संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|पूर्वखण्डम्| पञ्चमोऽध्यायः पूर्वखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः पूर्वखण्डम् - पञ्चमोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता कलादिकाख्यानम् Translation - भाषांतर तत्र कलादिकाख्यानम् शिआ!रीरम्कलादिकाख्यानम्कलाः सप्ताशयाः सप्त धातवःसप्त तन्मलाःसप्तोपधातवः सप्त त्वचः सप्त प्रकीर्त्तिताः ॥१॥त्रयो दोषा नवशतं स्नायूनां सन्धयस्तथादशाधिकं च द्विशतमस्थ्नां च त्रिशतं तथा ॥२॥सप्तोत्तरं मर्मशतं शिराः सप्तशतं तथाचतुर्विंशतिराख्याता धमन्यो रसवाहिकाः ॥३॥मांसपेश्यः समाख्याता नृणां पञ्चशतं बुधैःस्त्रीणां च विंशत्यधिकाः कण्डराश्चैव षोडश ॥४॥नृदेहे दश रन्ध्राणि नारीदेहे त्रयोदशएतत्समासतः प्रोक्तं विस्तरेणाधुनोच्यते ॥५॥अथ सप्त कलाःमांसासृङ्मेदसां तिस्रो यकृत्प्लीह्नोश्चतुर्थिकापञ्चमी च तथाऽन्त्राणां षष्ठी चाग्निधरा मतारेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः ॥६॥अथ सप्ताशयाःश्लेष्माशयः स्यादुरसि तस्मादामाशयस्त्वधः ॥७॥ऊर्ध्वमग्न्याशयो नाभेर्वामभागे व्यवस्थितःतस्योपरि तिलं ज्ञेयं तदधः पवनाशयः ॥८॥मलाशयस्त्वधस्तस्माद् बस्तिर्मूत्राशयस्त्वधःजीवरक्ताशयमुरो ज्ञेयाः सप्ताशयस्त्वमी ॥९॥नारीणां विशेषाशयाःपुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयःधरा गर्भाशयः प्रोक्तः स्तनौ स्तन्याशयौ मतौ ॥१०॥अथ सप्तधातूनां नामानि तदुत्पत्तिक्रमश्चरसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवःजायन्तेऽन्योऽन्यतः सर्वे पाचिताः पित्ततेजसा ॥११॥रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायतेमेदसोऽस्थि ततो मज्जा मज्जायाः शुक्रसंभवः ॥१२॥अथ सप्तधातूनां मलास्तदुत्पत्तिक्रमश्चजिह्वानेत्रकपोलानां जलं पित्तं च रञ्जकम्कर्णविड्रसनादन्तकक्षामेढ्रादिजं मलम् ॥१३॥नखनेत्रमलं वक्त्रे स्निग्धत्वं पिटिकास्तथाजायन्ते सप्तधातूनां मलान्येतान्यनुक्रमात् ॥१४॥मतान्तरेण धातुमलाःकफः पित्तं मलं खेषु प्रस्वेदो नखरोम चनेत्रविट् त्वक्षु च स्नेहो धातूनां क्रमशो मलाः ॥१५॥अथोपधातवःस्तन्यं रजश्च नारीणां काले भवति गच्छतिशुद्धमांसभवः स्नेहः सा वसा परिकीर्त्तिता ॥१६॥स्वेदो दन्तास्तथा केशास्तथैवौजश्च सप्तमम्इति धातुभवा ज्ञेया एते सप्तोपधातवः ॥१७॥अथौजोलक्षणम्ओजः सर्वशरीरस्थं शीतं स्निग्धं स्थिरं मतम्सोमात्मकं शरीरस्य बलपुष्टिकरं मतम् ॥१८॥अथ सप्त त्वचःज्ञेयाऽवभासिनी पूर्वं सिध्मस्थानं च सा मताद्वितीया लोहिता ज्ञेया तिलकालकजन्मभूः ॥१९॥श्वेता तृतीया संख्याता स्थानं चर्मदलस्य साताम्रा चतुर्थी विज्ञेया किलासश्वित्रभूमिका ॥२०॥पञ्चमी वेदनी ख्याता सर्वकुष्ठोद्भवस्ततःविख्याता रोहिणी षष्ठी ग्रन्थिगण्डापचीस्थितिः ॥२१॥स्थूला त्वक्सप्तमी ख्याता विद्र ध्यादेः स्थितिश्च साइति सप्त त्वचः प्रोक्ताः स्थूला व्रीहिद्विमात्रया ॥२२॥अथ दोषास्तन्नामानि चवायुः पित्तं कफो दोषा धातवश्च मलास्तथातत्रापि पञ्चधा ख्याताः प्रत्येकं देहधारणात् ॥२३॥दोषाणां नामान्तरे कारणनिर्देशःशरीरदूषणाद्दोषा धातवो देहधारणात्वातपित्तकफा ज्ञेया मलिनीकरणान्मलाः ॥२४॥तत्र वायोः प्राधान्यं तत्कार्यवर्णनञ्चपित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवःवायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत् ॥२५॥पवनस्तेषु बलवान्विभागकरणान्मतःरजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः ॥२६॥कार्यभेदेन वायोः पञ्चविधत्वम्मलाशये चरेत्कोष्ठे वह्निस्थाने तथा हृदिकण्ठे सर्वाङ्गदेशेषु वायुः पञ्चप्रकारतः ॥२७॥वायोः पञ्च नामानिअपानः स्यात्समानश्च प्राणोदानौ तथैव चव्यानश्चेति समीरस्य नामान्युक्तान्यनुक्रमात् ॥२८॥पित्तस्य विवरणम्पित्तमुष्णं द्र वं पीतं नीलं सत्त्वगुणोत्तरम्कटु तिक्तरसं ज्ञेयं विदग्धं चाम्लतां व्रजेत् ॥२९॥तस्य स्थानानि कार्याणि नामानि चअग्न्याशये भवेत्पित्तमग्निरूपं तिलोन्मितम्त्वचि कान्तिकरं ज्ञेयं लेपाभ्यङ्गादिपाचकम् ॥३०॥दृश्यं यकृति यत्पित्तं तद्र सं शोणितं नयेत्यत्पित्तं नेत्रयुगले रूपदर्शनकारि तत्यत्पित्तं हृदये तिष्ठेन्मेधाप्रज्ञाकरं च तत् ॥३१॥पाचकं भ्राजकं चैव रञ्जकालोचके तथासाधकं चेति पञ्चैव पित्तनामान्यनुक्रमात् ॥३२॥कफस्य विवरणं कर्माणि चकफः स्निग्धो गुरुः श्वेतः पिच्छिलः शीतलस्तथातमोगुणाधिकः स्वादुर्विदग्धो लवणो भवेत् ॥३३॥कफस्य स्थाननामकथनम्कफश्चामाशये मूर्ध्नि कण्ठे हृदि च संधिषुतिष्ठन्करोति देहस्य स्थैर्यं सर्वाङ्गपाटवम् ॥३४॥क्लेदनः स्नेहनश्चैव रसनश्चावलम्बनःश्लेष्मकश्चेति नामानि कफस्योक्तान्यनुक्रमात् ॥३५॥स्नायोर्विवरणम्स्नायवो बन्धनं प्रोक्ता देहे मांसास्थिमेदसाम् ॥३६॥सन्धेर्विवरणम्सन्धयश्चाङ्गसन्धानाद्देहे प्रोक्ताः कफान्विताः ॥३७॥अस्थ्नो विवरणम्आधारश्च तथा सारः कायेऽस्थीनि बुधा विदुः ॥३८॥मर्मणो विवरणम्मर्माणि जीवाधाराणि प्रायेण मुनयो जगुः ॥३९॥शिराविवरणम्सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः ॥४०॥धमनीविवरणम्धमन्यो रसवाहिन्यो धमन्ति पवनं तनौ ॥४१॥मांसपेशीविवरणम्मांसपेश्यो बलाय स्युरवष्टम्भाय देहिनाम् ॥४२॥कण्डराविवरणम्प्रसारणाकुञ्चनयोरङ्गानां कण्डरा मताः ॥४३॥रन्ध्रविवरणम्नासानयनकर्णानां द्वे द्वे रन्ध्रे प्रकीर्त्तितेमेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यतेदशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुःस्त्रीणां त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनःसूक्ष्मच्छिद्रा णि चान्यानि मतानि त्वचि जन्मिनाम् ॥४४॥फुफ्फुसप्लीहयकृतां विवरणम्तद्वामे फुफ्फुसं प्लीहा दक्षिणे च यकृन्मतम्उदानवायोराधारः फुफ्फुसं प्रोच्यते बुधैःरक्तवाहिशिरामूलं प्लीहा ख्याता महर्षिभिःयकृद्र ञ्जकपित्तस्य स्थानं रक्तस्य संश्रयः ॥४५॥तिल क्लिओ!मइ! वर्णनम्जलवाहिशिरामूलं तृष्णाऽच्छादनकं तिलम् ॥४६॥वृक्कवर्णनम्वृक्कौ तुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ॥४७॥वृषणलिङ्गयोर्वर्णनम्वीर्यवाहिशिराधारौ वृषणौ पौरुषावहौगर्भाधानकरं लिङ्गमयनं वीर्यमूत्रयोः ॥४८॥हृदयवर्णनम्हृदयं चेतनास्थानमोजसश्चाश्रयो मतम् ॥४९॥शरीरपोषणव्यापारनिर्देशःशिरा धमन्यो नाभिस्थाः सर्वा व्याप्य स्थितास्तनुम्पुष्णन्ति चानिशं वायोः संयोगात्सर्वधातुभिः ॥५०॥प्राणवायोः शरीरव्यापारनिर्देशःनाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरम्कण्ठाद्बहिर्विनिर्याति पातुं विष्णुपदामृतम्पीत्वा चाम्बरपीयूषं पुनरायाति वेगतःप्रीणयन्देहमखिलं जीवयञ्जठरानलम् ॥५१॥आयुषो मृत्योश्च स्वरूपम्शरीरप्राणयोरेवं संयोगादायुरुच्यतेकालेन तद्वियोगाच्च पञ्चत्वं कथ्यते बुधैः ॥५२॥तत्र वैद्यानां कृते कर्त्तव्यकर्मोपदेशःन जन्तुः कश्चिदमरः पृथिव्यां जायते क्वचित्अतो मृत्युरवार्यः स्यात्किन्तु रोगान्निवारयेत् ॥५३॥रोगनिवारणे साध्यादिभेदनिर्देशःयाप्यत्वं याति साध्यस्तु याप्यो गच्छत्यसाध्यताम्जीवितं हन्त्यसाध्यस्तु नरस्याप्रतिकारिणः ॥५४॥धर्मादिसाधनतनो रक्षानिर्देशःधर्मार्थकाममोक्षाणां शरीरं साधनं यतःअतो रुग्भ्यस्तनुं रक्षेन्नरः कर्मविपाकवित् ॥५५॥दोषाणां साम्यस्य वैषम्यस्य च फलम्धातवस्तन्मला दोषा नाशयन्त्यसमास्तनुम्समाः सुखाय विज्ञेया बलायोपचयाय च ॥५६॥सृष्टिक्रमःजगद्योनेरनिच्छस्य चिदानन्दैकरूपिणःपुंसोऽस्ति प्रकृतिर्नित्या प्रतिच्छायेव भास्वतः ॥५७॥प्रकृतिपुरुषयोगेन सृष्ट्युत्पत्तिनिर्देशःअचेतनाऽपि चैतन्ययोगेन परमात्मनःअकरोद्विश्वमखिलमनित्यं नाटकाकृति ॥५८॥बुद्धिसत्त्वाहङ्कारयोरुत्पत्तिनिर्देशःप्रकृतिर्विश्वजननी पूर्वं बुद्धिमजीजनत्इच्छामयीं महद्रू पामहङ्कारस्ततोऽभवत्त्रिविधः सोऽपि सञ्जातो रजः सत्त्वतमोगुणैः ॥५९॥त्रिगुणात्मकाहङ्कारस्य कार्याणितस्मात्सत्त्वरजोयुक्तादिन्द्रि याणि दशाभवन्मनश्च जातं तान्याहुः श्रोत्रत्वङ्नयनं तथा ॥६०॥जिह्वाघ्राणवचोहस्तपादोपस्थगुदानि चपञ्च बुद्धीन्द्रि याण्याहुः प्राक्तनानीतराणि चकर्मेन्द्रि याणि पञ्च्व कथ्यन्ते सूक्ष्मबुद्धिभिः ॥६१॥तन्मात्रपञ्चकोत्पत्तिनिर्देशःतमः सत्त्वगुणोत्कृष्टादहङ्कारादथाभवत्तन्मात्रपञ्चकं तस्य नामान्युक्तानि सूरिभिःशब्दतन्मात्रकं स्पर्शतन्मात्रं रूपमात्रकम्रसतन्मात्रकं गन्धतन्मात्रं चेति तद्विदुः ॥६२॥भूतपञ्चकस्योत्पत्तिनामनिर्देशःतन्मात्रपञ्चकात्तस्मात्संजातं भूतपञ्चकम्व्योमानिलानलजलक्षोणीरूपं च तन्मतम् ॥६३॥तन्मात्राणां विशेषाःशब्दः स्पर्शश्च रूपं च रसगन्धावनुक्रमात्तन्मात्राणां विशेषाः स्युः स्थूलभावमुपागताः ॥६४॥इन्द्रि याणां विषयाःबुद्धीन्द्रि याणां पञ्चैव शब्दाद्या विषया मताः ॥६५॥कर्मेन्द्रि याणां विषया भाषादानविहारिताःआनन्दोत्सर्गकौ चैव कथितास्तत्त्वदर्शिभिः ॥६६॥चतुर्विंशतितत्त्ववर्णनम्तत्र प्रथमतत्त्वस्य प्रकृतेर्नामनिर्देशःप्रधानं प्रकृतिः शक्तिर्नित्या चाविकृतिस्तथाएतानि तस्या नामानि शिवमाश्रित्य या स्थिता ॥६७॥प्रकृतिविकृतिसंज्ञकस्य तत्त्वसप्तकस्य निर्देशःमहानहङ्कृतिः पञ्चतन्मात्राणि पृथक्पृथक्प्रकृतिर्विकृतिश्चैव सप्तैतानि बुधा जगुः ॥६८॥दशेन्द्रि याणि चित्तं च महाभूतानि पञ्च चविकाराः षोडश ज्ञेयाः सर्वं व्याप्य जगत्स्थिताः ॥६९॥जीवस्वरूपनिर्देशःएवं चतुर्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहेजीवात्मा नियतो नित्यो वसति स्वान्तदूतवान् ॥७०॥स देही कथ्यते पापपुण्यदुःखसुखादिभिःव्याप्तो बद्धश्च मनसा कृत्रिमैः कर्मबन्धनैः ॥७१॥देहिनो बन्धनानिकामक्रोधौ लोभमोहावहङ्कारश्च पञ्चमःदशेन्द्रि याणि बुद्धिश्च तस्य बन्धाय देहिनः ॥७२॥जीवस्य बन्धमोक्षयोर्दुःखसुखयोर्निर्देशःआप्नोति बन्धमज्ञानादात्मज्ञानाच्च मुच्यतेतद्दुःखयोगकृद्व्याधिरारोग्यं तत्सुखावहम् ॥७३॥इति श्रीशार्ङ्गधरसंहितायां पूर्वखण्डे कलादिकाख्यानं नाम पञ्चमोऽध्यायः N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP