द्वितीयस्थानम् - प्रथमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अथातः सम्प्रवक्ष्यामि द्वितीयस्थानमुत्तमम्
शुभाशुभानि स्वप्नानि स्वास्थ्यारिष्टानि मानुषे ॥१॥
शृणु पुत्र समासेन यथा वत्स प्रकाश्यते ॥२॥
हारीत उवाच
ज्ञातं मया महाप्राज्ञ अन्नपानं तथोत्तमम्
इदानीं ज्ञातुमिच्छामि रोगाणां रोगविज्ञताम् ॥३॥
कर्मजा व्याधयो ये च तान्वद त्वं महामते ॥४॥
आत्रेय उवाच
कर्मजा व्याधयः सर्वे भवन्ति हि शरीरिणाम्
सर्वे नरकरूपाः स्युः साध्यासाध्या भवन्त्यमी ॥५॥
अज्ञातं यत्कृतं पापं पश्चात्कृच्छ्रं समाचरेत्
प्रायश्चित्तबलेनापि साध्यरूपी भवेद्गदः ॥६॥
क्रियते ज्ञातरूपेण यत्पश्चात्कृच्छ्रमाचरेत्
प्रायश्चित्तेन प्रान्ते तु कष्टसाध्यो भवेद्गदः ॥७॥
ब्रह्मघ्नगोघ्न धरणीपतिघातकश्च आरामतोयधरनाशकपारदाराः
स्वाम्यङ्गनागुरुवधूकुलजाभिगामी एते त्रयोदशविधाः प्रबाला गदाश्च ॥८॥
पाण्डुः कुष्ठं राजयक्ष्मातिसारो मेहो मूत्रं चाश्मरी मूत्रकृच्छ्रम्
शूलः श्वासः कासशोफव्रणाश्च दोषाश्चैते पापरूपा नृणां स्युः ॥९॥
ज्वरोऽजीर्णं तथा छर्दिभ्रममोहाग्निमान्द्यताः
यकृत्प्लीहार्शःशोषाश्च एते चैवोपदूषकाः ॥१०॥
व्रण शूलं शिरःशूलं रक्तपित्तं तथोर्द्ध्वगम्
एते रोगा महाप्राज्ञ अभिशापाद्भवन्ति हि ॥११॥
अन्येऽपि बहुधा रोगा जायन्ते दोषसम्भवाः
अतो वक्ष्ये समासेन शृणु त्वञ्च महामते ॥१२॥
ब्रह्मज्ञो जायते पाण्डुः कुष्ठी गोवधकारकः
राजघ्नो राजयक्ष्मी स्यादतिसार्योपघातकः ॥१३॥
स्वाम्यङ्गनाभिगमने मेहा रोगा भवन्ति हि
गुरुजायाप्रसङ्गेन मूत्ररोगोऽश्मरीगदः ॥१४॥
स्वकुलजाप्रसङ्गाच्च जायते च भगन्दरः
शूली परोपतापी च पैशून्याच्छ्वासकासिनः ॥१५॥
मार्गे विघ्नकरा ये तु जायन्ते पादरोगिणः
अभिशापाद्व्रणोत्पत्तिर्यकृद्वापि प्रजायते ॥१६॥
सुरालये जले चापि शकृद्वृष्टिं करोति यः
गुदरोगा भवन्त्यस्य पापरूपातिदारुणाः ॥१७॥
परतापिद्विजानाञ्च जायन्ते हि महाज्वराः
परान्नविघ्नजननादजीर्णमपि जायते ॥१८॥
गरदश्छर्दिरोगी स्यात्पादाष्टविभ्रमी तथा
धूर्त्तोऽपस्माररोगी स्यात्कदन्नदेऽग्निमान्द्यकं ॥१९॥
यकृत्प्लीहो भवेद्रोगो भ्रूणपातकपातकात्
व्रणं शूलं शिरःशूलं परतापोपकारणात् ॥२०॥
अपेयपानरतको रक्तपित्ती प्रजायते
दावाग्निदायको यस्तु जायते च विसर्पवान् ॥२१॥
बहुवृक्षोपच्छेदो च जायते च बहुव्रणः
परद्रव्यापहाराच्च जायते ग्रहणीगदः ॥२२॥
कुनखी स्वर्णस्तेयाच्च प्रसूतिस्तस्य जायते
रौप्यस्तेयाच्चित्रकुष्ठं ताम्रचौराद्विपादिका ॥२३॥
त्रपुश्चौरः सिध्मलश्च मुखरोगी च सीसहृत्
वर्वरो लोहचौरः स्यात्क्षारचौरोऽतिमूत्रलः ॥२४॥
घृतचौरोऽन्त्ररोगी च तैलचौरोःतिकण्डुकः
एतैश्छिद्रैस्तु काणाक्षो वक्रोक्तो वक्रलोचनः ॥२५॥
दोषवान्स्याच्छ्यावदन्तो दुष्टवाक्कुष्ठदूषणः
रसनाशाज्जिह्वारोगी गोत्रहा लूतिकाव्रणी ॥२६॥
एते चैव महादोषा अतो वक्ष्यामि निष्कृतिम्
कृच्छ्रेण येन सिध्यन्ति पापरूपा इमे गदाः ॥२७॥
गोदानं भूमिदानञ्च स्वर्णदानं सुरार्चनम्
कृत्वा पश्चात्प्रतीकारं कुर्यात्पाण्डूपशान्तये ॥२८॥
महापापेषु सर्वस्वं तदर्द्धमुपदोषजे
आत्रेयाद्दशषष्ठांशात्कल्प्यं व्याधिबलाबलम् ॥२९
नवषष्टिकृतं कर्मकुष्ठरोगोपशान्तये
गोहिरण्यप्रदानञ्च तथा मिष्टान्नभोजनम् ॥३०॥
चतुर्विधं दानमिदं दत्त्वा कुर्यात्प्रतिक्रियाम्
कदाचिदपि सिध्येत आयुषश्च बलक्रियाम् ॥३१॥
मेहे सुवर्णदानञ्च शूले श्वासे भगन्दरे
आश्वानडुहदानेन श्वासकासाद्विमुच्यते ॥३२॥
ज्वरे चेश्वरपूजा च रुद्रजाप्यं समाचरेत्
अतिपानान्नदानञ्च शस्त्रदानं भ्रमातुरे ॥३३॥
अग्निहोमं चाग्निमान्द्ये कन्यादानञ्च गुल्मके
मेहाश्मरीविनाशाय लवणञ्च प्रदीयते ॥३४॥
बहुभोजनदानेन शूलरोगाद्विमुच्यते
महाज्वरे शान्तिकञ्च सहस्रं गण्डुकं शिवम् ॥३५॥
स्नापयेत्तेन सिद्धिः स्याज्ज्वररोगाद्विमुच्यते
घृतमधुप्रदानेन रक्तपित्तं प्रशाम्यति ॥३६॥
वनस्पतिसिञ्चनेन विसर्पात्परिमुच्यते
विटपिसिञ्चनेनाऽथ नात्र याति बहुव्रणः ॥३७॥
चतुर्विधेन दानेन साध्यः स्याद्ग्रहणीगदः
सुवर्णदानात्कुनखी श्यावदन्तः सुखी भवेत् ॥३८॥
रौप्यदानाच्चित्रकुष्ठं साध्यं वापि प्रदिश्यते
सिध्मले त्रपुदानञ्च बर्बरे लोहदानकम् ॥३९॥
मुखव्रणे नागदानं गोदानं बहुपुन्नके
नेत्ररोगे घृतं दद्यात्सुगन्धं नासिकागदे ॥४०॥
तैलदानञ्च कण्डूके रसदानञ्च जिह्वके
श्यावन्दतेन देवानां सत्कृतिः प्रविधीयते ।
ओष्ठरोगेऽपि तद्वच्च लूतारोगे ददेत गाः ॥४१॥
अन्यांश्च कथयिष्यामि मनुष्याणां शरीरगान्
लज्जितः परनिन्दायां परमर्केन काणगः ॥४२॥
खुरहा स्याद्वक्रनासः पक्षाघातेन पक्षहा
वामनः स्वप्रशंसायां परद्वेष्टातिपिङ्गलः ॥४३॥
परस्य कृत्यकर्त्ता च जायते विकृतात्मकः
एते महागदाश्चान्ये जायन्ते पापसम्भवाः ॥४४॥
यदिवात्र न सिध्येत्तु परभावो भवेन्न च
अतो हि प्रायश्चित्तं तु कारयेद्भिषजां वरः ॥४५॥
भूयो जन्मान्तरे यावत्पापं रोग्यथ भुञ्जति
प्रायश्चित्ते कृते वापि न पुनर्जायते भवे ॥४६॥

इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने पापदोष प्रतीकारो नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP