च शोषिणः ॥१९॥
हृद्रो गिणः स्वरक्षीणा ये नरास्तेषु युज्यते
कासं श्वासं पिपासां च वातास्रमुरसो ग्रहम् ॥२०॥
वातपित्तं शुक्रदोषं मूत्रदोषं च नाशयेत्
मेधां स्मृतिं स्त्रीषु हर्षं कान्तिं वर्णप्रसन्नताम्
अस्य प्रयोगादाप्नोति नरो जीर्णविवर्जितः ॥२१॥
कूष्माण्डावलेहो रक्तपित्तादौ
निष्कुलीकृत्य कूष्माण्डखण्डान्पलशतं पचेत्
निक्षिप्य द्वितुलं नीरमर्धशिष्टं च गृह्यते ॥२२॥
तानि कूष्माण्डखण्डानि पीडयेद् दृढवाससा
आतपे शोषयेत्किञ्चिच्छूलाग्रैर्बहुशोव्यधेत् ॥२३॥
क्षिप्त्वा ताम्रकटाहे च दद्यादष्टपलं घृतम्
तेन किञ्चिद्भर्जयित्वा पूर्वोक्तं तज्जलं क्षिपेत् ॥२४॥
खण्डं पलशतं दत्त्वा सर्वमेकत्र पाचयेत्
सुपक्वे पिप्पली शुण्ठी जीरकं द्विपलं पृथक् ॥२५॥
पृथक्पलार्धं धान्याकं पत्रैलामरिचंत्वचम्
चूर्णीकृत्य क्षिपेत्तत्र घृतार्धं क्षौद्र मावहेत् ॥२६॥
खादेदग्निबलं दृष्ट्वा रक्तपित्ती क्षयी ज्वरी
शोषतृष्णाभ्रमच्छर्दिश्वासकासक्षतातुरः ॥२७॥
कूष्माण्डकावलेहोऽय बालवृद्धेषु युज्यते
उरःसन्धानकृद् वृष्यो बृंहणो बलकृन्मतः ॥२८॥
खण्डशूरणावलेहोऽशोरोगे
युक्त्या कूष्माण्डखण्डस्य शूरणं विपचेत्सुधीः
अर्शसां मूढवातानां मन्दाग्नीनां च युज्यते ॥२९॥
अगस्त्यहरीतक्यवलेहः क्षयादौ
हरीतकीशतं भद्रं यवानामाढकं तथा ॥३०॥
पलानि दशमूलस्य विंशतिं च नियोजयेत्
चित्रकः पिप्पलीमूलमपामार्गः शटी तथा ॥३१॥
कपिकच्छूः शंखपुष्पी भार्ङ्गी च गजपिप्पली
बला पुष्करमूलं च पृथग्द्विपलमात्रया ॥३२॥
पचेत्पञ्चाढके नीरे यवैः स्विन्नैः शृतं नयेत्
तच्चाभयाशतंदद्यात्क्वाथे तस्मिन्विचक्षणः ॥३३॥
सर्पिस्तैलाष्टपलकं क्षिपेद्गुडतुलां तथा
पक्त्वा लेहत्वमानीय सिद्धे शीते पृथक्पृथक् ॥३४॥
क्षौद्रं च पिप्पलीचूर्णं दद्यात्कुडवमात्रया
हरीतकीद्वयं खादेत्तेन लेहेन नित्यशः ॥३५॥
क्षयं कासं ज्वरं श्वासं हिक्काऽशोऽरुचिपीनसान्
ग्रहणीं नाशयेदेष वलीपलितनाशनः ॥३६॥
बलवर्णकरः पुंसामवलेहो रसायनम्
विहितोऽगस्त्यमुनिना सर्वरोगप्रणाशनः ॥३७॥
कुटजावलेहोऽश आदिरोगेषु
कुटजत्वक्तुलां द्रो णे जलस्य विपचेत्सुधीः
कषायं पादशेषं च गृह्णीयाद्वस्त्रगालितम् ॥३८॥
त्रिंशत्पलंगुडस्यात्र दत्त्वा च विपचेत्पुनः
सान्द्र त्वमागतं ज्ञात्वा चूर्णानीमानि दापयेत् ॥३९॥
रसाञ्जनं मोचरसं त्रिकटु त्रिफलां तथा
लज्जालुं चित्रकं पाठां बिल्वमिन्द्र यवं त्वचम् ॥४०॥
भल्लातकं प्रतिविषां विडङ्गानि च बालकम्
प्रत्येकं पलसंमानं घृतस्य कुडवं तथा ॥४१॥
सिद्धशीते ततो दद्यान्मधुनः कुडवं तथा
जयेदेषोऽवलेहस्तु सर्वाण्यर्शांसि वेगतः ॥४२॥
दुर्नामप्रभवान्रोगानतीसारमरोचकम्
ग्रहणीं पाण्डुरोगं च रक्तपित्तं च कामलाम् ॥४३॥
अम्लपित्तं तथा शोथं कार्श्यं चैव प्रवाहिकाम्
अनुपाने प्रयोक्तव्यमाजं तक्रं पयो दधि
घृतं जलं वा जीर्णे च पथ्यभोजी भवेन्नरः ॥४४॥
कुटजाष्टकाद्यवलेहोऽतीसारादौ
कुटजत्वक्तुलामाद्रा रं! द्रो णनीरे विपाचयेत्
पादशेषं शृतं नीत्वा चूर्णान्येतानि दापयेत् ॥४५॥
लज्जालुर्धातकी बिल्वं पाठा मोचरसस्तथा
मुस्तं प्रतिविषा चैव प्रत्येकं स्यात्पलं पलम् ॥४६॥
ततस्तु विपचेद् भूयो यावद्दर्वीप्रलेपनम्
जलेन छागदुग्धेन पीतो मण्डेन वा जयेत् ॥४७॥
सर्वातिसारान्घोरांस्तु नानावर्णान्सवेदनान्
असृग्दरं समस्तं च सर्वार्शांसि प्रवाहिकाम् ॥४८॥
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डेऽवलेहकल्पनानामाष्टमोऽध्यायः
N/A
References : N/A
Last Updated : March 14, 2021
TOP