पञ्चमस्थानम् - पञ्चमोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
हारीत उवाच
भगवन् गुग्गुलो नाम योगवीर्यमथोगुणम्
वक्तुमर्हसि रोगेषु येषु वापि प्रशस्यते ॥१॥
एवमुक्तस्तु शिष्येण प्रत्युवाच महातपाः ॥२॥
आत्रेय उवाच
मरुभूमौ प्रजायन्ते प्रायशः पुरपादपाः
भानोर्मयूखैः सततं ग्रीष्मे मुञ्चन्ति गुग्गुलम् ॥३॥
हिमाद्रितो वा हेमन्ते विधिवत्तं समाहरेत्
जातरूपनिभं शुभ्रं पद्मरागनिभं क्वचित् ॥४॥
क्वचिन्महिषनेत्राभं यक्षदैवतवल्लभम्
विधानं तस्य विधिवन्निबोध गदतो मम ॥५॥
त्रिदोषशमनो वृष्यः स्निग्धो बृंहणदीपनः
गुग्गुलः कटुकः पाके वर्णप्रबलवर्द्धनः ॥६॥
आयुष्यः श्रीकरः पुत्रस्मृतिमेधाविवर्द्धनः
पापप्रशमनः श्रेष्ठः शुक्रार्त्तवकरः स्मृतः ॥७॥
वर्णगन्धरसोपेतो गुग्गुलो मात्रया युतः
भेषजैः सह निष्क्वाथ्यो यथा व्याधिहरैः पृथक् ॥८॥
मात्रावशिष्टं तं दृष्ट्वा चालयेच्छुक्लवाससा
मृन्मये हेमपात्रे च राजते स्फाटिकेऽपिवा ॥९॥
पुण्ये तिथौ शुभे च जीर्णाहारः क्षमान्वितः
हुत्वाग्निं पर्युपासीत देवब्राह्मणभक्तितः ॥१०॥
प्रविश्य कुसुमाकीर्णे मन्दिरे च समाश्रिते
रास्ना गुडूची चैरण्डो दशमूलं प्रसारिणी ॥११॥
क्वाथं तेषां यथायोग्यं यवान्या वातिके पिबेत्
पृथक्छ्रतैर्जीवनीयैः पिबेत्पित्तामयार्दितः ॥१२॥
वासाचन्दनह्रीबेरं मृद्वीका तिक्तरोहिणी
सर्जूरञ्च परूषञ्च तथा जीवककर्षकौ
सपित्तरोगे पानाय क्वाथः स्याद्गुग्गुलान्वितः ॥१३॥
त्रिफलाव्योषगोमूत्र निम्बधान्यकपुष्करैः
अमृता दीप्यकः क्वाथः पटोली च कफार्दितः ॥१४॥
नाडीदुष्टव्रणग्रन्थिगण्डमालार्बुदान्वितः
त्रिफलाक्वाथसंयुक्तं पिबेन्मेही व्रणी तथा ॥१५॥
किरातकामृतानिम्बवृषाव्याघ्रीदुरालभाः
एषां क्वातेन संयुक्तं गुग्गुलं पाययेद्भिषक् ॥१६॥
गुल्मे कासे क्षते श्वासे विद्रधावरुचौ व्रणे
दार्वी पटोलक्वाथेन संयुक्तं गुग्गुलं पिबेत् ॥१७॥
कण्डूपिटकशोफाद्ये पिबेद्वातकफापहम्
पथ्या पुनर्नवा दार्वी गोमूत्रममृतं तथा ॥१८॥
एषां क्वाथो हितः पाण्डौ शोथो दरकिलासिनाम्
भवेन्मात्रां पलं यावत्कर्षादारभ्य यत्नतः ॥१९॥
जीर्णेऽश्नीयान्मुद्गयूषैर्रसैर्वा जाङ्गलैस्तथा
पयसा षष्टिकान्नञ्च शालीनामोदनं मृदु ॥२०॥
दिनाः सप्त प्रथमा च मध्यमा द्विगुणाः स्मृताः
त्रिगुणाः परमा मात्रा विज्ञेया योगचिन्तकैः ॥२१॥
सेवते गुग्गुलं यो वै वर्षेणापि नरः क्रमात्
स्थावराज्जङ्गमाच्चैव न स्यादस्य क्षतिर्विषात् ॥२२॥
निर्मुक्तो वलितत्वचोपि पलितो वृद्धो युवा जायते मेधादृष्टिबलौजवीर्यमधिकं वृद्धत्वहीनो भवेत्
गुल्माष्ठीलहृदामवातशमनः कुष्ठं प्रमेहाश्मरीं
शूलानाहविसर्परक्तशमनो भूतोपसृष्टे हितः ॥२३॥
इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने गुग्गुलकल्पो नाम पञ्चमोऽध्यायः ॥५॥
इति पञ्चमं कल्पस्थानं समाप्तम् ॥
N/A
References : N/A
Last Updated : February 24, 2021
TOP