संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वामनपुराण| अध्याय ४७ वा वामनपुराण प्रस्तावना अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा अध्याय २६ वा अध्याय २७ वा अध्याय २८ वा अध्याय २९ वा अध्याय ३० वा अध्याय ३१ वा अध्याय ३२ वा अध्याय ३३ वा अध्याय ३४ वा अध्याय ३५ वा अध्याय ३६ वा अध्याय ३७ वा अध्याय ३८ वा अध्याय ३९ वा अध्याय ४० वा अध्याय ४१ वा अध्याय ४२ वा अध्याय ४३ वा अध्याय ४४ वा अध्याय ४५ वा अध्याय ४६ वा अध्याय ४७ वा अध्याय ४८ वा अध्याय ४९ वा अध्याय ५० वा अध्याय ५१ वा अध्याय ५२ वा अध्याय ५३ वा अध्याय ५४ वा अध्याय ५५ वा अध्याय ५६ वा अध्याय ५७ वा अध्याय ५८ वा अध्याय ५९ वा अध्याय ६० वा अध्याय ६१ वा अध्याय ६२ वा अध्याय ६३ वा अध्याय ६४ वा अध्याय ६५ वा अध्याय ६६ वा अध्याय ६७ वा अध्याय ६८ वा अध्याय ६९ वा अध्याय ७० वा अध्याय ७१ वा अध्याय ७२ वा अध्याय ७३ वा अध्याय ७४ वा अध्याय ७५ वा अध्याय ७६ वा अध्याय ७७ वा अध्याय ७८ वा अध्याय ७९ वा अध्याय ८० वा अध्याय ८१ वा अध्याय ८२ वा अध्याय ८३ वा अध्याय ८४ वा अध्याय ८५ वा अध्याय ८६ वा अध्याय ८७ वा अध्याय ८८ वा अध्याय ८९ वा अध्याय ९० वा अध्याय ९१ वा अध्याय ९२ वा अध्याय ९३ वा अध्याय ९४ वा अध्याय ९५ वा अध्याय ९६ वा वामनपुराण - अध्याय ४७ वा भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय. Tags : puranvamana puranvishnuपुराणवामन पुराणविष्णु अध्याय ४७ वा Translation - भाषांतर मार्कण्डेय उवाचस्थाणुतीर्थप्रभावं तु श्रोतुमिच्छाम्यहं मुनेकेन सिद्धिरथ प्राप्ता सर्वपापभयापहा ॥१॥सनत्कुमार उवाचशृणु सर्वमशेषेण स्थाणुमाहात्म्यमुत्तमम्यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः २॥एकार्णवे जगत्यस्मिन् नष्टे स्थावरजङ्गमेविष्णोर्नाभिसमुद्भूतं पद्ममव्यक्तजन्मनःतस्मिन् ब्रह्मा समुद्भूतः सर्वलोकपितामहः ॥३॥तस्मान्मरीचिरभवन्मरीचेः कश्यपः सुतःकश्यपादभवद् भास्वांस्तस्मान्मनुरजायत ॥४॥मनोस्तु क्षुवतः पुत्र उत्पन्नो मुखसंभवःपृथिव्यां चतुरन्तायां राजासीद् धर्मरक्षिता ॥५॥तस्य पत्नी बभूवाथ भया नाम भयावहामृत्योः सकाशादुत्पन्ना कालस्य दुहिता तदा ॥६॥तस्यां समभवद् वेनो दुरात्मा वेदनिन्दकःस दृष्ट्वा पुत्रवदनं क्रुद्धो राजा वनं ययौ ॥७॥तत्र कृत्वा तपो घोरं धर्मेणावृत्य रोदसीप्राप्तवान् ब्रह्मसदनं पुनरावृत्तिदुर्लभम् ॥८॥वेनो राजा समभवत् समस्ते क्षितिमण्डलेस मातामहदोषेण तेन कालात्मजात्मजः ॥९॥घोषयामस नगरे दुरात्मा वेदनिन्दकःन दातव्यं न यष्टव्यं न होतव्यं कदाचन ॥१०॥अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदामया हि पालिता यूयं निवसध्वं यथासुखम् ॥११॥तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं यः परायणम्एतच्छ्रुत्वा तु वचनमृषयः सर्व एव ते ॥१२॥परस्परं समागम्य राजानं वाक्यमब्रुवन्श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ॥१३॥यज्ञैर्विना नो प्रीयन्ते देवाः स्वर्गनिवासिनःअप्रीता न प्रयच्छन्ति वृष्टिं सस्यस्य वृद्धये ॥१४॥तस्माद् यज्ञैश्च देवैश्च धार्यते सचराचरम्एतच्छ्रुत्वा क्रोधदृष्टिर्वेनः प्राह पुनः पुनः ॥१५॥न यष्टव्यं न दातव्यमित्याह क्रोधमूर्च्छितःततः क्रोधसमाविष्टा ऋषयः सर्व एव ते ॥१६॥निजघ्नुर्मन्त्रपूतैस्ते कुशैर्वज्रसमन्वितैःततस्त्वराजके लोके तमसा संवृते तदा ॥१७॥दस्युभिः पीड्यमानास्तान् ऋषींस्ते शरणं ययुःततस्ते ऋषयः सर्वे ममन्थुस्तस्य वै करम् ॥१८॥सव्यं तस्मात् समुत्तस्थौ पुरुषो ह्रस्वदर्शनःतमूचुरृषयः सर्वे निषीदतु भवानिति ॥१९॥तस्मान्निषादा उत्पन्ना वेनकल्मषसंभवाःततस्ते ऋषयः सर्वे मन्मथुर्दक्षिणं करम् ॥२०॥मथ्यमाने करे तस्मिन् उत्पन्नः पुरुषोऽपरःबृहत्सालप्रतीकाशो दिव्यलक्षणलक्षितः ॥२१॥धनुर्बाणाङ्कितकरश्चक्रध्वजसमन्वितःतमुत्पन्नं तदा दृष्ट्वा सर्वे देवाः सवासवाः ॥२२॥अभ्यषिञ्चन् पृथिव्यां तं राजानं भूमिपालकम्ततः स रञ्जयामास धर्मेण पृथिवीं तदा ॥२३॥पित्राऽपरञ्जिता तस्य तेन सा परिपालितातत्र राजेतिशब्दोऽस्य पृथिव्या रञ्जनादभूत् ॥२४॥स राज्यं प्राप्य तेभ्यस्तु चिन्तयामास पार्थिवःपिता मम अधर्मिष्ठो यज्ञव्युच्छित्तिकारकः ॥२५॥कथं तस्य क्रिया कार्या परलोकसुखावहाइत्येवं चिन्तयानस्य नारदोऽभ्याजगाम ह ॥२६॥तस्मै स चासनं दत्त्वा प्रणिपत्य च पृष्टवान्भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥२७॥पिता मम दुराचारो देवब्राह्मणनिन्दकःस्वकर्मरहितो विप्र परलोकमवाप्तवान् ॥२८॥ततोऽब्रवीन्नारदस्तं ज्ञात्वा दिव्येन चक्षुषाम्लेच्छमघ्ये समुत्पन्नं क्षयकुष्ठसमन्वितम् ॥२९॥तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनःचिन्तयामास दुःखार्तः कथं कार्यं मया भवेत् ॥३०॥इत्येवं चिन्तयानस्य मतिर्जाता महात्मनःपुत्रः स कथ्यते लोके यः पितॄंस्त्रायते भयात् ॥३१॥एवं संचिन्त्य स तदा नारदं पृष्टवान् मुनिम्तारणं मत्पितुस्तस्य मया कार्यं कथं मुने ॥३२॥नारद उवाचगच्छ त्वं तस्य तं देहं तीर्थेषु कुरु निर्मलम्यत्र स्थाणोर्महत्तीर्थं सरः संनिहितं प्रति ॥३३॥एतच्छ्रुत्वा तु वचनं नारदस्य महात्मनःसचिवे राज्यमाधाय राजा स तु जगाम ह ॥३४॥स गत्वा चोत्तरां भूमिं म्लेच्छमध्ये ददर्श हकुष्ठरोगेण महता क्षयेण च समन्वितम् ॥३५॥ततः शोकेन महता संतप्तो वाक्यमब्रवीत्हे म्लेच्छा नौमि पुरुषं स्वगृहं च नयाम्यहम् ॥३६॥तत्राहमेनं निरुजं करिष्ये यदि मन्यथतथेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥३७॥ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत्कुरुतत आनीय पुरुषान् शिविकावाहनोचितान् ॥३८॥दत्त्वा शुल्कं च द्विगुणं सुखेन नयत द्विजम्ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावतः ॥३९॥गृहीत्वा शिविकां क्षिप्रं कुरुक्षेत्रेण यान्ति तेतत्र नीत्वा स्थाणुतीर्थे अवतार्य च ते गताः ॥४०॥ततः स राजा मध्याह्ने तं स्नापयति वै तदाततो वायुरन्तरिक्षे इदं वचनमब्रवीत् ॥४१॥मा तात साहसं कार्षीस्तीर्थं रक्ष प्रयत्नतःअयं पापेन घोरेण अतीव परिवेष्टितः ॥४२॥वेदनिन्दा महत्पापं यस्यान्तो नैव लभ्यतेसोऽयं स्नानान्महत्तीर्थं नाशयिष्यति तत्क्षणात् ॥४३॥एतद् वायोर्वचः श्रुत्वा दुःखेन महतान्वितःउवाच शोकसंतप्तस्तस्य दुःखेन दुःखितःएष घोरेण पापेन अतीव परिवेष्टितः ॥४४॥प्रायश्चित्तं करिष्येऽहं यद्वदिष्यन्ति देवताःततस्ता देवताः सर्वा इदं वचनमब्रुवन् ॥४५॥स्नात्वा स्नात्वा च तीर्थेषु अभिषिञ्चस्व वारिणाओजसा चुलुकं यावत् प्रतिकूले सरस्वतीम् ॥४६॥स्नात्वा मुक्तिमवाप्नोति पुरुषः श्रद्धयान्वितःएष स्वपोषणपरो देवदूषणतत्परः ॥४७॥ब्राह्मणैश्च परित्यक्तो नैष शुद्ध्यति कर्हिचित्तस्मादेनं समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ॥४८॥अभिषिञ्चस्व तोयेन ततः पूतो भविष्यतिइत्येतद्वचनं श्रुत्वा कृत्वा तस्याश्रमं ततः ॥४९॥तीर्थयात्रां ययौ राजा उद्दिश्य जनकं स्वकम्स तेषु प्लावनं कुर्वंस्तीर्थेषु च दिने दिने ॥५०॥अभ्यषिञ्चत् स्वपितरं तीर्थतोयेन नित्यशःएतस्मिन्नेव काले तु सारमेयो जगाम ह ॥५१॥स्थाणोर्मठे कौलपतिर्देवद्र व्यस्य रक्षितापरिग्रहस्य द्र व्यस्य परिपालयिता सदा ॥५२॥प्रियश्च सर्वलोकेषु देवकार्यपरायणःतस्यैवं वर्तमानस्य धर्ममार्गे स्थितस्य च ॥५३॥कालेन चलिता बुद्धिर्देवद्र व्यस्य नाशनेतेनाधर्मेण युक्तस्य परलोकगतस्य च ॥५४॥दृष्ट्वा यमोऽब्रवीद् वाक्यं श्वयोनिं व्रज मा चिरम्तद्वाक्यानन्तरं जातः श्वा वै सौगन्धिके वने ॥५५॥ततः कालेन महता श्वयूथपरिवारितःपरिभूतः सरमया दुःखेन महता वृतः ॥५६॥त्यक्त्वा द्वैतवनं पुण्यं सान्निहत्यं ययौ सरःतस्मिन् प्रविष्टमात्रस्तु स्थाणोरेव प्रसादतः ॥५७॥अतीव तृषया युक्तः सरस्वत्यां ममञ्ज हतत्र संप्लुतदेहस्तु विमुक्तः सर्वकिल्बिषैः ॥५८॥आहारलोभेन तदा प्रविवेश कुटीरकम्प्रविशन्तं तदा दृष्ट्वा श्वानं भयसमन्वितः ॥५९॥स तं पस्पर्श शनकैः स्थाणुतीर्थे ममञ्ज हपततः पूर्वतीर्थेषु विप्रुषैः परिषिञ्चतः ॥६०॥शुनोऽस्य गात्रसंभूतैरब्बिन्दुभिः स सिञ्चितःविरक्तदृष्टिश्च शुनः क्षेपेण च ततः परम् ॥६१॥स्थाणुतीर्थस्य माहात्म्यात् स पुत्रेण च तारितःनियतस्तत्क्षणाज्जातो दिव्यदेहसमन्वितःप्रणिपत्य तदा स्थाणुं स्तुतिं कर्तुं प्रचक्रमे ॥६२॥वेन उवाचप्रपद्ये देवमीशानं त्वामजं चन्द्र भूषणम्महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥६३॥नमस्ते देवदेवेश सर्वशत्रुनिषूदनदेवेश बलिविष्टम्भ देवदैत्यैश्च पूजित ॥६४॥विरूपाक्ष सहस्राक्ष त्र्! यक्ष यक्षेश्वरप्रियसर्वतः पाणिपादान्त सर्वतोऽक्षिशिरोमुख ॥६५॥सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसिशङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥६६॥गजेन्द्र कर्ण गोकर्ण पाणिकर्ण नमोऽस्तु तेशतजिह्व शतावर्त शतोदर शतानन ॥६७॥गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणःब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे ॥६८॥मूर्तौ हि ते महामूर्ते समुद्रा म्बुधरास्तथादेवताः सर्व एवात्र गोष्ठे गाव इवासते ॥६९॥शरीरे तव पश्यामि सोममग्निं जलेश्वरम्नारायणं तथा सूर्यं ब्रह्माणं च बृहस्पतिम् ॥७०॥भगवान् कारणं कार्यं क्रियाकारणमेव तत्प्रभवः प्रलयश्चैव सदसच्चापि दैवतम् ॥७१॥नमो भवाय शर्वाय वरदायोग्ररूपिणेअन्धकासुरहन्त्रे च पशूनां पतये नमः ॥७२॥त्रिजटाय त्रिशीर्षाय त्रिशूलासक्तपाणयेत्र्! यम्बकाय त्रिनेत्राय त्रिपुरघ्न नमोऽस्तु ते ॥७३॥नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवेडिण्डिमासक्तहस्ताय डिण्डिमुण्डाय ते नमः ॥७४॥नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय चधूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः ॥७५॥नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय चसूर्यमालाय सूर्याय स्वरूपध्वजमालिने ॥७६॥नमो मानातिमानाय नमः पटुतराय तेनमो गणेन्द्र नाथाय वृषस्कन्धाय धन्विने ॥७७॥संक्रन्दनाय चण्डाय पर्णधारपुटाय चनमो हिरण्यवर्णाय नमः कनकवर्चसे ॥७८॥नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमोऽस्तु तेसर्वाय सर्वभक्षाय सर्वभूतशरीरिणे ॥७९॥नमो होत्रे च हन्त्रे च सितोदग्रपताकिनेनमो नम्याय नम्राय नमः कटकटाय च ॥८०॥नमोऽस्तु कृशनाशाय शयितायोत्थिताय चस्थिताय धावमानाय मुण्डाय कुटिलाय च ॥८१॥नमो नर्तनशीलाय लयवादित्रशालिनेनाट्योपहारलुब्धाय मुखवादित्रशालिने ॥८२॥नमो ज्योष्ठाय श्रेष्ठाय बलातिबलघातिनेकालनाशाय कालाय संसारक्षयरूपिणे ॥८३॥हिमवद्दुहितुः कान्त भैरवाय नमोऽस्तु तेउग्राय च नमो नित्यं नमोऽस्तु दशबाहवे ॥८४॥चितिभस्मप्रियायैव कपालासक्तपाणयेविभीषणाय भीष्माय भीमव्रतधराय च ॥८५॥नमो विकृतवक्त्राय नमः पूतोग्रदृष्टयेपक्वाममांसलुब्धाय तम्बिवीणाप्रियाय च ॥८६॥नमो वृषाङ्कवृक्षाय गोवृषाभिरुते नमःकटङ्कटाय भीमाय नमः परपराय च ॥८७॥नमः सर्ववरिष्ठाय वराय वरदायिनेनमो विरक्तरक्ताय भावनायाक्षमालिने ॥८८॥विभेदभेदभिन्नाय छायायै तपनाय चअघोरघोररूपाय घोरघोरतराय च ॥८९॥नमः शिवाय शान्ताय नमः शान्ततमाय चबहुनेत्रकपालाय एकमूर्ते नमोऽस्तु ते ॥९०॥नमः क्षुद्रा य लुब्धाय यज्ञभागप्रियाय चपञ्चालाय सिताङ्गाय नमो यमनियामिने ॥९१॥नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिनेसहस्रशतघण्टाय घण्टामालविभूषिणे ॥९२॥प्राणसंघट्टगर्वाय नमः किलिकिलिप्रियेहुंहुङ्काराय पाराय हुंहुङ्कारप्रियाय च ॥९३॥नमः समसमे नित्यं गृहवृक्षनिकेतिनेगर्भमांसशृगालाय तारकाय तराय च ॥९४॥नमो यज्ञाय यजिने हुताय प्रहुताय चयज्ञवाहाय हव्याय तप्याय तपनाय च ॥९५॥नमस्तु पयसे तुभ्यं तुण्डानां पतये नमःअन्नदायान्नपतये नमो नानान्नभोजिने ॥९६॥नमः सहस्रशीर्षाय सहस्रचरणाय चसहस्रोद्यतशूलाय सहस्राभरणाय च ॥९७॥बालानुचरगोप्त्रे च बाललीलाविलासिनेनमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च ॥९८॥गङ्गालुलितकेशाय मुञ्जकेशाय वै नमःनमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥९९॥नग्नप्राणाय चण्डाय कृशाय स्फोटनाय चधर्मार्थकाममोक्षाणां कथ्याय कथनाय च ॥१००॥साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय चनमो विरथरथ्याय चतुष्पथरथाय च ॥१०१॥कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिनेवक्त्रसंधानकेशाय हरिकेश नमोऽस्तु तेत्र्! यम्बिकाम्बिकनाथाय व्यक्ताव्यक्ताय वेधसे ॥१०२॥कामकामदकामघ्न तृप्तातृप्तविचारिणेनमः सर्वद पापघ्न कल्पसंख्याविचारिणे ॥१०३॥महासत्त्व महाबाहो महाबल नमोऽस्तु तेमहामेघ महाप्रख्य महाकाल महाद्युते ॥१०४॥मेघावर्त युगावर्त चन्द्रा र्कपतये नमःत्वमन्नमन्नभोक्ता च पक्वभुक् पावनोत्तम ॥१०५॥जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च येत्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥१०६॥स्रष्टा चराचरस्यास्य पाता हन्ता तथैव चत्वामाहुर्ब्रह्म विद्वांसो ब्रह्म ब्रह्मविदां गतिम् ॥१०७॥मनसः परमज्योतिस्त्वं वायुर्ज्योतिषामपिहंसवृक्षे मधुकरमाहुस्त्वं ब्रह्मवादिनः ॥१०८॥यजुर्मयो ऋङ्मयस्त्वामाहुः साममयस्तथापठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥१०९॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च येत्वमेव मेघसंघाश्च विद्युतोऽशनिगर्जितम् ॥११०॥संवत्सरस्त्वमृतवो मासो मासार्धमेव चयुगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः ॥१११॥वृक्षाणां ककुभोऽसि त्वं गिरीणां हिमवान् गिरिःव्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥११२॥क्षिरोदोऽस्युदधीनां च यन्त्राणां धनुरेव चवज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥११३॥त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमेव्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥११४॥त्वं शरी त्वं गदी चापि खट्वाङ्गी च शरासनीछेत्ता मेत्ता प्रहर्तासि मन्ता नेता सनातनः ११५॥दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव चसमुद्रा ः! सरितो गङ्गा पर्वताश्च सरांसि च ॥११६॥लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणःद्र व्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥११७॥आदिश्चान्तश्च वेदानां गायत्री प्रणवस्तथालोहितो हरितो नीलः कृष्णः पीतः सितस्तथा ॥११८॥कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथासवर्णश्चाप्यवर्णाश्च कर्ता हर्ता त्वमेव हि ॥११९॥त्वमिन्द्र श्च यमश्चैव वरुणो धनदोऽनिलःउपप्लवश्चित्रभानुः स्वर्भानुरेव च ॥१२०॥शिक्षाहैत्रं त्रिसौपर्णं यजुषां शतरुद्रि यम्पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥१२१॥तिन्दुको गिरिजो वृक्षो मुद्गं चाखिलजीवनम्प्राणाः सत्त्वं रजश्चैव तमश्च प्रतिपत्पतिः ॥१२२॥प्राणोऽपानः समानश्च उदानो व्यान एव चउन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ॥१२३॥लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरःशुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः ॥१२४॥गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियःमत्स्यो जालो जलौकाश्च कालः केलिकला कलिः ॥१२५॥अकालश्च विकालश्च दुष्कालः काल एव चमृत्युश्च मृत्युकर्ता च यक्षो यक्षभयङ्करः ॥१२६॥संवर्तकोऽन्तकश्चैव संवर्तकबलाहकःघण्टो घण्टी महाघण्टी चिरी माली च मातलिः ॥१२७॥ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक्चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः ॥१२८॥चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथानित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ॥१२९॥रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियःशिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः ॥१३०॥भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनःस्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः ॥१३१॥गूढव्रतो गुह्यतपास्तारकास्तारकामयःधाता विधाता संधाता पृथिव्या धरणोऽपरः ॥१३२॥ब्रह्मा तपश्च सत्यं च व्रतचर्यमथार्जवम्भूतात्मा भूतकृद् भूतिर्भूतभव्यभवोद्भवः ॥१३३॥भूर्भुवः स्वरृतं चैव ध्रुवो दान्तो महेश्वरःदीक्षितोऽदीक्षितः कान्तो दुर्दान्तो दान्तसंभवः ॥१३४॥चन्द्रा वर्तो युगावर्तः संवर्तकप्रवर्तकःबिन्दुः कामो ह्यणुः स्थूलः कर्णिकारस्रजप्रियः ॥१३५॥नन्दीमुखो भीममुखः सुमुखो दुर्मुखस्तथाहिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥१३६॥अधर्महा महादेवो दण्डधारो गणोत्कटःगोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥१३७॥त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव चस्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोश एव च ॥१३८॥दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमःदुर्द्धर्षो दुष्प्रकाशश्च दुर्दुर्शो दुर्जयो जयः ॥१३९॥शशाङ्कानलशीतोष्णः क्षुत्तृष्णा च निरामयःआधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः ॥१४०॥समूहश्च समूहस्य हन्ता देवः सनातनःशिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥१४१॥त्र्! यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकःविषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतेअमृताशी जगन्नातो देवदेव गणेश्वरः ॥१४२॥मधुश्च्युतानां मधुपो ब्रह्मवाक् त्वं घृतच्युतःसर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः ॥१४३॥हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं चबालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद् विश्वहर्ता ॥१४४॥त्वं वै धाता विश्वकृतां वरेण्यस्त्वां पूजयन्ति प्रणताः सदैवचन्द्रा दित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्चआराध्य त्वां सरस्वतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्ता ॥१४५॥न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न तेमाहात्म्यं वेदितुं शक्ता याथातथ्येन शङ्कर ॥१४६॥पुंसां शतसहस्राणि यत्समावृत्य तिष्ठतिमहतस्तमसः पारे गोप्ता मन्ता भवान् सदा ॥१४७॥यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रि याःज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥१४८॥या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम्ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥१४९॥रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु तेभक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥१५०॥जटिने दण्डिने नित्यं लम्बोदरशरीरिणेकमण्डलुनिषङ्गाय तस्मै रुद्रा त्मने नमः ॥१५१॥यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषुकुक्षौ समुद्रा श्चत्वारस्तस्मै तोयात्मने नमः ॥१५२॥संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थितेयः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥१५३॥प्रविश्य वदनं राहोर्यः सोमं पिबते निशिग्रसत्यर्कं च स्वर्भानू रक्षितस्तव तेजसा ॥१५४॥ये चात्र पतिता गर्भा रुद्र गन्धस्य रक्षणेनमस्तेऽस्तु स्वधा स्वाहा प्राप्नुवन्ति तदद्भुते ॥१५५॥येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै ॥१५६॥ये नदीषु समुद्रे षु पर्वतेषु गुहासु चवृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥१५७॥चतुष्पथेषु रथ्यासु चत्वरेषु सभासु चहस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥१५८॥ये च पञ्चसु भूतेषु दिशासु विदिशासु चचन्द्रा र्कयोर्मध्यगता ये च चन्द्रा र्करश्मिषु ॥१५९॥रसातलगता ये च ये च तस्मात् परं गताःनमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥१६०॥येषां न विद्यते संख्या प्रमाणं रूपमेव चअसंख्येयगणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः ॥१६१॥प्रसीद मम भद्रं ते तव भावगतस्य चत्वयि मे हृदयं देव त्वयि बुद्धिर्मतिस्त्वयि ॥१६२॥स्तुत्वैवं स महादेवं विरराम द्विजोत्तमः ॥१६३॥इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : September 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP