श्रीभगवानुवाच । अनाश्रित: कर्मफलं कार्यं कर्म करोति य: । स संन्यासी च योगी च न निरग्निर्न चाक्रिय: ॥१॥
यं संन्यासमिति प्राहुर्योगं तं विद्धि पांडव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥२॥
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारुढस्य तस्यैव शम: कारणमुच्यते ॥३॥
यदा हि नेंद्रियार्थेषु न कर्म्स्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारुढस्तदोच्यते ॥४॥
उद्धरेदत्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनौ बंधुरात्मैव रिपुरात्मन: ॥५॥
बंधुरात्मात्मनस्तस्य येनात्मैवात्मना जित: । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥
जितात्मन: प्रशांतस्य परमात्मा समाहित: । शीतोष्णसुखदु: खेषु तथा मानापमानयो: ॥७॥
ज्ञानविज्ञानतृप्तात्मा कॄटस्थो विजितेंद्रिय: । युक्त इत्युच्यते योगी समलोष्टाश्मकांचन ॥८॥
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबंधुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥
योगी युंजीत सततमात्मानं रहसि स्थित: । एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥११॥
तत्रैकाग्रं मन: कृत्वा यतचित्तेंद्रियक्रिय: । उपविश्यासने युंज्याद्योगमात्मविशुद्धये ॥१२॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥१३॥
प्रशांतात्मा विगतभीर्बह्मचारिव्रते स्थित: । मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: ॥१४॥
युज्जनेवं सदात्मानं योगी नियतमानस: । शांतिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥१५॥
नात्यश्नतस्तु योगोऽस्ति न चैकांतमनश्नत: । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥१६॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दु:खहा ॥१७॥
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । नि:स्पृह: सवर कामेभ्यो युक्त इत्युच्यते तदा ॥१८॥
यथा दीपो निवातस्थो नेंगते सोपमा स्मृता । योगिनो यतचित्तस्य युंजतो योगमात्मन: ॥१९॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥२०॥
सुखमात्यंतिकं यत्तद्बुद्धिग्राह्यमतींद्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: । यस्मिंस्थितो न दु:खेन गुरुणापि विचाल्यते ॥२२॥
तं विद्याद्दु:ख संयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा ॥२३॥
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: । मनसैवेंद्रियग्रामं विनियम्य समंतत: ॥२४॥
शनै: शनैरुपरमे द्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मन: कृत्वा न किंचिदपि चिंतयेत्‍ ॥२५॥
यतो यतो निश्चरति मनश्चंचलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥२६॥
प्रशांतमनसं ह्येनं योगिनं सुखमुत्ततम् । उपैति शांतरजसं ब्रह्मभूतमकल्मषम् ॥२७॥
युंजन्नेवं सदात्मानं योगी विगतकल्मष: । सुखेन ब्रह्मसंस्पर्शमत्यंतं सुखमश्नुते ॥२८॥
सर्वभूतस्तमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: ॥२९॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणवश्यामि स च मे न प्रणश्यति ॥३०॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥३१॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दु:ख स योगी परमो मत: ॥३२॥
अर्जुन उवाच । योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन । एतस्याहं न पश्यामि चंचलत्वात्स्थितिं स्थिराम् ॥३३॥
चंचलं हि मन: कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं अन्ये वायोरिव सुदुष्करम् ॥३४॥
श्रीभगवानुवाच । असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौंतेय वैराग्येण च गृह्यते ॥३५॥
असंयतात्मना योगो दुष्प्राप इति मे मति: । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: ॥३६॥
अर्जुन उवाच  अयति: श्रद्धयोपेतो योगाच्चलितमानस: । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि ॥३८॥
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषत: । त्वदन्य: संशयस्यास्य छेत्ता न ह्युपपद्यते ॥३९॥
श्रीभगवानुवाच । पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । नहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥४०॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१॥
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीद्दशम् ॥४२॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूय: संसिद्धौ कुरुनंदन ॥४३॥
पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि स: । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥४४॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष: । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥
तपखिभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक: । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥
योगिनामपि सर्वेषां मद्गतेनांतरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत: ॥४७॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्र. आत्मसंयमयोगो नाम षष्ठोऽध्याय: ॥६॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP