संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|पूर्वखण्डम्| सप्तमोऽध्यायः पूर्वखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः पूर्वखण्डम् - सप्तमोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता रोगगणना Translation - भाषांतर रोगाणां गणना पूर्वं मुनिभिर्या प्रकीर्त्तितामयाऽत्र प्रोच्यते सैव तद्भेदा बहवो मताः ॥१॥ज्वरभेदाःपञ्चविंशतिरुद्दिष्टा ज्वरास्तद्भेद उच्यतेपृथग्दोषैस्तथा द्वन्द्वभेदेन त्रिविधः स्मृतःएकश्च सन्निपातेन तद्भेदा बहवः स्मृताः ॥२॥विषमागन्तुज्वरयोर्भेदाःप्रायशः सन्निपातेन पञ्चस्युर्विषमज्वराःसन्ततः सततश्चैव अन्येद्युष्कस्तृतीयकः ॥३॥चातुर्थिकश्च पञ्च्ते कीर्त्तिता विषमज्वराःतथाऽगन्तुज्वरोऽप्येकस्त्रयोदशविधो मतः ॥४॥अभिचारग्रहावेशशापैरागन्तुकस्त्रिधाश्रमाच्छेदात्क्षताद्दाहाच्चतुर्द्धाघातजो ज्वरः ॥५॥कामाद्भीतेः शुचो रोषाद्विषादौषधगन्धतःअभिषङ्गज्वराः षट्स्युरेवं ज्वरविनिश्चयः ॥६॥अतीसारग्रहणीप्रवाहिकाणां भेदाःपृथक्त्रिदोषैः सर्वैश्च शोकादामाद्भयादपिअतीसारः सप्तधा स्याद् ग्रहणी पञ्चधा मता ॥७॥पृथग्दोषैः सन्निपातात्तथा चामेन पञ्चमीप्रवाहिका चतुर्द्धा स्यात्पृथग्दोषैस्तथाऽस्रतः ॥८॥अजीर्णालसयोर्भेदाःअजीर्णं त्रिविधं प्रोक्तं विष्टब्धं वायुना मतम् ॥९॥पित्ताद्विदग्धं विज्ञेयं कफेनामं तदुच्यतेविषाजीर्णं रसादेकं दोषैः स्यादलसस्त्रिधा ॥१०॥विषूचीदण्डकालसकविलम्बिकानां भेदाःविषूची त्रिविधा प्रोक्ता दोषैः सा स्यात्पृथक्पृथक्दण्डकालसकश्चैव एकैव स्याद्विलम्बिका ॥११॥अर्शश्चर्मकीलयोर्भेदाःअर्शांसि षड्विधान्याहुर्वातपित्तकफास्रतःसन्निपाताच्च संसर्गात्तेषां भेदो द्विधा स्मृतः ॥१२॥सहजोत्तरजन्मभ्यां तथा शुष्कार्द्र भेदतःत्रिधैव चर्मकीलानि वातात्पित्तात्कफादपि ॥१३॥कृमिभेदाःएकविंशतिभेदेन कृमयः स्युर्द्विधा च तेबाह्यास्तथाऽभ्यन्तराः स्युस्तेषु यूका बहिश्चराः ॥१४॥लिक्षाश्चान्येऽन्तरचराः कफात्ते हृदयादकाःअन्त्रादा उदरावेष्टाश्चुरवश्च महागुदाः ॥१५॥सुगन्धा दर्भकुसुमास्तथा रक्ताच्च मातरःसौरसा लोमविध्वंसा रोमद्वीपा उदुम्बराः ॥१६॥केशादाश्च तथैवान्ये शकृज्जाता मकेरुकाःलेलिहाश्च सशूलाश्च सौसुरादाः ककेरुकाः ॥१७॥तथाऽन्य कफरक्ताभ्यां संजातः स्नायुकः स्मृतःव्रणस्य कृमयश्चान्ये विषमा बाह्ययोनयः ॥१८॥पाण्डुरोगकामलयोर्भेदाःपाण्डुरोगाश्च पञ्च स्युर्वातपित्तकफैस्त्रिधात्रिदोषैर्मृत्तिकाभिश्च तथैका कामला स्मृतास्यात्कुम्भकामला चैका तथैकं च हलीमकम् ॥१९॥रक्तपित्तभेदाःरक्तपित्तं त्रिधा प्रोक्तमूर्ध्वगं कफसंभवम्अधोगं मारुतं ज्ञेयं तद्द्वयेन द्विमार्गगम् ॥२०॥कासभेदाःकासाः पञ्च समुद्दिष्टास्ते त्रयः स्युस्त्रिभिर्मलैःउरः क्षताच्चतुर्थः स्यात्क्षयाद्धातोश्च पञ्चमः ॥२१॥क्षयभेदाःक्षयाः पञ्चैव विज्ञेयास्त्रिभिर्दोषैस्त्रयश्च तेचतुर्थः सन्निपातेन पञ्चमः स्यादुरःक्षतात् ॥२२॥शोषभेदाःशोषाः स्युः षट्प्रकारेण स्त्रीप्रसङ्गाच्छुचो व्रणात्अध्वश्रमाच्च व्यायामाद् बार्धक्यादपि जायते ॥२३॥श्वासभेदाःश्वासाश्च पञ्च विज्ञेयाः क्षुद्र ः! स्यात्तमकस्तथाऊर्ध्वश्वासो महाश्वासच्छिन्नश्वासश्च पञ्चमः ॥२४॥हिक्काभेदाःकथिताः पञ्च हिक्कास्तु तास्तु क्षुद्रा ऽन्नजा तथागम्भीरा यमला चैव महती पञ्चमी तथा ॥२५॥अग्निविकारभेदाःचत्वारोऽग्नेर्विकाराः स्युर्विषमो वातसम्भवःतीक्ष्णः पित्तात्कफान्मन्दो भस्मको वातपित्तयोः ॥२६॥अरोचकभेदाःपञ्चैवारोचका ज्ञेया वातपित्तकफैस्त्रिधासन्निपातान्मनस्तापात्छर्दिभेदाः छर्दयः सप्तधा मताः ॥२७॥त्रिभिर्दोषैः पृथक्तिस्रः कृमिभिः सन्निपातजःघृणया च तथा स्त्रीणां गर्भाधानाच्च जायते ॥२८॥स्वरभेदाःस्वरभेदाः षडेव स्युर्वातपित्तकफैस्त्रयःमेदसा सन्निपातेन क्षयात्षष्ठः प्रकीर्तितः ॥२९॥तृष्णाभेदाःतृष्णा च षड्विधा प्रोक्तावातात्पित्तात्कफादपित्रिदोषैरुपसर्गेण क्षयाद्धातोश्च षष्ठिका ॥३०॥मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासग्लानि भेदाःमूर्च्छा चतुर्विधा ज्ञेयाः वातपित्तकफैः पृथक् ॥३१॥चतुर्थी सन्निपातेन तथैकश्च भ्रमः स्मृतःनिद्रा तन्द्रा च संन्यासो ग्लानिश्चैकैकशः स्मृताः ॥३२॥मदरोगभेदाःमदाः सप्त समाख्याता वातपित्तकफैस्त्रयःत्रिदोषैरसृजा मद्याद्विषादपि स सप्तमः ॥३३॥मदात्ययभेदास्तदवान्तरभेदाश्चमदात्ययश्चतुर्द्धा स्याद्वातपित्तकफादपित्रिदोषैरपि विज्ञेय एकः परमदस्तथा ॥३४॥पानाजीर्णं तथा चैकं तथैकः पानविभ्रमःपानात्ययस्तथा चैकःदाहभेदाःदाहाः सप्त मतास्तथा ॥३५॥रक्तपित्तात्तथा रक्तात्तृष्णायाः पित्ततस्तथाधातुक्षयान्मर्मघाताद्र क्तपूर्णोदरादपि ॥३६॥उन्मादभेदाःउन्मादाः षट् समाख्यातास्त्रिभिर्दोषैस्त्रयश्च तेसन्निपाताद्विषाज्ज्ञेयः षष्ठो दुःखेन चेतसः ॥३७॥भूतोन्मादभेदाःभूतोन्मादा विंशतिः स्युस्ते देवाद्दानवादपिगन्धर्वात्किन्नराद्यक्षात्पितृभ्यो गुरुशापतः ॥३८॥प्रेताच्च गुह्यकाद् वृद्धात्सिद्धाद्भूतात्पिशाचतःजलाधिदेवतायाश्च नागाच्च ब्रह्मराक्षसात्राक्षसादपि कूष्माण्डात्कृत्या वेतालयोरपि ॥३९॥अपस्मारभेदाःअपस्मारश्चतुर्द्धा स्यात्समीरात्पित्ततस्तथाश्लेष्मणोऽपि तृतीयः स्याच्चतुर्थः सन्निपाततः ॥४०॥आमवातभेदाःचत्वारश्चामवाताः स्युर्वातपित्तकफैस्त्रिधाचतुर्थः सन्निपातेनशूलभेदाःशूलान्यष्टौ बुधा जगुः ॥४१॥पृथगदोषैस्त्रिधा द्वन्द्वभेदेन त्रिविधान्यपिआमेन सप्तमं प्रोक्तं सन्निपातेन चाष्टमम् ॥४२॥परिणामशूलभेदाःपरिणामभवं शूलमष्टधा परिकीर्त्तितम्मलैर्या शूलसंख्या स्यात्तैरेव परिणामजम् ॥४३॥अन्नद्र वजरत्पित्तशूलेअन्नद्र वभवं शूलं जरत्पित्तभवं तथाएकैकं गणितं सुज्ञैःउदावर्त्तभेदाःउदावर्त्तास्त्रयोदश ॥४४॥एकः क्षुन्निग्रहात्प्रोक्तस्तृष्णारोधाद् द्वितीयकः ॥४५॥निद्रा घातात्तृतीयः स्याच्चतुर्थः श्वासनिग्रहात्छर्दिरोधात्पञ्चमः स्यात्षष्ठः क्षवथुनिग्रहात् ॥४६॥जृम्भारोधात्सप्तमः स्यादुद्गारग्रहतोऽष्टमःनवमः स्यादश्रुरोधाद्दशमः शुक्रधारणात् ॥४७॥मूत्ररोधान्मलस्यापि रोधाद्वातविनिग्रहात्उदावर्त्तास्त्रयश्चैते घोरोपद्र वकारकाः ॥४८॥आनाहभेदौआनाहोद्विविधो ज्ञेय एकः पक्काशयोद्भवःआमाशयोद्भवश्चान्यः प्रत्यानाहः स कथ्यते ॥४९॥उरोग्रहहृद्रो गयोर्भेदाःउरोग्रहस्तथा चैको हृद्रो गाः पञ्च कीर्त्तिताःवातादिभिस्त्रयः प्रोक्ताश्चतुर्थः सन्निपाततःपञ्चमः क्रिमिसञ्जातःउदररोगभेदाःतथाऽष्टावुदराणि च ॥५०॥वातात्पित्तात्कफात्त्रीणि त्रिदोषेभ्यो जलादपिप्लीह्नः क्षताद्बद्धगुदादष्टमं परिकीर्त्तितम् ॥५१॥गुल्मभेदाःगुल्मास्त्वष्टौ समाख्याता वातपित्तकफैस्त्रयः ॥५२॥द्वन्द्वभेदास्त्रयः प्रोक्ताः सप्तमः सन्निपाततःरक्तादष्टमकः ख्यातःमूत्राघातभेदाःमूत्राघातास्त्रयोदश ॥५३॥वातकुण्डलिका पूर्वा वाताष्ठीला ततः परावातबस्तिस्तृतीयः स्यान्मूत्रातीतश्चतुर्थकः ॥५४॥पञ्चमं मूत्रजठरं षष्ठो मूत्रक्षयः स्मृतःमूत्रोत्सर्गः सप्तमः स्यान्मूत्रग्रन्थिस्तथाऽष्टमः ॥५५॥मूत्रशुक्रंतु नवमं विड्घातो दशमः स्मृतःमूत्रसादश्चोष्णवातोबस्तिकुण्डलिका तथात्रयोऽप्येते मूत्रघाताः पृथग्घोराः प्रकीर्त्तिताः ॥५६॥मूत्रकृच्छ्रभेदाःमूत्रकृच्छ्राणि चाष्टौ स्युर्वातपित्तकफैस्त्रिधा ॥५७॥सन्निपाताचतुर्थं स्याच्छुक्रकृच्छ्रं च पञ्चमंविट्कृच्छ्रं षष्ठमाख्यातं घातकृच्छ्रं च सप्तमम्अष्टमं चाश्मरीकृच्छ्रंअश्मरीभेदाःचतुर्द्धा चाश्मरी मता ॥५८॥वातात्पित्तात्कफाच्छुक्रात् तथा मेहाश्च विंशतिः ॥५९॥कफजमेहभेदाःइक्षुमेहः सुरामेहः पिष्टमेहश्च सान्द्र कःशुक्रमेहोदकाख्यौ च लालामेहश्च शीतकःसिकताख्यः शनैर्मेहो दशैते कफसम्भवाः ॥६०॥पित्तजमेहभेदाःमञ्जिष्ठाख्यो हरिद्रा ख्यो नीलमेहश्च रक्तकःकृष्णमेहः क्षारमेहः षडेते पित्तसम्भवाः ॥६१वातिकमेहभेदाःहस्तिमेहो वसामेहो मज्जामेहो मधुप्रभःचत्वारो वातजा मेहा इति मेहाश्च विंशतिः ॥६२॥सोमरोगप्रमेहपिटिकयोर्भेदःसोमरोगस्तथा चैकः प्रमेहपिटिका दशशराविका कच्छपिका पुत्रिणी विनताऽलजी ॥६३॥मसूरिका सर्षपिका जालिनी च विदारिकाविद्र धिश्च दशैताः स्युः पिटिका मेहसम्भवाः ॥६४॥मेदोदोषशोथरोगभेदाःमेदो दोषस्तथा चैकः शोथ रोगा नव स्मृताःदोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि ॥६५॥वृद्धिरोगभेदाःवृद्धयः सप्त गदिता वातात्पित्तात्कफेन चरक्तेन मेदसा मूत्रादन्त्रवृद्धिश्च सप्तमी ॥६६॥अण्डवृद्धि गण्डमालिका गण्डालजीरोगाःअण्डवृद्धिस्तथा चैका तथैका गण्डमालिकागण्डालजीति चैका स्याद्ग्रन्थिभेदाःग्रन्थयो नवधा मताः ॥६७॥त्रिभिर्दोषैस्त्रयो रक्ताच्छिराभिर्मेदसो व्रणात्अस्थ्ना मांसेन नवमःअर्बुदभेदाःषड्विधं स्यात्तथाऽबुदम् ॥६८॥वातात्पित्तात्कफाद्र क्तान्मांसादपि च मेदसः ॥६९॥श्लीपदभेदाःश्लीपदं च त्रिधा प्रोक्तं वातात्पित्तात्कफादपि ॥७०॥विद्र धिभेदाःविद्र धिः षड्विधः ख्यातो वातपित्तकफैस्त्रयःरक्तात् क्षतात् त्रिदोषैश्चव्रणभेदाःव्रणाः पञ्चदशोदिताः ॥७॥१तेषां चतुर्द्धा भेदाः स्युरागन्तुर्देहजस्तथाशुद्धो दुष्टश्च विज्ञेयस्तत्संख्या कथ्यते पृथक्वातव्रणः पित्तजश्च कफजो रक्तजो व्रणः ॥७२॥वातपित्तभवश्चान्यो वातश्लेष्मभवस्तथातथा पित्तकफाभ्यां च सन्निपातेन चाष्टमः ॥७३॥नवमो वातरक्तेन दशमो रक्तपित्ततःश्लेष्मरक्तभवश्चान्यो वातपित्तासृगुद्भवः ॥७४॥वातश्लेष्मासृगुत्पन्नः पित्तश्लेष्मास्रसंभवःसन्निपातासृगुद्भूत इति पञ्चदश व्रणाः ॥७५॥सद्योव्रणभेदाःसद्योव्रणस्त्वष्टधा स्यादविकॢप्तविलम्बितौछिन्नभिन्नप्रचलिता घृष्टविद्धनिपातिताः ॥७६॥कोष्ठभेदभेदौकोष्ठभेदो द्विधा प्रोक्तश्छिन्नान्त्रो निःसृतान्त्रकः ॥७७॥अस्थिभङ्गभेदाःअस्थिभङ्गोऽष्टधा प्रोक्तो भग्नपृष्ठविदारितौविवर्त्तितश्च विश्लिष्टस्तिर्यक्क्षिप्तस्त्वधोगतःऊर्ध्वगः संधिभग्नश्चवह्निदग्धभेदाःवह्निदग्धश्चतुर्विधः ॥७८॥प्लुष्टो विदग्धो दुर्दग्धः सम्यग्दग्धः प्रकीर्त्तितः ॥७९॥नाडीव्रणभेदाःनाड्यः पञ्च समाख्याता वातपित्तकफैस्त्रिधात्रिदोषैरपि शल्येनभगन्दरभेदाःतथाऽष्टौ स्युर्भगन्दराः ॥८०॥शतपोनस्तु पवनादुष्ट्रग्रीवश्च पित्ततःपरिस्रावो कफाज्ज्ञेय ऋजुर्वातकफोद्भवः ॥८१॥परिक्षेपी मरुत्पित्तादर्शोजः कफपित्ततःआगन्तुजातश्चोन्मार्गी शङ्खावर्तस्त्रिदोषजः ॥८२॥उपदंशभेदाःमेढ्रे पञ्चोपदंशाः स्युर्वातपित्तकफैस्त्रिधासन्निपातेन रक्ताच्चशूकामयभेदाःमेढ्रे शूकामयास्तथाचतुर्विंशतिराख्याता लिङ्गार्शो ग्रथितं तथा ॥८३॥निवृत्तमवमन्थश्च मृदितं शतपोनकःअष्ठीलिका सर्षपिका त्वक्पाकश्चावपाटिका ॥८४॥मांसपाकः स्पर्शहानिर्निरुद्धमणिरुत्तमामांसार्बुदं पुष्करिका संमूढपिडिकाऽलजी ॥८५॥रक्तार्बुदं विद्र धिश्च कुम्भिकातिलकालकःनिरुद्धप्रकशः प्रोक्तस्तथैव परिवर्त्तिका ॥८६॥कुष्ठभेदाःकुष्ठान्यष्टादशोक्तानि वातात् कापालिकं भवेत्पित्तेनोदुम्बरं प्रोक्तं कफान्मण्डलचर्चिके ॥८७॥मरुत्पित्तादृष्यजिह्वं श्लेष्मवाताद्विपादिकातथा सिध्मैककुष्ठं च किटिभं चालसं तथा ॥८८॥कफपित्तात् पुनर्दद्रुः पामा विस्फोटकं तथामहाकुष्ठं चर्मदलं पुण्डरीकं शतारुकम् ॥८९॥त्रिदोषैः काकणं ज्ञेयं तथाऽन्यच्छिवत्रसंज्ञितम्तथा वातेन पित्तेन श्लेष्मणा च त्रिधा भवेत् ॥९०॥क्षुद्र रोगभेदाःक्षुद्र रोगाः षष्टिसंख्यास्तेष्वादौ शर्करार्बुदम्इन्द्र वृद्धा पनसिका विवृताऽन्धालजी तथा ॥९१॥वराहदंष्ट्रो वल्मीकं कच्छपी तिलकालकःगर्दभी रकसा चैव यवप्रख्या विदारिका ॥९२॥कदरं मषकश्चैव नीलिका जालगर्दभःइरिवेल्ली जतुमणिर्गुदभ्रंशोऽग्निरोहिणी ॥९३॥सन्निरुद्धगुदः कोठः कुनखोऽनुशयी तथापद्मिनीकण्टकश्चिप्पमलसो मुखदूषिका ॥९४॥कक्षावृषणकच्छूश्च गन्धः पाषाणगर्दभःराजिका च तथा व्यङ्गश्चतुर्द्धा परिकीर्त्तितः ॥९५॥वातात्पित्तात्कफाद्र क्तादित्युक्तं व्यङ्गलक्षणम्विस्फोटाः क्षुद्र रोगेषु तेऽष्टधा परिकीर्त्तिताः ॥९६॥पृथग्दोषैस्त्रयो द्वन्द्बैस्त्रिविधः सप्तमोऽसृजःअष्टमः सन्निपातेन क्षुद्र रुक्षु मसूरिका ॥९७॥चतुर्दशप्रकारेण त्रिभिर्दोषैस्त्रिधा च साद्वन्द्वजा विविधा प्रोक्ता सन्निपातेन सप्तमी ॥९८॥अष्टमी त्वग्गता ज्ञेया नवमी रक्तजा स्मृतादशमी मांससञ्जाता चतस्रोऽन्याश्च दुस्तराःमेदोऽस्थिमज्जाशुक्रस्थाः क्षुद्र रोगा इतीरिताः ॥९९॥विसर्पभेदाःविसर्परोगो नवधा वातपित्तकफैस्त्रिधा ॥१००॥त्रिधा स द्वन्द्वभेदेन सन्निपातेन सप्तमःअष्टमो वह्निदाहेन नवमश्चाभिघातजः ॥१०१॥उदर्दशीतपित्तामयौतथैकः श्लेष्मपित्ताभ्यामुदर्दः परिकीर्त्तितःवातपित्तेन चैकस्तु शीतपित्तामयः स्मृतः ॥१०२॥अम्लपित्तभेदाःअम्लपित्तं त्रिधा प्रोक्तं वातेन श्लेष्मणा तथातृतीयं श्लेष्मवाताभ्याम्वातरक्तभेदाःवातरक्तं तथाऽष्टधा ॥१०३॥वाताधिक्येन पित्ताच्च कफाद्दोषत्रयेण चरक्ताधिक्येन दोषाणां द्वन्द्वेन त्रिविधः स्मृतः ॥१०४॥वातरोगभेदाःअशीतिर्वातजा रोगाः कथ्यन्ते मुनिभाषिताःआक्षेपको हनुस्तम्भ ऊरुस्तम्भः शिरोग्रहः ॥१०५॥बाह्यायामोऽन्तरायामः पार्श्वशूलं कटिग्रहःदण्डापतानकः खल्ली जिह्वास्तम्भस्तथाऽदितम् ॥१०६॥पक्षाघातः क्रोष्टुशीर्षो मन्यास्तम्भश्च पङ्गुताकलायखञ्जता तूनी प्रतितूनी च खञ्जता ॥१०७॥पादहर्षो गृध्रसी च विश्वाची चापबाहुकःअपतानो व्रणायामो वातकण्टोऽपतन्त्रकः ॥१०८॥अङ्गभेदोऽङ्गशोषश्च मिन्मिनत्वं च गद्गदःप्रत्यष्ठीलाऽष्ठीलिका च वामनत्वं च कुब्जता ॥१०९॥अङ्गपीडाऽङ्गशूलं च संकोचस्तम्भरूक्षताःअङ्गभङ्गोऽङ्गविभ्रंशो विड्ग्रहो बद्धविट्कता ॥११०मूकत्वमतिजृम्भा स्यादत्युद्गारोऽन्त्रकूजनम्वातप्रवृत्तिः स्फुरणं शिराणां पूरणं तथा ॥१११॥कम्पः कार्श्यं श्यावता च प्रलापः क्षिप्रमूत्रतानिद्रा नाशः स्वेदनाशो दुर्बलत्वं बलक्षयः ॥११२॥अतिप्रवृत्तिः शुक्रस्य कार्श्यं नाशश्च रेतसःअनवस्थितचित्तत्वं काठिन्यं विरसास्यता ॥११३॥कषायवक्त्रताऽध्मानं प्रत्याध्मानं च शीततारोमहर्षश्च भीरुत्वं तोदः कण्डू रसाज्ञताशब्दाज्ञता प्रसुप्तिश्च गन्धाज्ञत्वं दृशः क्षयः ॥११४॥पित्तरोगभेदाःअथ पित्तभवा रोगाश्चत्वारिंशदिहोदिताः ॥११५॥धूम्रोद्गारो विदाहः स्यादुष्णाङ्गत्वं मतिभ्रमःकान्तिहानिः कण्ठशोषो मुखशोषोऽल्पशुक्रता ॥११६॥तिक्तास्यताऽम्लवक्त्रत्वं स्वेदस्रावोऽङ्गपाकताक्लमो हरितवर्णत्वमतृप्तिः पीतगात्रता ॥११७॥रक्तस्रावोऽङ्गदरणं लोहगन्धास्यता तथादौर्गन्ध्यं पीतमूत्रत्वमरतिः पीतविट्कता ॥११८॥पीतावलोकनं पीतनेत्रता पीतदन्तताशीतेच्छा पीतनखता तेजोद्वेषोऽल्पनिद्र ता ॥११९॥कोपश्च गात्रसादश्च भिन्नविट्कत्वमन्धताउष्णोच्छ्वासत्वमुष्णत्वं मूत्रस्य च मलस्य च ॥१२०॥तमसो दर्शनं पीतमण्डलानां च दर्शनम्निःसहत्वं च पित्तस्य चत्वारिंशद्रुजः स्मृताः ॥१२१॥कफरोगभेदाःकफस्य विंशतिः प्रोक्ता रोगास्तन्द्रा ऽतिनिद्र तागौरवं मुखमाधुर्यं मुखलेपः प्रसेकता ॥१२२॥श्वेतावलोकनं श्वेतविट्कत्वं श्वेतमूत्रताश्वेताङ्गवर्णता शैत्यमुष्णेच्छा तिक्तकामिता ॥१२३॥मलाधिक्यं च शुक्रस्य बाहुल्यं बहुमूत्रताआलस्यं मन्दबुद्धित्वं तृप्तिर्घर्घरवाक्यताअचैतन्यं च गदिता विंशतिः श्लेष्मजा गदाः ॥१२४॥रक्तरोगभेदाःरक्तस्य च दश प्रोक्ता व्याधयस्तेषु गौरवम् ॥१२५॥रक्तमण्डलता रक्तनेत्रत्वं रक्तमूत्रतारक्तनिष्ठीवनं रक्तपिटिकानां च दर्शनम्औष्ण्यं च पूतिगन्धित्वं पीडा पाकश्च जायते ॥१२६॥मुखरोगभेदाःचतुःसप्ततिसंख्याका मुखरोगास्तथोदिताः ॥१२७॥ओष्ठरोगभेदाःतेष्वोष्ठरोगा गणिता एकादशमिता बुधैःवातपित्तकफैस्त्रेधा त्रिदोषैरसृजा तथा ॥१२८॥क्षतान्मांसार्बुदं चैव खण्डोष्ठं च जलार्बुदम्मेदोऽबुदं चार्बुदं च रोगा एकादशौष्ठजाः ॥१२९॥दन्तरोगभेदाःदन्तरोगा दशाख्याता दालनः कृमिदन्तकःदन्तहर्षः करालश्च दन्तचालश्च शर्कराअधिदन्तः श्यावदन्तो दन्तभेदः कपालिका ॥१३०॥दन्तमूलरोगभेदाःतथा त्रयोदशमिता दन्तमूलामयाः स्मृताः ॥१३१॥शीतादोपकुशौ द्वौ तु दन्तविद्र धिपुप्पुटौअधिमांसो विदर्भश्च महासौषिरसौषिरौ ॥१३२॥तेष्वेव गतयः पञ्च वातात्पित्तात्कफादपिसन्निपाताद् गतिश्चान्या रक्तनाडी च पञ्चमी ॥१३३॥जिह्वारोगभेदाःतथा जिह्वाऽमयाः षट् स्युर्वातपित्तकफैस्त्रिधाअलासश्च चतुर्थः स्यादधिजिह्वश्च पञ्चमः ॥१३४॥षष्ठश्चैवोजपजिह्वः स्यात्तालुरोगभेदाःतथाऽष्टौ तालुजा गदाः ॥१३५॥अर्बुदं तालुपिटिका कच्छपी तालुसंहतिःगलशुण्डी तालुशोषस्तालुपाकश्च पुप्पुटः ॥१३६॥गलरोगभेदाःगलरोगास्तथा ख्याता अष्टादशमिता बुधैःवातरोहिणिका पूर्वं द्वितीया पित्तरोहिणीकफरोहिणिका प्रोक्ता त्रिदोषैरपि रोहिणी ॥१३७॥मेदोरोहिणिका वृन्दो गलौघो गलविद्र धिःस्वरहा तुण्डिकेरी च शतघ्नी शालुकोऽबुदम् ॥१३८॥गलायुर्वलयश्चापि वाताद् गण्डः कफात्तथामेदोगण्डस्तथैव स्यादित्यष्टादश कण्ठजाः ॥१३९॥मुखान्तर्गतरोगभेदाःमुखान्तःसम्भवा रोगा अष्टौ ख्याता महर्षिभिःमुखपाको भवेद्वातात्पित्तात्तद्वत्कफादपि ॥१४०॥रक्ताच्च सन्निपाताच्च पूत्यास्योर्ध्वगुदावपिअर्बुदं चेति मुखजाश्चतुः सप्ततिरामयाः ॥१४१॥कर्णरोगभेदाःकर्णरोगाः समाख्याता अष्टादशमिता बुधैःवातात्पित्तात्कफाद्र क्तात्सन्निपाताच्च विद्र धिः ॥१४२॥शोथोऽबुदं पूतिकर्णः कर्णार्शः कर्णहल्लिकाबाधिर्यं तन्त्रिका कण्डूः शष्कुली कृमिकर्णकःकर्णनादः प्रतीनाह इत्यष्टादश कर्णजाः ॥१४३॥कर्णपालीरोगभेदाःकर्णपालीसमुद्भूता रोगाः सप्त इहोदिताः ॥१४४॥उत्पातः पालिशोषश्च विदारी दुःखवर्द्धनःपरिपोटश्च लेही च पिप्पली चेति संस्मृतः ॥१४५॥कर्णमूलरोगभेदाःकर्णमूलामयाः पञ्च वातात्पित्तात्कफादपिसन्निपाताच्च रक्ताच्चनासारोगभेदाःतथा नासाभवा गदाः ॥१४६॥अष्टादशैव संख्याताः प्रतिश्यायस्तु तेष्वपिवातात्पित्तात्कफाद्र क्तात्सन्निपातेन पञ्चमः ॥१४७॥अपीनसः पूतिनासो नासाऽशो भ्रंशथुः क्षवःनासाऽनाहः पूतिरक्तमर्बुदं दुष्टपीनसम्नासाशोषो घ्राणपाकः पूयस्रावश्च दीप्तकः ॥१४८॥शिरोरोगभेदाःतथा दश शिरोरोगा वातेनार्द्धावभेदकःशिरस्तापश्च वातेन पित्तपीडा तृतीयका ॥१४९॥चतुर्थी कफजा पीडा रक्तजा सन्निपातजासूर्यावर्त्ताच्छिरः कम्पात्क्रिमिभिः शङ्खकेन च ॥१५०॥कपालरोगभेदाःतथा कपालरोगाः स्युर्नव तेषूपशीर्षकम्अरुंषिका विद्र धिश्च दारुणं पिटिकाऽबुदम्इन्द्र लुप्तं च खलितं पलितं चेति ते नव ॥१५२॥नेत्ररोगभेदास्तत्रादौ वर्त्मरोगभेदाःतथा नेत्रभवाः ख्याताश्चतुर्नवतिरामयाःतेषु वर्त्मगदाः प्रोक्ताश्चतुर्विंशतिसंज्ञकाः ॥१५३॥कृच्छ्रोन्मीलः पक्ष्मपातः कफोत्क्लिष्टश्च लोहितःअरुङ्निमेषः कथितो रक्तोत्क्लिष्टः कुकूणकः ॥१५४॥पक्ष्मार्शः पक्ष्मरोधश्च पित्तोत्क्लिष्टश्च पोथकीक्लिष्टवर्त्मा च बहलः पक्ष्मोत्सङ्गस्तथाऽबुदम् ॥१५५॥कुम्भिका सिकतावर्त्म लगणोऽञ्जननामिकाकर्दमः श्याववर्त्मा च बिसवर्त्मा तथाऽलजीउत्क्लिष्टवर्त्मेति गदाः प्रोक्ता वर्त्मसमुद्भवाः ॥१५६॥नेत्रसन्धिरोगभेदाःनेत्रसन्धिसमुद्भूता नव रोगाः प्रकीर्त्तिताःजलस्रावः कफस्रावो रक्तस्रावश्च पर्वणी ॥१५७॥पूयस्रावः क्रिमिग्रन्थिरुपनाहस्तथाऽलजीपूयालस इति प्रोक्ता रोगा नयनसन्धिजाः ॥१५८॥नेत्रशुक्लगतरोगभेदाःतथा शुक्लगता रोगा बुधैः प्रोक्तास्त्रयोदश ॥१५९॥शिरोत्पातः शिराहर्षः शिराजालं च शुक्तिकाशुक्लार्म चाधिमांसार्म प्रस्तार्यर्म च पिष्टकः ॥१६०॥शिराजपिटिका चैव कफग्रथितकोऽजुनःस्नाय्वर्म शोणितार्म स्यादिति शुक्लगता गदाः ॥१६१॥नेत्रकृष्णगतरोगभेदाःतथा कृष्णसमुद्भूताः पञ्च रोगाः प्रकीर्तिताःशुद्धशुक्रं शिराशुक्रं क्षतशुक्रं तथाऽजकाशिरासङ्गश्च सर्वेऽपि प्रोक्ताः कृष्णगता गदाः ॥१६२॥काचरोगभेदाःकाचं तु षड्विधं ज्ञेयं वातात्पित्तात्कफादपिसन्निपाताच्च रक्ताच्च षष्ठं संसर्गसम्भवम् ॥१६३॥तिमिररोगभेदाःतिमिराणि षडेव स्युर्वातपित्तकफैस्त्रिधासंसर्गेण च रक्तेन षष्ठं स्यात्सन्निपाततः ॥१६४॥लिङ्गनाशरोगभेदाःलिङ्गनाशः सप्तधा स्याद्वातात्पित्तात्कफेन चत्रिदोषैरुपसर्गेण संसर्गेणासृजा तथा ॥१६५॥दृष्टिमण्डलरोगभेदाःअष्टधा दृष्टिरोगाः स्युस्तेषु पित्तविदग्धकम्अम्लपित्तविदग्धं च तथैवोष्णविदग्धकम् ॥१६६॥नकुलान्ध्यं धूसरान्ध्यं रात्र्! यान्ध्यं ह्र्रस्वदृष्टिकःगम्भीरदृष्टिरित्येते रोगा दृष्टिगता मताः ॥१६७॥अभिष्यन्दरोगभेदाःअभिष्यन्दाश्च चत्वारो रक्ताद्दोषैस्त्रिभिस्तथा ॥१६८॥अधिमन्थरोगभेदाःचत्वारश्चाधिमन्थाः स्युर्वातपित्तकफास्रतः ॥१६९॥सर्वाक्षिरोगभेदाःसर्वाक्षिरोगाश्चाष्टौ स्युस्तेषु वातविपर्ययःअल्पशोफोऽन्यतोवातस्तथा पाकात्ययः स्मृतःशुष्काक्षिपाकश्च तथा शोफोऽध्युषित एव चहताधिमन्थ इत्येते रोगाः सर्वाक्षिसम्भवाः ॥१७०॥पुंस्त्वरोगभेदाःपुंस्त्वदोषास्तु पञ्चैव प्रोक्तास्तत्रेर्ष्यकः स्मृतःआसेक्यश्चैव कुम्भीकः सुगन्धिः षण्ढसंज्ञकः ॥१७१॥शुक्रदोषभेदाःशुक्रदोषास्तथाऽष्टौ स्युर्वातात्पित्तात्कफेन चकुणपं श्लेष्मवाताभ्यां पूयाभं श्लेष्मपित्ततः ॥१७२॥क्षीणं च वातपित्ताभ्यां ग्रन्थिलं श्लेष्मवाततःमलाभं सन्निपाताच्च शुक्रदोषा इतीरिताः ॥१७३॥अथ स्त्रीरोगनामानितत्रार्त्तवदोषभेदाःअथ स्त्रीरोगनामानि प्रोच्यन्ते पूर्वशास्त्रतः ॥१७४॥अष्टावार्त्तवदोषाः स्युर्वातपित्तकफैस्त्रिधापूयाभं कुणपं ग्रन्थिं क्षीणं मलसमं तथा ॥१७५॥रक्तप्रदरभेदाःतथा च रक्तप्रदरं चतुर्विधमुदाहृतम्वातपित्तकफैस्त्रेधा चतुर्थं सन्निपाततः ॥१७६॥योनिरोगभेदाःविंशतिर्योनिरोगाः स्युर्वातात्पित्तात्कफादपिसन्निपाताच्च रक्ताच्च लोहितक्षयतस्तथा ॥१७७॥शुष्का च वामिनी चैव खण्डिताऽन्तर्मुखी तथासूचीमुखी विप्लुता च जातघ्नी च परिप्लुता ॥१७८॥उपप्लुता प्राक्चरणा महायोनिश्च कर्णिनीस्यान्नन्दा चातिचरणा योनिरोगा इतीरिताः ॥१७९॥योनिकन्दभेदाःचतुर्विधं योनिकन्दं वातपित्तकफैस्त्रिधाचतुर्थं सन्निपातेनगर्भरोगभेदाःतथाष्टौ गर्भजा गदाः ॥१८०॥उपविष्टकगर्भः स्यात्तथा नागोदरः स्मृतःमक्कल्लो मूढगर्भश्च विष्कम्भो गूढगर्भकःजरायुदोषो गर्भस्य पातश्चाष्टमकः स्मृतः ॥१८१॥स्तनरोगभेदाःपञ्चैव स्तनरोगाः स्युर्वातात्पित्तात्कफादपिसन्निपातात्क्षताच्चैवस्तन्यरोगभेदाःतथा स्तन्योद्भवा गदाः ॥१८२॥बालरोगेषु कथिताःस्त्रीदोषभेदाःस्त्रीदोषाश्चत्रयः स्मृताः ॥१८३॥अदक्षपुरुषोत्पन्नः सपत्नीविहितस्तथादैवाज्जातस्तृतीयस्तुसूतिकारोगभेदाःतथा ये सूतिकागदाः ॥१८४॥ज्वरादयश्चिकित्स्यास्ते यथादोषं यथाबलम् ॥१८५॥बालरोगभेदाःद्वाविंशतिर्बालरोगास्तेषु क्षीरभवास्त्रयःवातात्पित्तात्कफाच्चैव दन्तोद्भेदश्चतुर्थकःदन्तघातो दन्तशब्दोऽकालदन्ताऽहिपूतनम् ॥१८६॥मुखपाको मुखस्रावो गुदपाकोपशीर्षकेपद्मारुणस्तालुकण्टो विच्छिन्नं पारिगर्भिकः ॥१८७॥दौर्बल्यं गात्रशोषश्च शय्यामूत्रं कुकूणकःरोदनं चाजगल्ली स्यादिति द्वाविंशतिः स्मृताः ॥१८८॥बालग्रहभेदाःतथा बालग्रहाः ख्याता द्वादशैव मुनीश्वरैःस्कन्दग्रहो विशाखः स्याच्छ्वग्रहश्च पितृग्रहः ॥१८९॥नैगमेयग्रहस्तद्वच्छकुनिः शीतपूतनामुखमण्डनिका तद्वत्पूतना चान्धपूतनारेवती चैव सङ्ख्याता तथा स्याच्छुष्करेवती ॥१९०॥चरणभेदरोगभेदाःतथा चरणभेदास्तु वातरक्तादिकाश्च येद्विचत्वारिंशदुक्तास्ते रोगेष्वेव मुनीश्वरैः ॥१९१॥वातादिदोषभेदाःद्विषष्टिर्दोषभेदाः स्युः सन्निपातादिकाश्च येतेऽपि रोगेषु गणिताः पृथक्प्रोक्ता न ते क्वचित् ॥१९२॥पञ्चकर्मरोगभेदाःहीनमिथ्याऽतियोगानां भेदैः पञ्चदशोदिताःपञ्चकर्मभवा रोगा रोगेष्वेव प्रकीर्त्तिताः ॥१९३॥स्नेहादीनां हीनादियोगजरोगभेदाःस्नेहस्वेदौ तथा धूमो गण्डूषोऽञ्जनतर्पणेषोढा अष्टादशैतज्जास्ताश्च रोगेषु लक्षिताः ॥१९४॥शीतोष्णशल्यक्षारोपद्र वाःशीतोपद्र व एकः स्यादेकश्चोष्णोद्भवो मतःशल्योपद्र व एकश्च क्षाराच्चैकः स्मृतस्तथा ॥१९५॥विषस्य विविधा भेदाःस्थावरं जङ्गमं चैव कृत्रिमं च त्रिधा विषम् ॥१९६॥तेषां च कालकूटाद्यैर्नवधा स्थावरं विषम्जङ्गमं बहुधा प्रोक्तं तत्र लूता भुजङ्गमाः ॥१९७॥वृश्चिका मूषिकाः कीटाः प्रत्येकं ते चतुर्विधाःदंष्ट्राविषं नखविषं बालशृङ्गास्थिभिस्तथा ॥१९८॥मूत्रात्पुरीषाच्छुक्राच्च दृष्टेर्निश्वासतस्तथालालायाः स्पर्शतस्तद्वत्तथा शङ्काविषं मतम् ॥१९९॥कृत्रिमं द्विविधं प्रोक्तं गरदूषीविभेदतःसप्तधातुविषं ज्ञेयं तथा सप्तोपधातुजम् ॥२००॥तथैवोपविषेभ्यश्च जातं सप्तविधं मतम्दुष्टनीरविषं चैकं तथैकं दिग्धजं विषम् ॥२०१॥कपिकच्छुभवा कण्डूर्दुष्टनीरभवा तथातथा सूरणकण्डूश्च शोथो भल्लातजस्तथा ॥२०२॥मदभेदाःमदश्चतुर्विधश्चान्यः पूगभङ्गाऽक्षकोद्र वैःचतुर्विधोऽन्यो द्र व्याणां फलत्वङ्मूलपत्रजः ॥२०३॥उपसंहारःइति प्रसिद्धा गणिता ये किलोपद्र वा भुविअसङ्ख्याश्चापरे धातुमूलजीवादिसम्भवाः इति शार्ङ्गधरसंहितायां पूर्वखण्डे रोगगणनानामसप्तमोऽध्यायःइति प्रथमखण्डं समाप्तम् N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP