संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वामनपुराण| अध्याय १७ वा वामनपुराण प्रस्तावना अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा अध्याय २६ वा अध्याय २७ वा अध्याय २८ वा अध्याय २९ वा अध्याय ३० वा अध्याय ३१ वा अध्याय ३२ वा अध्याय ३३ वा अध्याय ३४ वा अध्याय ३५ वा अध्याय ३६ वा अध्याय ३७ वा अध्याय ३८ वा अध्याय ३९ वा अध्याय ४० वा अध्याय ४१ वा अध्याय ४२ वा अध्याय ४३ वा अध्याय ४४ वा अध्याय ४५ वा अध्याय ४६ वा अध्याय ४७ वा अध्याय ४८ वा अध्याय ४९ वा अध्याय ५० वा अध्याय ५१ वा अध्याय ५२ वा अध्याय ५३ वा अध्याय ५४ वा अध्याय ५५ वा अध्याय ५६ वा अध्याय ५७ वा अध्याय ५८ वा अध्याय ५९ वा अध्याय ६० वा अध्याय ६१ वा अध्याय ६२ वा अध्याय ६३ वा अध्याय ६४ वा अध्याय ६५ वा अध्याय ६६ वा अध्याय ६७ वा अध्याय ६८ वा अध्याय ६९ वा अध्याय ७० वा अध्याय ७१ वा अध्याय ७२ वा अध्याय ७३ वा अध्याय ७४ वा अध्याय ७५ वा अध्याय ७६ वा अध्याय ७७ वा अध्याय ७८ वा अध्याय ७९ वा अध्याय ८० वा अध्याय ८१ वा अध्याय ८२ वा अध्याय ८३ वा अध्याय ८४ वा अध्याय ८५ वा अध्याय ८६ वा अध्याय ८७ वा अध्याय ८८ वा अध्याय ८९ वा अध्याय ९० वा अध्याय ९१ वा अध्याय ९२ वा अध्याय ९३ वा अध्याय ९४ वा अध्याय ९५ वा अध्याय ९६ वा वामनपुराण - अध्याय १७ वा भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय. Tags : puranvamana puranvishnuपुराणवामन पुराणविष्णु अध्याय १७ वा Translation - भाषांतर पुलस्त्य उवाचमासि चाश्वयुजे ब्रह्मन् यदा पद्मं जगत्पतेः।नाभ्या निर्याति हि तदा देवेष्वेतान्यथोऽभवन् ॥१॥कन्दर्पस्य कराग्रे तु कदम्बश्चारुदर्शनः।तेन तस्य परा प्रीतिः कदम्बेन विवर्द्धते ॥२॥यक्षाणामधिपस्यापि मणिभद्रस्य नारद।वटवृक्षः समभवत् तस्मिंस्तस्य यतिः सदा ॥३॥महेश्वरस्य हृदये धत्तूरविटपः शुभः।संजातः स च शर्वस्य रतिकृत् तस्य नित्यशः ॥४॥ब्रह्मणो मध्यतो देहाञ्जातो मरकतप्रभः।ख दरः कण्टकी श्रेयानभवद्विश्वकर्मणः ॥५॥गिरिजायाः करतले कुन्दगुल्मस्त्वजायत।गणाधिपस्य कुम्भस्थो राजते सिन्धुवारकः ॥६॥यमस्य दक्षिणे पार्श्वे पालाशो दक्षिणोत्तरे।कृष्णोदुम्बरको रुद्राज्जातः क्षोभकरो वृषः ॥७॥स्कन्दस्य बन्धुजीवस्तु रवेरश्वत्थ एव च।कात्यायन्याः शमीजाता बिल्वो लक्ष्म्याः करेऽभवत् ॥८॥नागानां पतये ब्रह्मञ्छरस्तम्बो व्यजायत।वासुकेर्विस्तृते पुच्छे पृष्ठे दूर्वा सिता सिता ॥९॥साध्यानां हृदये जातो वृक्षो हरितचन्दनः।एवं जातेषु सर्वेषु तेन तत्र रतिर्भवेत् ॥१०॥तत्र रम्ये शुभे काले या शुक्लैकादशी भवेत्।तस्यां संपूजयेद् विष्णुं तेन खण्डोऽस्य पूर्यते ॥११॥पुष्षैः पत्रैः फलैर्वापि गन्धवर्णरसान्वितैः।ओषधीभिश्च मुख्याभिर्यावत्स्याच्छरदागमः ॥१२॥घृतं तिला व्रीहियवा हिरण्यकनकादि यत्।मणिमुक्ता प्रवालानि वस्त्राणि विविधानि च ॥१३॥रसानि स्वादुकट्वम्लकषायलवणानि च।तिक्तानि च निवेद्यानि तान्यखण्डानि यानि हि ॥१४॥तत्पूजार्थं प्रदातव्यं केशवाय महात्मने।यदा संवत्सरं पूर्णमखण्डं भवते गृहे ॥१५॥कृतोपवासो देवर्षे द्वितीयेऽहनि संयतः।स्नानेन तेन स्नायीत येनाखण्डं हि वत्सरम् ॥१६॥सिद्धार्तकैस्तिलैर्वापि तेनैवोद्वर्तनं स्मृतम्।हविषा पद्मनाभस्य स्नानमेव समाचरेत्।होमे तदेव गदितं दाने शक्तिर्निजा द्विज ॥१७॥पूजयेताथ कुसुमैः पादादारभ्य केशवम्।धूपयेद् विविधं धूपं येन स्याद् वत्सरं परम् ॥१८॥हिरण्यरत्नवासोभिः पूजयेत जगद् गुरुम्।रागखाण्डवचोष्याणि हविष्याणि निवेदयेत् ॥१९॥ततः संपूज्य देवेशं पद्मनाभं जगद् गुरुम्।विज्ञापयेन्मुनिश्रेष्ठ मन्त्रेणानेन सुव्रत ॥२०॥नमोऽस्तु ते पद्मनाभ पद्माधव महाद्युते।धर्मार्थकाममोक्षणि त्वखण्डानि भवन्तु मे ॥२१॥विकासिपद्मपत्राक्ष यथाऽखण्डोसि सर्वतः।तेन सत्येन धर्माद्य अखण्डाः सन्तु केशव ॥२२॥एवं संवत्सरं पूर्णं सोपवासो जितेन्द्रियः।अखण्डं पारयेद् ब्रह्मन् व्रतं वै सर्ववस्तुषु ॥२३॥अस्मिंश्चीर्णे व्रतं व्यक्तं परितुष्यन्ति देवताः।धर्मार्थकाममोक्षाद्यास्त्वक्षयाः संभवन्ति हि ॥२४॥एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः।प्रवक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम् ॥२५॥नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम्।प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२६॥गदां कौमोदकीं गृह्य पद्मनाभामितद्युते।याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२७॥हलमादाय सौनन्दं नमस्ते पुरषोत्तम।प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः ॥२८॥मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम्।उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥२९॥शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे।नमस्ते रक्ष रक्षघ्न ऐशान्यां शरणं गतः ॥३०॥पाञ्चजन्यं महाशङ्खमन्तर्बोध्यं च पङ्कजम्।प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ॥३१॥चर्म सूर्यशतं गृह्य खङ्गं चन्द्रमसं तथा।नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥३२॥वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम्।वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥३३॥वैनतेयं समारुह्य अन्तरिक्षे जनार्दन।मां त्वं रक्षाजित सदा नमस्ते त्वपराजति ॥३४॥विशालाक्षं समारुह्य रक्ष मां त्वं रसातले।अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते ॥३५॥करशीर्षाङ्घ्रपर्वेषु तथाऽष्टबाहुपञ्जरम्।कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम ॥३६॥एतदुक्तं भगवता वैष्णवं पञ्जरं महत्।पुरा रक्षार्थमीशेन कात्यायन्या द्विजोत्तम ॥३७॥नाशयामास सा यत्र दानवं महिषासुरम्।नमरं रक्तबीजं च तथान्यान् सुरकण्टकान् ॥३८॥नारद उवाचकाऽसौ कात्यायानी नाम या जघ्ने महिषासुरम्।नमरं रक्तबीजं च तथाऽन्यान् कुरकण्टकान् ॥३९॥कश्चासौ महिषो नाम कुले जातश्च कस्य सः।कश्चासौ रक्तबीजाख्यो नमरः कस्य चात्मजः।एतद्विस्तरतस्तात यथावद् वक्तुमर्हसिः ॥४०॥पुलस्त्य उवाचश्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम्।सर्वदा वरदा दुर्गा येयं कात्यायनी मुने ॥४१॥पुराऽसुरवरौ रौद्रौ जगत्क्षोभकरावुभौ।रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबलौ ॥४२॥तावपुत्रौ च देवर्षे पुत्रार्थं तेपतुस्तपः।बहून् वर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले ॥४३॥तत्रैको जलमध्यस्थो द्वितीयोऽप्यग्निपंचमी।करम्भश्चैव रम्भश्च यक्षं मालपटं प्रति ॥४४॥एकं मिमग्नं सलिले ग्राहरूपेण वासवः।चरणाभ्यां समादाय निजघान यथेच्छया ॥४५॥ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः।वह्नौ स्वशीर्षं संक्षिद्य होतुमैच्चन् महाबलः ॥४६॥ततः प्रगृह्य केशेषु खङ्गं च रविसप्रभम्।छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥४७॥उक्तश्च मा दैत्यवर नाशयात्मानमात्मना।दुस्तरा परवध्याऽपि स्ववध्याऽप्यतिदुस्तरा ॥४८॥यच्च प्रार्थयसे वीर तद्ददामि यथेप्सितम्।मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥४९॥ततोऽब्रवीद् वचो रम्भो वरं चेन्मे ददासि हि।त्रैलोक्यविजयी पुत्रः स्यान्मे त्वत्तेजसाऽधिकः ॥५०॥अजेयो दैवतैः सर्वैः पुंभिर्दैत्यैश्च पावक।महाबलो वायुरिव कामरूपी कृतास्त्रवित् ॥५१॥तं प्रोवाच कविर्ब्रह्मन् बाडमेवं भविष्यति।यस्यां चित्तं समालम्बि करिष्यसि ततः सुतः ॥५२॥इत्येवमुक्तो देवेन वह्निना दानवो ययौ।द्रष्टुं मालवटं यक्षं यक्षैश्च परिवारितम् ॥५३॥तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः।गजश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥५४॥तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः।महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन ॥५५॥सा समागाच्च दैत्येन्द्रं कामयन्ती तरस्विनी।स चापि गमनं चक्रे भवितव्यप्रचोदितः ॥५६॥तस्यां समभवद् गर्भस्तां प्रगृह्याथ दानवः।पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥५७॥दृष्टश्च दानवैः सर्वैः परित्यक्तश्च बन्धुभिः।अकार्यकारकेत्येवं भूयो मालव़टं गतः ॥५८॥साऽपि तेनैव पतिना महिषी चारुदर्शना।समं जगाम तत् पुण्यं यक्षमण्डलमुत्तमम् ॥५९॥ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने।अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम् ॥६०॥एतामृतुमतीं जातां महिषोऽन्यो ददर्श ह।सा चाभ्यगाद् दितिवरं रक्षन्ती शीलमात्मनः ॥६१॥तमुन्नामितनासं च महिषं वीक्ष्य दानवः।खङ्ग निष्कृष्य तरसा महिषं समुपाद्रवत् ॥६२॥तेनापि दैत्यस्तीक्ष्णाभ्यां श्रृङ्गाभ्यां हृदि ताडितः।निर्भिन्नहृदयो भूमौ निपपात ममार च ॥६३॥मृते भर्तरि सा श्यामा यक्षाणां शरणं गता।रक्षिता गुह्यकैः साध्वी निवार्य महिषं ततः ॥६४॥ततो निवारितो यक्षैर्हयारिर्मदनातुरः।निपपात सरो दिव्यं ततो दैत्योऽभवन्मृतः ॥६५॥नमरो नाम विख्यातो महाबलपराक्रमः।यक्षानाश्रित्य तस्थौ स कालयन् श्वापदान् मुने ॥६६॥स च दैत्येश्वरो यक्षैर्मालवटपुरस्सरैः।चितामारोपितः सा च श्यामा तं चारुहत् पतिम् ॥६७॥ततोऽग्निमध्यादुत्तस्थौ पुरुषो रौद्रदर्शनः।व्यद्रावयत् स तान् यक्षान् खङ्गपाणिर्भयंकरः ॥६८॥ततो हतास्तु महिषाः सर्व एव महात्मना।ऋते संरक्षितारं हि महिषं रम्भनन्दनम् ॥६९॥स नामतः स्मृतो दैत्यो रक्तबीजो महामुने।योऽजयत् सर्वतो देवान् सेन्द्ररुद्रार्कमारुतान् ॥७०॥एवं प्रभावा दनुपुंगवास्ते तेजोऽधिकस्तत्र बभौ हयारिः।राज्येऽभिषिक्तश्च महाऽसुरेन्द्रैर्विनिर्जितैः शम्बरतारकाद्यैः ॥७१॥अशक्नुवद्भिः सहितैश्च देवैः सलोकपालैः सहुताशभास्करैः।स्थानानि त्यक्तानि शशीन्द्रभास्करैर्धर्मश्च दूरे प्रतियोजितश्च ॥७२॥इति श्रीवामनपुराणे सप्तदशोऽध्यायः ॥ १७ ॥ N/A References : N/A Last Updated : September 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP