संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|द्वितीयस्थानम्| षष्ठोऽध्यायः द्वितीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः द्वितीयस्थानम् - षष्ठोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता षष्ठोऽध्यायः Translation - भाषांतर आत्रेय उवाचअथ नक्षत्रयोगेन व्याधिर्यस्य प्रजायतेसाध्यासाध्यञ्च याप्यं च वक्ष्यामि शृणु पुत्रक ॥१॥आदित्ययोगेन मघा विशाखा चन्द्रेण युक्ता कुज आर्द्रया तुमूलं प्रबुद्धे गुरुकृत्तिका च शुक्रेण रोहिण्यसितेन हस्तः ॥२॥एतान्वदन्ति निपुणा यमघण्टयोगान्व्याधिप्रपन्नमनुजो यदि पुण्ययोगात्जीवेद्यदा कथमसौ घनदत्तयन्त्रघोरान्तरेण तपने न कथं सुखं स्यात् ॥३॥आदित्येनानुराधा वसति हिमरुचिश्चोत्तरासम्प्रयुक्तोभौमः पित्रीशयुक्तो बुध इति तुरगीयुक्त एतत्सुखं न ।॥तस्माज्जीवेन युक्तो मृगशिरस हितोऽश्लेषया भार्गसूनुः युक्तोर्किर्हस्तसंज्ञैर्न तु वदति शुभं शास्त्रविद्योगयुक्तः ॥४॥दिनकरकरयुक्तः सोमसौम्येन वापि तुरगसहित भौमः सोमपुत्रोऽनुराधासुरगुरुरपि पुष्ये रेवती शुक्रवारे दिनकरसुतयुक्ता रोहिणी सौख्यहेतुः ॥५॥शूले वज्रेऽतिगण्डे वा व्याघाते व्यतिपातकेविष्कम्भयोगयुक्ते च नक्षत्रे क्रूरदैवते ॥६॥एतैरसाध्या ज्वरिणस्तस्माद्योगान् परीक्षयेत्योगे ऋक्षे तथा वारे क्रूरे प्राप्ते न जीवति ॥७॥सिद्धिः शुक्लः शुभः प्रीतिरायुष्मान्सौभगश्चवैधृतिर्वृद्धिर्ध्रुवो हर्षः सुखसाध्या इमे स्मृताः ॥८॥मघा विशाखा भरणी तथार्द्रा मूलं तथा कृत्तिकहस्ततिष्याःएते न शस्ता मुनयो वदन्ति वारक्रमेणैव विचिन्तनीयाः ॥९॥मघाभरणिहस्तेषु मूले वा ज्वरितोऽपि वामृत्युमापद्यते सोऽपि नात्र कार्या विचारणा ॥१०॥अश्विनीरोहिणीपुष्यमृगज्येष्ठाः पुनर्वसूएते साध्याश्च विज्ञेया ज्वरिणाञ्च विशेषतः ॥११॥पूर्वात्रयं स्वातिरथापि चित्रा तथा त्रयार्द्राश्रवणाधनिष्ठाःमूलं विशाखा सह कृत्तिकाभिः सार्प्योऽनुराधा सह ज्येष्ठया च ॥१२॥एते सकाष्ठा रुजपीडितानां तिष्या सुयाप्या कुरुते नरस्यतस्मात्तु विज्ञाय बुधाश्च सम्यग्रुजां विनाशं प्रतिकर्मणा च ॥१३॥अश्विन्याञ्चैकरात्रन्तु भरण्यां मृत्युमीक्षतेनवरात्रं कृत्तिकायां रोहिण्यान्तु दिनत्रयम् ॥१४॥मृगेण बहुपीडा स्यादार्द्रायां मृत्युरेव चपुनर्वसौ च पुष्ये च सप्तरात्रन्तु पीड्यते ॥१५॥नवरात्रं तथाश्लेषा मघा चैति यमालयम्पूर्वा मासत्रयं ज्ञेयमुत्तरा पञ्चकत्रयम् ॥१६॥पूर्वात्रये त्रयोंऽशाश्च शुभा ज्ञेया मनीषिभिःएतेषां तुर्यगे चान्ते यदि रोगस्तदा मृतिः ॥१७॥हस्तेन प्राप्यते सौख्यं चित्रा पञ्चदशाहकम्स्वातिः षोडशरात्रन्तु विशाखा विंशरात्रकम् ॥१८॥अनुराधा पक्षमेकं ज्येष्ठा दशदिनानि तुमूलेन मृत्युमाप्नोति आषाढासु त्रिपञ्चकम् ॥१९॥उत्तरा विंशरात्रे श्रवणे मासकद्वयम्मासद्वयं धनिष्ठा स्याच्छतर्क्षे दिनविंशतिः ॥२०॥नवरात्रं भवेत्पूर्वा उत्तरा पञ्चकत्रयम्दशाहं रेवती पीडा मुच्यते व्याधिभिस्ततः ॥२१॥कृत्तिकासु ज्वरस्तीव्रो व्याधिर्भवति पैत्तिकःदिनानि दश प्रथमे चरणे च विनिर्दिशेत् ॥२२॥दशैव द्वितीये भागे तृतीये दिनपञ्चकम्रोहिण्यां नवरात्रन्तु प्रथमेंऽशे प्रकीर्त्तितम् ॥२३॥द्वितीये द्विगुणं प्रोक्तं तृतीये दशरात्रकम्नक्षत्रे चन्द्रदैवत्ये पीडा वै जायते ध्रुवम् ॥२४॥प्रथमांशे पञ्च रात्रं मध्ये द्वादशवासरान्तृतीयांशे तथा ज्ञेयं मृत्युर्मासादनन्तरम् ॥२५॥नक्षत्रे रुद्रदैवत्ये पक्षं स्यात्प्रथमेंऽशकेद्वादशाहं द्वितीये च तृतीयांशे न जीवति ॥२६॥पुनर्वसौ ज्वरं विद्यात्प्रथमांशे त्रिपक्षकम्मध्यमे दिवसान्सप्त तृतीये पञ्चविंशतिम् ॥२७॥पुष्ये स्यात्प्रथमे सप्त द्विके विंशतिवासरान्तृतीयांशे तथा विन्द्याद्दिवसानेकविंशतिम् ॥२८॥आश्लेषायां च नक्षत्रे यस्य सम्भवति ज्वरःमासत्रयेण प्रागंशे कष्टाज्जीवति मानवः ॥२९॥द्वितीये च तृतीये च मृत्युरेव न संशयःनक्षत्रे पितृदैवत्ये रोगो यस्य प्रवर्तते ॥३०॥प्रथमेंऽशे सप्तरात्रं द्वितीये धिष्ण्यतुल्यताम्विंशत्तृतीये दिवसान्पीड्यते कर्मणो बलात् ॥३१॥नक्षत्रे भगदैवत्ये यस्य सञ्जायते ज्वरः ॥३२॥प्रथमेंशे पञ्चरात्रं मध्ये द्वादशवासरान्तृतीयांशे तथा ज्ञेयं मृत्युर्मासादनन्तरम् ॥३३॥उत्तराया आद्यभागे वासराणि चतुर्दशद्वितीये सप्तरात्रन्तु तृतीये दिवसा नव ॥३४॥यदि हस्ते भवेद्रोगः प्रथमे सप्तरात्रकम्चत्वार्यहानि द्वितीये तृतीये दिनपञ्चकम् ॥३५॥मृत्युं विद्यात्तथा पूर्वे त्वाष्ट्रो यस्य भवेज्ज्वरःत्रिभिर्मासैर्द्वितीयांशे रोगो भवति दारुणः ॥३६॥तृतीयांशे तथा ज्ञेयं वातरागि त्रयोदशवायव्ये प्राक् सप्तदश द्वितीये चैकविंशतिः ॥३७॥अस्यैव तु तृतीयांशे मृत्युमेव विनिर्दिशेत् ॥३८॥प्रथमांशे विशाखायां त्रिगुणाः षोडश स्मृताःद्वितीये द्वादश प्रोक्तास्तृतीयेऽपि तथैव च ॥३९॥मैत्रांशे प्रथमे सप्त द्वितीये पक्षमादिशेत्तृतीयांशे चतुःषष्टिर्वासराणां महामुने ॥४०॥त्रिपक्षमैन्द्रे प्रथमे द्वित्रिभागे च षोडश ॥४१॥मूलेंऽशे तृतीये ज्ञेयः पक्ष एव मनीषिभिःआद्ये पूर्वत्रयो मासा मध्यमेऽहानि षोडश ॥४२॥पूर्वांऽशे द्वितये ज्ञेयः पक्ष एव मनीषिभिःतृतीयांशे पुनर्मृत्युरतीरात्रात्प्रजायते ॥४३॥विश्वंशे प्रथमे पक्षे मध्ये द्वादशरात्रिकम्दिनानां विंशतिः प्रोक्ता तृतीयांशे महामुने ॥४४॥सप्ताहमादौ श्रवणे विंशतिर्मध्यमे मताषोडशाहं तृतीयांशे सत्यमेतद्ब्रवाम्यहम् ॥४५॥विंशतिर्वासवे पूर्वं मध्यमे मासयुग्मकम्मासस्तृतीये विज्ञेयो दैवज्ञैश्च निवेदितम् ॥४६॥वारुणे दारुणी रोगस्त्रिपक्षं प्रथमांशकेद्वितीये मासषट्कं तु षोडशाहं तृतीयके ॥४७॥अहिर्बुध्न्ये पक्षमादौ मध्ये मासं विनिर्दिशेत्अन्तेऽष्टाविंशतिर्ज्ञेया पीडास्यात्पापकर्मणि ॥४८॥रेवत्याः प्रथमे चाष्टौ द्विभागे तु च षोडशअन्ते त्रिंशद्दिनान्येवं प्रोक्तानि पूर्वसूरिभिः ॥४९॥अश्विन्याः प्रथमे भागे दिनमेकं प्रकीर्त्तितम्द्वितीये पञ्चरात्रन्तु तृतीये सप्तकं तथा ॥५०॥भरण्याः प्रथमे चांशे सप्तवासरमेव चमध्ये मृत्युस्तथा चान्ते रोगो मासत्रयावधिः ॥५१॥एवं ज्ञात्वा सुधीः सम्यक्कुर्यात्प्रशमनक्रियाम्नक्षत्रस्य त्रयो भागा आत्रेयेण प्रकाशिताः ॥५२॥इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने नक्षत्रज्ञानं नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : February 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP