संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|पञ्चमस्थानम्| चतुर्थोऽध्यायः पञ्चमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः पञ्चमस्थानम् - चतुर्थोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता चतुर्थोऽध्यायः Translation - भाषांतर अमृतमथने जातः सुरासुरग्रहो महान्जहार वैनतेयश्च चञ्चुना त्रिदिवं गतः ॥१॥संग्रामश्रमसम्प्राप्ते श्रमवेगप्रधावितेआरूढे वैक्लवं प्राप्ते च्युता ह्यमृतबिन्दवः ॥२॥सकृत्सन्दूषिते देहे पतितास्तत्र संस्थिताःतस्मात्कालवशाज्जातं दुर्भिक्षं द्वादशाब्दिकम् ॥३॥विशुष्काः कानने सर्वा वृक्षकण्टप्रतानिकाःतस्माच्च ऋषयः सर्वे प्रकृष्टं गहनं गताः ॥४॥तेषां मध्ये जराग्रस्तो गतिहीनोऽतिजर्जरःसयष्टिः सरणिक्षुण्णः शीर्णदन्तावलीमुखः ॥५॥वव्यक्तस्थैः क्षुधापन्नैऋर्षिभिस्तत्रविश्रुतःसोऽपि क्षुधातुरः सर्वां पर्यटत्युर्वरां महीम् ॥६॥कुत्रचित् पुण्ययोगेन दृष्टवान्विटपान् शुभान्नीलशैवालसङ्काशान् शाद्वलान्बहुलान् भुवि ॥७॥क्षुधासम्पीडनेनापि भुक्तवान् सदलानपि ॥८॥षण्मासानन्तरं शुष्कान् विटपांस्तदनन्तरम्भुक्तवान्कन्दकान् सोऽपि मासमेकं तथा ऋषिः ॥९॥पश्चात् सुभिक्षे सञ्जाते सर्वे चैकत्र संस्थिताःसोऽपि वृद्धो युवा भूत्वा गतस्तत्र च यत्र ते ॥१०॥तं दृष्ट्वा विस्मयापन्नाः पप्रच्छुः किं कृतं त्वयानोक्तवान् सतुकिञ्चिच्च रुषा तैः शापितस्ततः ॥११॥यत्त्वया खादितं द्रव्यं तदभक्ष्यं द्विजातिभिःदुर्गन्धमपि चित्रञ्च तस्माज्जातं रसोनकम् ॥१२॥अथवीर्यञ्च वक्ष्यामि रसोनस्य महामतेरसैः पञ्चभिः संयुक्तो रसोनस्तेन वर्जितः ॥१३॥कट्वम्लवीर्यो लशुनो हितश्च स्निग्धो गुरुः स्वादुरसोऽथ बल्यः ।वृद्धस्य मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरः सुतीक्ष्णः ॥१४॥हृद्रोगजीर्णज्वरकुक्षिशूलप्रमेहहिक्कारुचिगुल्मशोफान्दुर्नामकुष्ठानलश्यावजं तु समीरणं श्वासकफान् निहन्ति ॥१५॥तेन रसोनकं नाम विख्यातं भुवनत्रयेकुक्कुटाण्डनिभं ग्रीष्मे शीर्णपर्णं समुद्धरेत् ॥१६॥बद्ध्वा पुटे सुनिर्गुप्तं धारयेत्तं महामतेवर्षासु शिशिरे चैव कारयेन्मात्रया युतम् ॥१७॥रामठं जीरके द्वे च अजमोदा कटुत्रयम्घृतसौवर्चलोपेतं वातरोगे विशेषतः ॥१८॥मातुलुङ्गरसेनापि शूलानाहे प्रकीर्त्तितःदध्ना वातादिशमनो रसोनो विहितो बुधैः ॥१९॥जाङ्गलादि रसान्येव भोजनार्थे प्रदापयेत् ॥२०॥निष्पीड्य च रसं तस्य गृहीत्वा मुनिसत्तमदुग्धेन शर्करोपेतं पित्तरोगे पिबेन्नरः ॥२१॥राजयक्ष्मक्षये पाण्डौ कामलायां हलीमकेशिरोरुजासु सर्वासु रक्तपित्तभ्रमेषु च ॥२२॥शोष मूर्च्छापस्मारे च हितं चैतद्रसायनम् ॥२३॥परिपिष्य रसोनञ्च तत्समा त्रिवृता मतागुडेनैरण्डतैलेन शीतं दत्त्वा च लेहकम् ॥२४॥भवत्येतत्समादृत्य पाययेन्मूत्ररोगिणाम्शोफे गुल्मे वामवाते हितमेतत्तदार्शसाम् ॥२५॥हरिणशशकलावातित्तिराणाञ्च मांसं कर्करमपि मयूरादिसाराद्यजाद्यम् ।घृतमधुररसानां शालिगोधूममासां हितमिति मनुजानां गुग्गुले वा रसोने ॥२६॥व्यायामयानातपमैथुनानि क्रोधाध्वजीर्णान्परिवर्जयेच्चविवर्जयेद्वापि तथातिसारे मेहामये पाण्डुगुदानये च ॥२७॥न गर्भिणीनां न च बालकानां भ्रमातुरे वा न मदातुरे चन रक्तपित्ते न च कुष्ठिनेऽपि न रक्तवाते न विसर्पिके च ॥२८॥दत्तो रसोनो यदि मूढबुद्ध्या विरेचनं वा वमनं विधेयम्न वान्यथा कुष्ठमथापि पाण्डुं त्वद्गोषरोषं कुरुते नरस्यसुयोगयुक्याऽमृतवन्नराणां वीर्येन्द्रियं पुष्टिबलं तनोति ॥२९॥इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने रसोनकल्पो नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP