संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पंचरत्नगीता| अध्यायः १ पंचरत्नगीता श्रीगीतामाहात्म्य अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ पंचरत्नगीता - अध्यायः १ श्रीमद्भगवद्गीतामाहात्म्यम् Tags : pancharatnagitasanskritपंचरत्नगीतासंस्कृत अध्यायः १ Translation - भाषांतर अथ श्रीमद्भगवद्गीताप्रारंभ: श्रीगणेशाय नम: ॥ ॥ श्रीगोपालकृष्णाय नम: ॥ ॐ अस्य श्रीमद्भगवद्गीतामालांत्रस्य भगवान्वेदव्यास ऋषि: ॥ अनुष्टुप् छंद: ॥ श्रीकृष्ण: परमात्मा देवता ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषस इति बीजम् ॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजेति शक्ति: ॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावक इत्यंगुष्ठाभ्यां नम: ॥ न चैनं क्लेदयंत्यापो न शोषयति मारुत इति तर्जनीभ्यां नम: ॥ अच्छेद्योऽप्यमदाह्योऽयमक्लेद्योऽशोष्य एव चेति मध्यमाभ्यां नम: ॥ नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नम: ॥ पश्य मे पार्थ रुपाणि शतशोऽथ सहस्त्रश इति कनिष्ठिकाभ्यां नम: ॥ नानाविधानि दिव्यानी नानावर्णाकृतीनि चेति करतलकरपृष्ठाभ्यां नम: ॥ इति करन्यास: ॥ अथ हृदयादिन्यास: ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावक इति हृदयाय नम: ॥ न चैनं क्लेदयंत्यापो न शोषयति मारुत इति शिरसे स्वाहा । अच्छेद्योयऽयमक्लेद्योऽशोष्य एव चेति शिखायै वषट् ॥ नित्य: सर्वगत: स्थाणुरचोऽयं सनातन इति कवचाय हुम् ॥ पश्य मे पार्थ रुपाणि शतशोऽथ सहस्त्रश इति नेत्रत्रयाय वौषट् ॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति अस्त्राय फट् ॥ श्रीकृष्नप्रीत्यर्थे पाठे विनियोग: ॥ अथ ध्यानम् ॥ ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ॥ अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीमंब त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥१॥नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविंदायतपत्रनेत्र । येन त्वया भारततैलपूर्ण: प्रज्वालितो ज्ञानमय: प्रदीप: ॥२॥प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नम: ॥३॥सर्वोपनिषदो गावो दोग्धा गोपालनंदन: । पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानंदं कृष्णं वंदे जगद्गुरुम् ॥५॥भीष्मद्रोणतटा जयद्रथजला गांधारनीलोपला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पांडवै रणनदी कैवर्तक: केशव: ॥६॥पाराशर्यवच:सरोजममलं गीतार्थगंधोत्कटं नानाख्यानककेसरं हरिकथासंबोधना बोधितम् । लोके सज्जनषट्पदैरहरह: पेपीयमानं मुदा भूयाद्भारत्पंकजं कलिमलप्रध्वंसि न: श्रेयसे ॥७॥मूकं करोति वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वंदे परमानंदमाधवम् ॥८॥यं ब्रह्मा वरुणेंद्ररुद्रमरुत: स्तुन्वंति दिव्यै: स्तैर्वदै: सांगपदक्रमोपनिषदैर्गायंति यं सामगा: । ध्यानावस्थिततद्गतेन मनसा पश्यंति यं योगिनो यस्यांतं न विदु: सुरासुरगणा देवाय तस्मै नम: ॥९॥इति ध्यानम् ॥धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पांडवाश्चैव किमकुर्वत संजय ॥१॥संजय उवाच । दृष्ट्वा तु पांडवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम् । व्य़ूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥अत्र शूरो महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथ: ॥४॥धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् । पुरुजित्कुंतिभोजश्च शैब्यश्च नरपुंगव: ॥५॥युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ॥६॥अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७॥भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजय: । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: । नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: ॥९॥अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तमं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमारक्षितम् ॥१०॥अयनेषु च सर्वेषु यथाभागमवस्थिता: । भीष्ममेवाभिरक्षंतु भवंत: सर्व एव हि ॥११॥तस्य संजनयन्हर्षं क्रुरुवृद्ध: पितामह: । सिंहनादं विनद्योच्चै: शंखं दध्मौ प्रतापवान् ॥१२॥तत: शंखाश्च भेर्यश्च पणवानकगोमुखा: । सहसैवाभ्यहन्यंत स शब्दस्तुमुलोऽभवत् ॥१३॥तत: श्वेतर्हयैर्युक्ते महति स्यंदने स्थितौ । माधव: पांडवश्चैव दिव्यौ शंखौ प्रदध्मतु: ॥१४॥पांचजन्यो हृषिकेशो देवदत्तं धनंजय: । पौंड्रं दध्मौ महाशंखं भीमकर्मा वृकोदर: ॥१५॥अनंतविजयं राजा कुंतिपुत्रो युधिष्ठिर: । नकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥काश्यश्च परमेष्वास: शिखंडी च महारथ: । धृष्टद्युम्नौ विराटश्च सात्यकिश्चापराजित: ॥१७॥द्रुपदौ द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शंखान्दध्मु: पृथक्पृथक् ॥१८॥स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनौनादयन् ॥१९॥अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वज: । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडव: ॥२०॥हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१॥यावदेतान्निरीक्ष्येऽहं योद्धुकामान्वस्थितान् । कैमर्या सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥२२॥योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: ॥२३॥संजय उवाच । एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥२५॥तत्रापश्यत्स्थितान्पार्थ: पितृनथ पितामहान् । आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥२६॥श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौंतेय: सर्वान्बंधूनवस्थितान् ॥२७॥कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच । दृष्टेमं स्वजनं कृष्ण युयुत्सं समुपस्थितम् ॥२८॥सीदंति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९॥गांडीवं स्त्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: ॥३०॥निमित्तानि च पश्यामि विपरीतानि केशव । न अच श्रेयोऽनुपश्यामि हत्वा स्वजन माहवे ॥३१॥न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥३२॥येषामर्थे कांक्षितं नो राज्यं भोगा: सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३॥आचार्या: पितर: पुत्रास्तथैव च पितामहा: मातुला: श्वशुरा: पौत्रा: श्याला: संबंधिनस्तथा ॥३४॥एतान्न हंतुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते ॥३५॥निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: ॥३६॥तस्मान्नार्हा वयं हंतुं धार्तराष्ट्रान्स्वबांधवान् । स्वजनं हि कथं हत्वा सुखिन: स्याम माधव ॥३७॥यद्यप्येते न पश्यंति लोभोपहतचेतस: । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥कुलक्षये प्रणश्यंति कुलधर्मा: सनातना: । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥अधर्माभिभवात्कृष्ण प्रदुष्यंति कुलस्त्रिय: । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकर: ॥४१॥संकरो नरकायैव कुलघ्नानां कुलस्य च । पतंति पितरो ह्येषां लुप्तपिंडोदकक्रिया: ॥४२॥दोषैरेतै: कुलघ्नानां वर्णसंकरकारकै: । उत्साद्यंते जातिधर्मा: कुलधर्माश्च शाश्वता: ॥४३॥उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम् ॥४४॥अहो बत्त महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यता: ॥४५॥यदि ममप्रतीकारमशस्त्रं शस्त्रपाणय: । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥संजय उवाच । एवमुक्त्वाऽर्जुन: संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानस: ॥४७॥इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुन-विषादयोगो नाम प्रथमोऽध्याय: ॥१॥ N/A References : N/A Last Updated : December 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP