कोटिरुद्रसंहिता - अध्यायः ६
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सूत उवाच ॥
गौश्चैकाप्यभवत्तत्र ह्यंगणे बंधिता शुभा ॥
तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः ॥१॥
स उवाच प्रियां स्वीयां दृष्ट्वा गामंगणे स्थिताम् ॥
अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः ॥२॥
गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ॥
दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा ॥३॥
वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा ॥
ब्राह्मणस्स गृहस्वामी मुनयो दुग्धलालसः ॥४॥
वत्सोपि कर्षमाणश्च पादे वै पादपीडनम् ॥
चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः ॥५॥
तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ॥
वत्सं च ताडयामास कूपैर्दृढतरं तदा ॥६॥
वत्सोपि पीडितस्तेन श्रांतश्चैवाभवत्तदा ॥
दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ॥७॥
गौर्दोग्धुं महत्प्रीत्या रोदनं चाकरोत्तदा ॥
दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ॥८॥
वत्स उवाच ॥
कथं च रुद्यते मातः किन्ते दुःखमुपस्थितम् ॥
तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत ॥९॥
श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि ॥
दुष्टेन ताडितत्वं च तेन दुःखं ममाप्यभूत् ॥१०॥
सूत उवाच ॥
स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ॥
प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः ॥११॥
किं कर्त्तव्यं क्व गंतव्यं कर्मबद्धा वयं यतः ॥
कृतं चैव यथापूर्वं भुज्यते च तथाधुना ॥१२॥
हसता क्रियते कर्म रुदता परिभुज्यते ॥
दुःखदाता न कोप्यस्ति सुखदाता न कश्चन ॥१३॥
सुखदुःखे परो दत्त इत्येषा कुमतिर्मता ॥
अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते ॥१४॥
स्वकर्मणा भवेद्दुखं सुखं तेनैव कर्मणा ॥
तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम ॥१५॥
त्वं चैवाहं च जननी इमे जीवादयश्च ये ॥
ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया ॥१६॥
सूत उवाच ॥
एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ॥
पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम् ॥१७॥
गौरुवाच ॥
वत्स सर्वं विजानामि कर्माधीनाः प्रजा इति ॥
तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः ॥१८॥
रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्नहि ॥
इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम् ॥१९॥
॥वत्स उवाच ॥
यद्येवं च विजानामि पुनश्च रुदनं कुतः ॥
कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना ॥२०॥
॥सूत उवाच ॥
एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ॥
निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत् ॥२१॥
गौरुवाच ॥
मम दुःखं तदा गच्छेद्यथा दुखं तथाविधम् ॥
भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम् ॥२२॥
प्रातश्चैव मया पुत्र शृंगाभ्यां हि हनिष्यते ॥
हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः ॥२३॥
वत्स उवाच ॥
प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ॥
अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे ॥२४॥
समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ॥
तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते ॥२५॥
कदापि कर्मणो नाशः कदा भोगः प्रजायते ॥
तस्माच्च पुनरेवं त्वं कर्म मा कर्तुमुद्यता ॥२६॥
अहं कुतस्ते पुत्रोद्य त्वं माता कुत एव च ॥
वृथाभिमानः पुत्रत्वे मातृत्वे च विचार्य्यताम् ॥२७॥
क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ॥
न कोऽपि कस्य चास्तीह सर्वेपि स्वकृतं भुजः ॥२८॥
एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ॥
सुभगाचरणं कार्यं परलोकसुखेप्सया ॥२९॥
गौरुवाच ॥
एवं जानाम्यहं पुत्र माया मां न जहात्यसौ ॥
त्वद्दुःखेन सुदुःखं मे तस्मै दास्ये तदेव हि ॥३०॥
पुनश्च ब्रह्महत्याया नाशो यत्र भवेदिह ॥
तत्स्थलं च मया दृष्टं हत्या मे हि गमिष्यति ॥३१॥
सूत उवाच ॥
इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः ॥
मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन ॥३२॥
तयोस्तदद्भुतं वृत्तं श्रुत्वा पान्थो द्विजस्तदा ॥
हृदा विचारयामास विस्मितो हि मुनीश्वराः ॥३३॥
इदमत्यद्भुतं वृत्तं दृष्ट्वा प्रातर्मया खलु ॥
गंतव्यं पुनरेवातो गंतव्यं तत्स्थलं पुनः ॥३४॥
॥सूत उवाच ॥
विचार्येति हृदा विप्रः स द्विजाः सेवकेन च ॥
सुष्वाप तत्र जननीभक्तः परमविस्मितः ॥३५॥
प्रातःकाले तदा जाते गृहस्वामी समुत्थितः ॥
बोधयामास तं पान्थं वचनं चेदमब्रवीत् ॥३६॥
द्विज उवाच ॥
स्वपिषि त्वं किमर्थं हि प्रातःकालो भवत्यलम् ॥
स्वयात्रां कुरु तं देशं गमनेच्छा च यत्र ह ॥३७॥
तेनोक्तं श्रूयताम्ब्रह्मञ्च्छरीरे सेवकस्य मे ॥
वर्तते हि व्यथा स्थित्वा मुहूर्तं गम्यते ततः ॥३८॥
सूत उवाच ॥
इत्येवं च मिषं कृत्वा सुष्वाप पुरुषस्तदा ॥
तद्वृत्तमखिलं ज्ञातुमद्भुतं विस्मयावहम् ॥३९॥
दोहनस्य तदा काले ब्राह्मणः स्वसुतं प्रति ॥
उवाच गंतुकामश्च कार्यार्थं कुत्रचिच्च सः ॥४०॥
पितोवाच ॥
मया तु गम्यते पुत्र कार्यार्थं कुत्रचित्पुनः ॥
धेनुर्दोह्या त्वया वत्स सावधानादियं निजा ॥४१॥
सूत उवाच ॥
इत्युक्त्वा ब्राह्मणवरस्स जगाम च कुत्रचित् ॥
पुत्रः समुत्थितस्तत्र वत्सं च मुक्तवांस्तदा ॥४२॥
माता च तस्य दोहार्थमाजगाम स्वयन्तदा ॥
द्विजपुत्रस्तदा वत्सं खिन्नं कीलेन ताडितम् ॥४३॥
बंधनार्थं हि गोः पार्श्वमनयद्दुग्धलालसः ॥
पुनर्गौश्च तदा क्रुद्धा शृंगेनाताडयच्च तम् ॥४४॥
पपात मूर्च्छां संप्राप्य सोपि मर्मणि ताडितः ॥
लोकाश्च मिलितास्तत्र गवा बालो विहिंसितः ॥४५॥
जलं जलं वदन्तस्ते पित्राद्या यत्र संस्थिताः ॥
यत्नश्च क्रियते यावत्तावद्बालो मृतस्तदा ॥४६॥
मृते च बालके तत्र हाहाकारो महानभूत् ॥
तन्माता दुःखिता ह्यासीद्रुरोद च पुनः पुनः ॥४७॥
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ॥
रुदित्वेति तदा गां च ताडयित्वा व्यमोचयत् ॥४८॥
श्वेतवर्णा तदा सा गौर्द्रुतं श्यामा व्यदृश्यत ॥
अहो च दृश्यतां लोकाश्चुक्रुशुश्च परस्परम् ॥४९॥
ब्राह्मणश्च तदा पान्र्थौ दृष्ट्वाश्चर्यं विनिर्गतः ॥
यत्र गौश्च गतस्तत्र तामनु ब्राह्मणो गतः ॥५०॥
ऊर्ध्वपुच्छं तदा कृत्वा शीघ्रं गौर्नर्मदां प्रति ॥
आगत्य नन्दिकस्यास्य समीपे नर्मदाजले ॥५१॥
संनिमज्य त्रिवारं तु श्वेतत्वं च गता हि सा ॥
यथागतं गता सा च ब्राह्मणो विस्मयं गतः ॥५२॥
अहो धन्यतमं तीर्थं ब्रह्महत्यानिवारणम् ॥
स्वयं ममज्ज तत्रासौ ब्राह्मणस्सेवकस्तथा ॥५३॥
निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदी च ताम् ॥
मार्गे च मिलिता काचित्सुन्दरी भूषणान्विता ॥५४॥
तयोक्तं तं च भोः पांथ कुतो यासि सुविस्मितः ॥
सत्यं ब्रूहि च्छलं त्यक्त्वा विप्रवर्य ममाग्रतः ॥५५॥
सूत उवाच ॥
एवं वचस्तदा श्रुत्वा द्विजेनोक्तं यथातथम् ॥
पुनश्चायं द्विजस्तत्र स्त्रियोक्तः स्थीयतां त्वया ॥५६॥
तयोक्तं च समाकर्ण्य स्थितस्य ब्राह्मणस्ततः ॥
प्रत्युवाच विनीतात्मा कथ्यते किं वदेति च ॥५७॥
सा चाह पुनरेवात्र त्वया दृष्टं स्थलं च यत् ॥
तत्राधुना क्षिपास्थीनि मातुः किं गम्यतेऽन्यतः ॥५८॥
तव माता पान्थवर्य्य साक्षाद्दिव्यमयं वरम् ॥
देहं धृत्वा द्रुतं साक्षाच्छंभोर्यास्यति सद्गतिम् ॥५९॥
वैशाखे चैव संप्राप्ते सप्तम्याश्च दिने शुभे ॥
सितेपक्षे सदा गंगा ह्यायाति द्विजसत्तम ॥६०॥
अद्यैव सप्तमी या सा गंगारूपास्ति तत्र वै ॥
इत्युक्त्वान्तर्दधे देवी सा गंगा मुनिसत्तमाः ॥६१॥
निवृत्तश्च द्विजः सोपि मात्रस्थ्यर्द्धं स्ववस्त्रतः ॥
क्षिपेद्यावत्तत्र तीर्थे तावच्चित्रमभूत्तदा ॥६२॥
दिव्यदेहत्वमापन्ना स्वमाता च व्यदृश्यत ॥
धन्योसि कृतकृत्योसि पवित्रं च कुलं त्वया ॥६३॥
धनं धान्यं तथा चायुर्वंशो वै वर्द्धतां तव ॥
इत्याशिषं मुहुर्दत्त्वा स्वपुत्राय दिवं गता ॥६४॥
तत्र भुक्त्वा सुखं भूरि चिरकालं महोत्तमम् ॥
शंकरस्य प्रसादेन गता सा ह्युत्तमां गतिम् ॥६५॥
ब्राह्मणश्च सुतस्तस्याः क्षिप्त्वास्थीनि पुनस्ततः ॥
प्रसन्नमानसोऽभूत्स शुद्धात्मा स्वगृहं गतः ॥६६॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नंदिकेश्वरलिंगमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं नाम षष्ठोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP