गायत्री रामायणम् - तत्सवितुर्वरॆण्यं भर्गो द...
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।
तत्सवितुर्वरॆण्यं भर्गो देवस्य धीमहि धियॊ यो नः प्रचोदयात्
१
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१॥
कोन्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥२॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कस्समर्थश्च कश्चैकप्रियदर्शनः ॥३॥
आत्मवान् को जितक्रोधः द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥४॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवं विधं नरं ॥५॥
२
स हत्वा राक्षसान्सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्सम्यक् यथेन्द्रो विजयी पुरा ॥१॥
३
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥१॥
४
तुष्टावास्य तदा वंशंप्रविश्य च विशांपतेः ।
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥१॥
५
वनवासं हि संख्याय वासांस्याभरणानि च ।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥१॥
६
राजा सत्यं च धर्मं चराजा कुलवतां कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥१॥
७
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।
उटजे राममासीनं जटामण्डलधारिणम् ॥१॥
८
यदि बुद्धिः कृता द्रष्टुं अगस्त्यं तं महामुनिम् ।
अद्यैव गमने बुद्धिं रोचयस्व महायशाः ॥१॥
९
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥१॥
१०
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् ।
वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ॥१॥
११
देशकालौ प्रतीक्षस्व क्षममाणः प्रियाप्रिये ।
सुखदुःखसहः कालेसुग्रीववशगो भव ॥१॥
१२
वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः
प्रष्टव्याश्चापि सीतायाः प्रवृत्तिं विनयान्वितैः ॥१॥
१३
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।
विक्रमेण महातेजाः हनूमान्मारुतात्मजः ॥१॥
१४
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥१॥
१५
मंगलाभिमुखी तस्य सा तदासीन्महाकपेः ।
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥१॥
१६
हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम् ।
निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥१॥
१७
धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः ।
लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥१॥
१८
यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।
स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥१॥
१९
यस्य विक्रममासाद्य राक्षसा निधनं गताः ।
तं मन्ये राघवं वीरं नारायणमनामयम् ॥१॥
२०
न ते ददर्शिरे रामं दहन्तमरिवाहिनीम् ।
मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥१॥
२१
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
बद्धांजलिपुटाचेदमुवाचाग्निसमीपतः ॥१॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥२॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥३॥
२२
चलनात्पर्वतेन्द्रस्य गणा देवाश्च कंपिताः ।
चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥१॥
२३
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥१॥
२४
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥१॥
२५
इदं रामायणं कृत्स्नं गयत्रीबीजसंयुतम् ।
त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥१॥
N/A
References : N/A
Last Updated : January 03, 2019
TOP