संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|शार्ङ्गधर संहिता|मध्यखण्डम्| सप्तमोऽध्यायः मध्यखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः मध्यखण्डम् - सप्तमोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता वटककल्पना Translation - भाषांतर वटकाश्चाथ कथ्यन्ते तन्नाम गुटिका वटीमोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥१॥वह्निसाध्यवटीनिर्माणविधिःलेहवत्साध्यते वह्नौ गुडो वा शर्करा तथागुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी ॥२॥अवह्निसाध्यवटीनिर्माणविधिःकुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम्द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः ॥३॥वटिकायां गुडशर्करामाननिर्णयःसिता चतुर्गुणा देया वटीषु द्विगुणो गुडःचूर्णाच्चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम्द्र वं च द्विगुणं देयं मोदकेषु भिषग्वरैः ॥४॥वटीमात्रानिर्देशःकर्षप्रमाणा तन्मात्रा बलं दृष्ट्वा प्रयुज्यताम् ॥५॥श्रीबाहुशालगुडोऽशआदौइन्द्र वारुणिका मुस्तं शुण्ठी दन्ती हरीतकीत्रिवृच्छटी विडङ्गानि गोक्षुरश्चित्रकस्तथा ॥६॥तेजोह्वा च द्विकर्षाणि पृथग्द्र व्याणि कारयेत्सूरणस्य पलान्यष्टौ वृद्धदारु चतुष्पलम् ॥७॥चतुष्पलं स्याद् भल्लातः क्वाथयेत्सर्वमेकतःजलद्रो णे चतुर्थांशं गृह्णीयात्क्वाथमुत्तमम् ॥८॥क्वाथ्यद्र व्यात्त्रिगुणितं गुडं क्षिप्त्वा पुनः पचेत्सम्यक्पक्वं च विज्ञाय चूर्णमेतत्प्रदापयेत् ॥९॥चित्रकत्रिवृतादन्तीतेजोह्वाःपलिकाः पृथक्पृथक्त्रिपलिकाः कार्या व्योषैलामरिचत्वचः ॥१०॥निक्षिपेन्मधु शीते च तस्मिन्प्रस्थप्रमाणतःएवं सिद्धो भवेच्छ्रीमान्बाहुशालगुडः शुभः ॥११॥जयेदर्शांसि सर्वाणि गुल्मं वातोदरं तथाआमवातप्रतिश्यायग्रहणीक्षयपीनसान्हलीमकं पाण्डुरोगं प्रमेहं च रसायनम् ॥१२॥मरिचादिगुटिका कासादौमरिचं कर्षमात्रं स्यात्पिप्पली कर्षसंमिता ॥१३॥अर्धकर्षो यवक्षारः कर्षयुग्मं च दाडिमम्एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि ॥१४॥शाणप्रमाणां गुटिकां कृत्वा वक्त्रे विधारयेत्अस्याः प्रभावात्सर्वेऽपि कासा यान्त्येव सङ्क्षयम् ॥१५॥गुडवटिका बिभीतकप्रयोगश्च श्वासकासादौगुडशुण्ठीशिवामुस्तैर्गुटिकां धारयेन्मुखेश्वासकासेषु सर्वेषु बिभीतं वाऽपि केवलम् ॥१६॥आमलक्यादिगुटिका तृष्णादौआमलं कमलं कुष्ठं लाजाश्च वटरोहकम्एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखेतृष्णां प्रवृद्धां हन्त्येषा मुखशोषं च दारुणम् ॥१७॥सञ्जीवनीवटी सन्निपातज्वरे सर्पदष्टादौ चविडङ्गं नागरं कृष्णा पथ्यामलबिभीतकम् ॥१८॥वचागुडूची भल्लातं सविषं चात्र योजयेत्एतानि समभागानि गोमूत्रेणैव पेषयेत् ॥१९॥गुञ्जाभा गुटिका कार्या दद्यादार्द्र कजै रसैःएकामजीर्णगुल्मेषु द्वे विषूच्यां प्रदापयेत् ॥२०॥तिस्रश्च सर्पदष्टे तु चतस्रः सान्निपातिकेवटी सञ्जीवनी नाम्ना सञ्जीवयति मानवम् ॥२१॥व्योषादिगुटिका पीनसादौव्योषाम्लवेतसंचव्यं तालीसं चित्रकं तथाजीरकंतिन्तिडीकं च प्रत्येकं कर्षभागिकम् ॥२२॥त्रिसुगन्धं त्रिशाणं स्याद् गुडः स्यात्कर्षविंशतिःव्योषादिगुटिका सामपीनसश्वासकासजित्रुचिस्वरकरा ख्याता प्रतिश्यायप्रणाशिनी ॥२३॥गुडचतुष्टयगुटिका आमादौआमेषु सगुडां शुण्ठीमजीर्णे गुडपिप्पलीम्कृच्छ्रे जीरगुडं दद्यादर्शःसु सगुडाभयाम् ॥२४॥वृद्धदारुमोदकोऽशोरोगेवृद्धदारुकभल्लातशुण्ठीचूर्णेन योजितःमोदकः सगुडो हन्यात्षड्विधार्शःकृतां रुजम् ॥२५॥शूरणपिण्डी अर्शोरोगेशुष्कशूरणचूर्णस्य भागान्द्वात्रिंशदाहरेत्भागान्षोडश चित्रस्य शुण्ठ्या भागचतुष्टयम् ॥२६॥द्वौ भागौ मरिचस्यापि सर्वाण्येकत्र चूर्णयेत्गुडेन पिण्डिकां कुर्यादर्शसां नाशनीं पराम् ॥२७॥शूरणवटकोऽश प्रभृतिरोगेषुशूरणो वृद्धदारुश्च भागैः षोडशभिः पृथक् ॥२८॥मुसलीचित्रकौ ज्ञेयावष्टभागमितौ पृथक्शिवा बिभीतकी धात्री विडङ्गं नागरं कणा ॥२९॥भल्लातः पिप्पलीमूलं तालीसं च पृथक्पृथक्चतुर्भागप्रमाणानि त्वगेलामरिचं तथा ॥३०॥द्विभागमात्राणि पृथक् ततस्त्वेकत्र चूर्णयेत्द्विगुणेन गुडेनाथ वटकान्कारयेद् बुधः ॥३१॥प्रबलार्न्गिकरा एते तथाऽशोनाशनाः पराःग्रहणीं वातकफजां श्वासं कासं क्षयामयम् ॥३२॥प्लीहानं श्लीपदं शोथं हिक्कां मेहं भगन्दरम्निहन्युः पलितं वृद्ध्या तथा मेध्या रसायनाः ॥३३॥मण्डूरवटकः कामलादौत्रिफला त्र्! यूषणं चव्यं पिप्पलीमूलचित्रकौदारुमाक्षिकधातुस्त्वग्दार्वी मुस्तं विडङ्गकम् ॥३४॥प्रत्येकं कर्षमात्राणि सर्वंद्विगुणितं तथामण्डूरं चूर्णयेत्सर्वं गोमूत्रेऽष्टगुणे क्षिपेत् ॥३५॥पक्त्वा च वटकान्कृत्वा दद्यात्तक्रानुपानतःकामलापाण्डुमेहार्शः शोथकुष्ठकफामयान्ऊरुस्तम्भमजीर्णं च प्लीहानं नाशयेदपि ॥३६॥पिप्पलीमोदको धातुगतज्वरादौक्षौद्रा द् द्विगुणितं सर्पिर्घृताद् द्विगुणपिप्पली ॥३७॥सिता द्विगुणिता तस्याः क्षीरं देयं चतुर्गुणम्चातुर्जातं क्षौद्र तुल्यं पक्त्वा कुर्याच्च मोदकान् ॥३८॥धातुस्थांश्च ज्वरान्सर्वान् श्वासं कासं च पाण्डुताम्धातुक्षयं वह्निमान्द्यं पिप्पलीमोदको जयेत् ॥३९॥चन्द्र प्रभावटी प्रमेहादौचन्द्र प्रभां वचां मुस्तं भूनिम्बामृतदारुकम्हरिद्रा ऽतिविषा दार्वी पिप्पलीमूलचित्रकौ ॥४०॥धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पलीव्योषं माक्षिकधातुश्च द्वौ क्षारौ लवणत्रयम् ॥४१॥एतानि शाणमात्राणि प्रत्येकं कारयेद् बुधःत्रिवृद्दन्ती पत्रकं च त्वगेला वंशरोचना ॥४२॥प्रत्येकं कर्षमात्राणि कुर्यादेतानि बुद्धिमान्द्विकर्षं हतलोहं स्याच्चतुष्कर्षा सिताभवेत् ॥४३॥शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोःएभिरेकत्रसंक्षुण्णैः कर्त्तव्या गुटिका शुभा ॥४४॥चन्द्र प्रभेति विख्याता सर्वरोगप्रणाशिनीप्रमेहान्विंशतिं कृच्छ्रं मूत्राघातं तथाऽश्मरीम् ॥४५॥विबन्धानाहशूलानि मेहनं ग्रन्थिमर्बुदम्अण्डवृद्धिं तथा पाण्डुं कामलां च हलीमकम् ॥४६॥अन्त्रवृद्धिं कटीशूलं श्वासं कासं विचर्चिकाम्कुष्ठान्यर्शांसि कण्डूं च प्लीहोदरभगन्दरं ॥४७॥दन्तरोगं नेत्ररोगं स्त्रीणामार्त्तवजां रुजम्पुंसां शुक्रगतान्दोषान्मन्दाग्निमरुचिं तथा ॥४८॥वायुं पित्तं कफं हन्याद् बल्या वृष्या रसायनीचन्द्र प्रभायां कर्षस्तु चतुःशाणो विधीयते ॥४९॥काङ्कायनगुटिका गुल्मादौयवानी जीरकं धान्यं मरिचं गिरिकर्णिकाअजमोदोपकुञ्ची च चतुःशाणाः पृथक्पृथक् ॥५०॥हिङ्गु षट्शाणिकं कार्यं क्षारौ लवणपञ्चकम्त्रिवृच्चाष्टमितैः शाणैः प्रत्येकं कल्पयेत्सुधीः ॥५१॥दन्ती शटी पौष्करं च विडङ्गं दाडिमं शिवाचित्रोऽम्लवेतसः शुण्ठी शाणैः षोडशभिः पृथक् ॥५२॥बीजपूररसेनैषां गुटिकां कारयेद् बुधःघृतेन पयसा मद्यैरम्लैरुष्णोदकेन वा ॥५३॥पिबेत्काङ्कायनप्रोक्तां गुटिकां गुल्मनाशिनीम्मद्येन वातिकं गुल्मं गोक्षीरेण च पैत्तिकम् ॥५४॥मूत्रेण कफगुल्मं च दशमूलैस्त्रिदोषजम्उष्ट्रीदुग्धेन नारीणां रक्तगुल्मं निवारयेत्हृद्रो गं ग्रहणीं शूलं कृमीनर्शांसि नाशयेत् ॥५५॥योगराजगुग्गुलुर्वातरोगे आमवाते वानागरं पिप्पलीमूलं पिप्पली चव्यचित्रकौ ॥५६॥भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्वयम्रेणुकेन्द्र यवाः पाठा विडङ्गं गजपिप्पली ॥५७॥कटुकाऽतिविषा भार्ङ्गी वचा मूर्वेति भागतःप्रत्येकं शाणिकानि स्युर्द्र व्याणीमानि विंशतिः ॥५८॥द्र व्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत्एभिश्चूर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः ॥५९॥विङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रकम्मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ॥६०॥गुडपाकसमं कृत्वा इमं दद्याद्यथोचितम्एकपिण्डं ततः कृत्वा धारयेद् घृतभाजने ॥६१॥गुटिकाः शाणमात्रास्तु कृत्वा ग्राह्या यथोचिताःगुग्गुलुर्योगराजोऽय त्रिदोषघ्नो रसायनः ॥६२॥मैथुनाहारपानानां त्यागो नैवात्र विद्यतेसर्वान्वातामयान्कुष्ठानर्शांसि ग्रहणीगदम् ॥६३॥प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम्उदावर्तं क्षयं गुल्ममपस्मारमुरोग्रहम् ॥६४॥मन्दाग्निश्वासकासांश्च नाशयेदरुचिं तथारेतोदोषहरः पुंसां रजोदोषहरः स्त्रियाः ॥६५॥पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथारास्नादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् ॥६६॥काकोल्यादिशृतात्पित्तं कफमारग्वधादिनादार्वीशृतेन मेहांश्च गोमूत्रेण च पाण्डुताम् ॥६७॥मेदोवृद्धिं च मधुना कुष्ठं निम्बशृतेन वाछिन्नाक्वाथेन वातास्रं शोथं शूलं कणाशृतात् ॥६८॥पाटलाक्वाथसहितो विषं मूषकजं जयेत्त्रिफलाक्वाथसहितो नेत्रार्त्तिं हन्ति दारुणाम्पुनर्नवादिक्वाथेन हन्यात्सर्वोदरान्यपि ॥६९॥कैशोरगुग्गुलुर्वातरक्तादौत्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत् ॥७०॥संकुट्य लोहपात्रे तु सार्धद्रो णाम्बुना पचेत्जलमर्धशृतंज्ञात्वा गृह्णीयाद्वस्त्रगालितम् ॥७१॥ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितम्पुनः पचेदयः पात्रे दर्व्या सङ्घट्टयेन्मुहुः ॥७२॥सान्द्री भूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्चूर्णीकृत्य ततस्तत्र द्र व्याणीमानि निक्षिपेत् ॥७३॥त्रिफला द्विपला ज्ञेया गुडूची पलिका मताषडक्षंत्र्! यूषणं प्रोक्तं विडङ्गानां पलार्धकम् ॥७४॥दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृताततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत् ॥७५॥गुटिकाः शाणमात्रेण युञ्ज्याद् दोषाद्यपेक्षयाअनुपाने भिषग्दद्यात्कोष्णं नीरं पयोऽथवा ॥७६॥मञ्जिष्ठादिशृतं वाऽपि युक्तियुक्तमतः परम्जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् ॥७७॥सर्वव्रणांश्च गुल्मांश्च प्रमेहपिडिकास्तथाप्रमेहोदरमन्दाग्निकासश्वयथुपाण्डुजान् ॥७८॥हन्ति सर्वामयान्नित्यमुपयुक्तो रसायनःकेशोरकाभिधानोऽय गुग्गुलुः कान्तिकारकः ॥७९॥वासादिना नेत्रगदान्गुल्मादीन्वरुणादिनाक्वाथेन खदिरस्यापि व्रणकुष्ठानि नाशयेत् ॥८०॥अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम्मद्यंरोषंत्यजेत्सम्यग्गुणार्थी पुरसेवकः ॥८१॥त्रिफलागुग्गुलुर्भगन्दरादौत्रिपलं त्रिफलाचूर्णं कृष्णाचूर्णं पलोन्मितम्गुग्गुलुः पाञ्चपलिकः क्षोदयेत्सर्वमेकतः ॥८२॥ततस्तुगुटिकां कृत्वा प्रयुञ्ज्याद्वह्न्यपेक्षयाभगन्दरं गुल्मशोथावर्शांसि च विनाशयेत् ॥८३॥गोक्षुरादिगुग्गुलः प्रमेहादौअष्टाविंशतिसंख्यानि पलान्यानीय गोक्षुरात्विपचेत्षङ्गुणेनीरे क्वाथो ग्राह्योऽद्धशेषितः ॥८४॥ततः पुनः पचेत्तत्र पुटं सप्तपलं क्षिपेत्गुडपाकसमाकारं ज्ञात्वा तत्र विनिक्षिपेत् ॥८५॥त्रिकटु त्रिफला मुस्तं चूर्णितं पलसप्तकम्ततः पिण्डीकृतस्यास्य गुटिकामुपयोजयेत् ॥८६॥हन्यात्प्रमेहं कृच्छ्रं च प्रदरं मूत्रघातकम्वातास्रं वातरोगांश्च शुक्रदोषं तथाऽश्मरीम् ॥८७॥त्रिफलामोदकः कुष्ठादौत्रिफलाऽष्टपला कार्या भल्लातं च चतुष्पलम्बाकुची पञ्चपलिका विडङ्गानां चतुष्पलम् ॥८८॥हतलोहं त्रिवृच्चैव गुग्गुलुश्च शिलाजतुएकैकं पलमात्रं स्यात्पलार्द्धं पौष्करं भवेत् ॥८९॥चित्रकस्य पलार्धंस्याद् द्विशाणं मरिचं भवेत्नागरं पिप्पली मुस्ता त्वगेलापत्रकुङ्कुमम् ॥९०॥शाणोन्मितं स्यादेकैकं चूर्णयेत्सर्वमेकतःततस्तत्प्रक्षिपेच्चूर्णं पक्वखण्डे च तत्समे ॥९१॥मोदकान्पलिकान्कृत्वा प्रयुञ्जीत यथोचितान्हन्युः सर्वाणि कुष्ठानि त्रिदोषप्रभवामयान् ॥९२॥भगन्दरप्लीहगुल्माञ्जिह्वातालुगलामयान्शिरोऽक्षिभ्रूगतान्रोगान्हन्यात्पृष्ठगतानपि ॥९३॥प्राग्भोजनस्य देयं स्यादधः कायस्थिते गदेभेषजं भक्तमध्ये च रोगे जठरसंस्थितेभोजनस्योपरि ग्राह्यमूर्ध्वजत्रुगदेषु च ॥९४॥काञ्चनारगुग्गुलुगण्डमालापचीग्रन्थिभगन्दरादौकाञ्चनारत्वचो ग्राह्यं पलानां दशकं बुधैः ॥९५॥त्रिफला षट्पला कार्या त्रिकटु स्यात्पलत्रयम्पलैकं वरुणं कुर्यादेलात्वक्पत्रकं तथा ॥९६॥एकैकं कर्षमात्रं स्यात्सर्वाण्येकत्र चूर्णयेत्यावच्चूर्णमिदं सर्वं तावन्मात्रस्तु गुग्गुलुः ॥९७॥सङ्कुट्य सर्वमेकत्र पिण्डं कृत्वा च धारयेत्गुटिकाः शाणिकाः कार्याः प्रातर्ग्राह्या यथोचितम् ॥९८॥गण्डमालां जयत्युग्रामपचीमर्बुदानि चग्रन्थीन्व्रणांश्च गुल्मांश्च कुष्ठानि च भगन्दरम् ॥९९॥प्रदेयश्चानुपानार्थं क्वाथो मुण्डतिकाभवःक्वाथः खदिरसारस्य पथ्याक्वाथोष्णकं जलम् ॥१००॥माषादिमोदकः पुष्टौनिस्तुषं माषचूर्णं स्यात्तथा गोधूमसम्भवम्निस्तुषं यवचूर्णं च शालितण्डुलजं तथा ॥१०१॥सूक्ष्मं च पिप्पलीचूर्णं पलिकान्युपकल्पयेत्एतदेकीकृतं सर्वं भर्जयेद्गोघृतेन च ॥१०२॥अर्धमात्रेण सर्वेभ्यस्ततः खण्डं समं क्षिपेत्जलं च द्विगुणं दत्त्वा पाचयेत्तं शनैः शनैः ॥१०३॥ततः पक्वं समुद्धृत्य वृत्तान्कुर्वीत मोदकान्भुक्त्वा सायं पलैकं च पिबेत्क्षीरं चतुर्गुणम् ॥१०४॥वर्जनीयौ विशेषेण क्षाराम्लौ द्वौ रसावपिकृत्वैवं रमयेन्नारीर्बह्वीर्न क्षीयते नरः ॥१०५॥इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे वटककल्पनानाम सप्तमोऽध्यायः N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP