संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|कुमारखण्डः| अध्यायः १ कुमारखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० कुमारखण्डः - अध्यायः १ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १ Translation - भाषांतर ॥श्रीगणेशाय नमः ॥॥श्रीगौरीशंकराभ्यां नमः ॥अथ रुद्रसंहितांतर्गतश्चतुर्थः कुमारखण्डः प्रारभ्यते ॥वन्दे नन्दनतुष्टमान समति प्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम् ॥सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥१॥॥नारद उवाच ॥विवाहयित्वा गिरिजां शंकरो लोकशंकरः ॥गत्वा स्वपर्वतं ब्रह्मन् किमकार्षिद्धि तद्वद ॥२॥कथं हि तनयो जज्ञे शिवस्य परमात्मनः ॥यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ॥३॥तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशंकरः ॥एतत्सर्वमशेषेण वद कृत्वा दयां मयि ॥४॥सूत उवाच ॥इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ॥सुप्रसन्नमनाः स्मृत्वा शंकरं प्रत्युवाच ह ॥५॥ब्रह्मोवाच ॥चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ॥गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ॥६॥श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ॥यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ॥७॥इदमाख्यानमनघं रहस्यं परमाद्भुतम् ॥पापसंतापहरणं सर्वविघ्नविनाशनम् ॥८॥सर्वमंगलदं सारं सर्वश्रुतिमनोहरम् ॥सुखदं मोक्षबीजं च कर्ममूलनिकृंतनम् ॥९॥कैलासमागत्य शिवां विवाह्य शोभां प्रपेदे नितरां शिवोऽपि ॥विचारयामास च देवकृत्यं पीडां जनस्यापि च देवकृत्ये ॥१०॥शिवस्स भगवान् साक्षात्कैलासमगमद्यदा ॥सौख्यं च विविधं चक्रुर्गणास्सर्वे सुहर्षिताः ॥११॥महोत्सवो महानासीच्छिवे कैलासमागते ॥देवास्स्वविषयं प्राप्ता हर्षनिर्भरमानसाः ॥१२॥अथ शंभुर्महादेवो गृहीत्वा गिरिजां शिवाम् ॥जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ॥१३॥शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ॥अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ॥१४॥स रेमे तत्र भगवाञ्शंभुगिरिजया सह ॥सहस्रवर्षपर्यन्तं देवमानेन मानदः ॥१५॥दुर्गांगस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ॥मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥१६॥हरे भोगप्रवृत्ते तु लोकधर्म प्रवर्तिनि ॥महान् कालो व्यतीयाय तयोः क्षण इवानघ ॥१७॥अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ॥मंत्रयांचक्रुरागत्य मेरौ शक्रपुरोगमाः ॥१८॥सुरा ऊचुः ॥विवाहं कृतवाञ्छंभुरस्मत्कार्यार्थमीश्वरः ॥योगीश्वरो निर्विकारो स्वात्मारामो निरंजनः ॥१९॥नोत्पन्नस्तनयस्तस्य न जानामोऽत्र कारणम् ॥विलंबः क्रियते तेन कथं देवेश्वरेण ह ॥२०॥एतस्मिन्नंतरे देवा नारदाद्देवदर्शनात् ॥बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ॥२१॥चिरं ज्ञात्वा तयोर्भोगं चिंतामापुस्सुराश्च ते ॥ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणांतिकम् ॥२२॥तं नत्वा कथितं सर्वं मया वृत्तांतमीप्सितम् ॥सन्तस्थिरे सर्वदेवा चित्रे पुत्तलिका यथा ॥२३॥ब्रह्मोवाच ॥सहस्रवर्ष पर्य्यन्तं देवमानेन शंकरः ॥रतौ रतश्च निश्चेष्टो योगी विरमते न हि ॥२४॥भगवानुवाच ॥चिन्ता नास्ति जगद्धातस्सर्वं भद्रं भविष्यति ॥शरणं व्रज देवेश शंकरस्य महाप्रभोः ॥२५॥महेशशरणापन्ना ये जना मनसा मुदा ॥तेषां प्रजेशभक्तानां न कुतश्चिद्भयं क्वचित् ॥२६॥शृंगारभंगस्समये भविता नाधुना विधे ॥कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ॥२७॥शम्भोस्सम्भोगमिष्टं को भेदं कर्तुमिहेश्वरः ॥पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति ॥२८॥स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ॥तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि ॥२९॥भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह ॥प्रयात्यंते कालसूत्र वर्षलक्षं स पातकी ॥३०॥रंभायुक्तं शक्रमिमं चकार विरतं रतौ ॥महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ॥३१॥पुनरन्यां स संप्राप्य विषेव्य शुभपाणिकाम् ॥दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम् ॥३२॥घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः ॥षण्मासाभ्यंतरे चन्द्रस्तस्य पत्नीं जहार ह ॥३३॥पुनश्शिवं समाराध्य कृत्वा तारामयं रणम् ॥तारां सगर्भां संप्राप्य विजहौ विरहज्वरम् ॥३४॥मोहिनीसहितं चन्द्रं चकार विरतं रतौ ॥महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ॥३५॥हरिश्चन्द्रो हालिकं च वृषल्यासह संयुतम् ॥चारयामास निश्चेष्टं निर्जनं तत्फलं शृणु ॥३६॥भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः ॥ततश्शिवं समाराध्य मुक्तो भूतो हि कश्मलात् ॥३७॥अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ॥न भिया वारयामासुस्सुरास्तां चापि केचन ॥३८॥सर्वं निषेकसाध्यं च निषेको बलवान् विधे ॥निषेकफलदो वै स निषेकः केन वार्य्यते ॥३९॥दिव्यं वर्षसहस्रं च शंभोः संभोगकर्म तत् ॥पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ॥४०॥येन वीर्यं पतेद्भूमौ तत् करिष्यथ निश्चितम् ॥तत्र वीर्य्ये च भविता स्कन्दनामा प्रभोस्सुतः ॥४१॥अधुना स्वगृहं गच्छ विधे सुरगणैस्सह ॥करोतु शंभुस्संभोगं पार्वत्या सह निर्जने ॥४२॥ब्रह्मोवाच ॥इत्युक्त्वा कमलाकान्तः शीघ्रं स्वन्तः पुरं ययौ ॥स्वालयं प्रययुर्देवा मया सह मुनीश्वर ॥४३॥शक्तिशक्तिमतोश्चाऽथ विहारेणाऽति च क्षितिः ॥भाराक्रांता चकंपे सा सशेषाऽपि सकच्छपा ॥४४॥कच्छपस्य हि भारेण सर्वाधारस्समीरणः ॥स्तंभितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः ॥४५॥अथ सर्वे मया देवा हरेश्च शरणं ययुः ॥सर्वं निवेदयांचक्रुस्तद्वृत्तं दीनमानसाः ॥४६॥देवा ऊचुः ॥देवदेव रमानाथ सर्वाऽवनकर प्रभोः ॥रक्ष नः शरणापन्नान् भयव्याकुलमानसान् ॥४७॥स्तंभितस्त्रिजगत्प्राणो न जाने केन हेतुना ॥व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम् ॥४८॥ ॥ब्रह्मोवाच ॥इत्युक्त्वा सकला देवा मया सह मुनीश्वर ॥दीनास्तस्थुः पुरो विष्णोर्मौनीभूतास्सु दुःखिताः ॥४९॥तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः ॥जगाम पर्वतं शीघ्रं कैलासं शिववल्लभम् ॥५०॥तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः ॥ययौ शिववरस्थानं शंकरं द्रष्टुकाम्यया ॥५१॥तत्र दृष्ट्वा शिवं विष्णुर्नसुरैर्विस्मितोऽभवत् ॥तत्र स्थिताञ् शिवगणान् पप्रच्छ विनयान्वितः ॥५२॥विष्णुरुवाच ॥हे शंकराः शिवः कुत्र गतस्सर्वप्रभुर्गणाः ॥निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः ॥५३॥ब्रह्मोवाच ॥इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गुणाः ॥प्रोचुः प्रीत्या गणास्ते हि शंकरस्य रमापतिम् ॥५४॥शिवगणा ऊचुः ॥हरे शृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् ॥ब्रह्मणा निर्जरैस्सार्द्धं वृत्तान्तमखिलं च यत् ॥५५॥सर्वेश्वरो महादेवो जगाम गिरिजालयम् ॥संस्थाप्य नोऽत्र सुप्रीत्या रानालीलाविशारदः ॥५६॥तद्गुहाभ्यन्तरे शंभुः किं करोति महेश्वरः ॥न जानीमो रमानाथ व्यतीयुर्बहवस्समाः ॥५७॥ ॥ब्रह्मोवाच ॥श्रुत्वेति वचनं तेषां स विष्णुस्सामरो मया ॥विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह ॥५८॥तत्र गत्वा मया देवैस्स हरिर्देववल्लभः ॥आर्तवाण्या मुने प्रोचे तारस्वरतया तदा ॥५९॥शंभुमस्तौन्महाप्रीत्या सामरो हि मया हरिः ॥तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम् ॥६०॥ ॥विष्णुरुवाच ॥किं करोषि महादेवाऽभ्यन्तरे परमेश्वर ॥तारकार्तान्सुरान्सर्वान्पाहि नः शरणागतान् ॥६१॥इत्यादि संस्तुवञ् शंभुं बहुधा सोमरैर्मया ॥रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर ॥६२॥दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् ॥मिश्रितश्शिव संस्तुत्याऽसुरार्त्तानां मुनीश्वर ॥६३॥इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे शिवविहारवर्णनं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : October 10, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP