दुर्गापूजा-विधान

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


दुर्गापूजा-विधान

पहले बतलाये नियमके अनुसार आसनपर प्राड्मुख बैठ जाय । जलसे प्रोक्षणकर शिखा बाँधे । तिलक लगाकर आचमन एवं प्राणायाम करे । संकल्प करे । हातमें फूल लेकर अञ्जलि बाँधकर दुर्गाजीका ध्यान करे । यदि प्रतिष्ठित प्रतिमा हो तो आवाहनकी जगह पुष्पाञ्जलि दे, नहीं तो दुर्गाजीका आवाहन करे ।)

आवाहन-
आगच्छ त्वं महादेवि ! स्थाने चात्र स्थिरा भव ।
यावत्‍ पूजां करिष्यामि तावत्‍ त्वं संनिधौ भव ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । दुर्गादेवीमावाहयामि ।
आवाहनार्थे पुष्पांजञ्लिं समर्पयामि । (पुष्पाञ्जलि समर्पण करे ।)

आसन-
अनेकरत्नसंयुक्तं नानामणिगणान्वितम्‍ ।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । आसनार्थे पुष्पाणि समर्पयामि । (रत्नमय आसन या फूल समर्पित करे ।)

पाद्य-
गड्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्ततम्‍ ।
पाद्यार्थं ते प्रदास्यामि गृहाण परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । पादयो: पाद्यं समर्पयामि ।
(जल चढाये ।)

अर्ध्य-
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । हस्तयो: अर्ध्यं समर्पयामि ।
(चन्दन, पुष्प, अक्षतसे युक्त अर्ध्य दे ।)

आचमन-
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्‍
तोयमाचमनीयार्थं गृहाण परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । आचमनं समर्पयामि । (कर्पूरसे सुवासित शीतल जल चढाये ।)

स्नान-
मन्दाकिन्यास्तु यद्वारि सर्वापापहरं शुभम्‍ ।
तदिदं कल्पितं देवि । स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । स्नानार्थं जलं समर्पयामि । (गड्गा-जल चढाये ।)

स्नानाड्ग-आचमन-
स्नानान्ते पुनराचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

दुग्धस्नान-
कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम्‍ ।
पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । दुग्धस्नानं समर्पयामि । (गोदुग्धसे स्नान कराये ।)

दधिस्नान-
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्‍ ।
दध्यानीतं मया देवी ! स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । दधिस्नानं समर्पयामि । (गोदधिसे स्नान कराये ।)

घृतस्नान-
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्‍ ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । घृतस्नानं समर्पयामि । (गोघृतसे स्नान कराये ।)

मधुस्नान-
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु ।
तेज:पुष्टिसमायुक्तं स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । मधुस्नानं समर्पयामि । (मधुसे-स्नान कराये ।)

शर्करास्नान-
इक्षुसारसमुद्भूतां शर्करां पुष्ठिदां शुभाम्‍ ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । शर्करास्नानं समर्पयामि । (शक्करसे स्नान कराये ।)

पञ्चामृत-स्नान-
पयो दधि घृतं चैव मधु च शर्करान्वितम्‍ ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । पञ्चामृतस्नानं समर्पयामि । ( अन्य पात्रमें पृथक्‍ निर्मित पञ्चामृतसे स्नान कराये ।)

गन्धोदक-स्नान-
मलयाचलसम्भूतं चन्दनागरुमिश्रितम्‍ ।
सलिलं देवदेवेशि शुद्धस्नानाय गृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम:  । गन्धोदकस्नानं समर्पयामि । (मलयचन्दन और अगरुसे मिश्रित जल चढाये ।)

शुद्धोदक-स्नान-
शुद्धं यत्‍ सलिलं दिव्यं गड्गाजलसमं स्मृतम्‍ ।
समर्पितं मया भक्त्या स्नानार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये ।)
आचमन-
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

वस्त्र-
पट्टयुग्मं मया दत्तं कञ्चुकेन समन्वितम्‍ ।
परिधेहि कृपां कृत्वा मातर्दुर्गार्तिनाशिनि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । वस्त्रोपवस्त्रं कञ्चुकीयं च समर्पयामि । (धौतवस्त्र, उपवस्त्र और कञ्चुकी निवेदित करे ।)
वस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

सौभाग्यसूत्र-
सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुतम्‍ ।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । सौभाग्यसूत्रं समर्पयामि । (सौभाग्यसूत्र चढाये ।)

चन्दन-श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्‍ ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै नम: । चन्दनं समर्पयामि । (मलयचन्दन लगाये ।)

हरिद्राचूर्ण-
हरिद्रारञ्जिते देवि ! सुखसौभाग्यदायिनि ।
तस्मात्‍ त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । हरिद्रां समर्पयामि । (हल्दीका चूर्ण चढाये ।)

कुंकुम-
कुंकुमं कामदं दिव्यं कामिनीकामसम्भवम्‍ ।
कुंकुमेनार्चिता देवी कुंकुमं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । कुंकुमं समर्पयामि । (कुंकुम चढाये ।)

सिन्दूर-
सिन्दूरमरूणाभासं जपाकुसुमसंनिभम्‍ ।
अर्पितं ते मया भक्त्या प्रसीद परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । सिन्दूरं समर्पयामि । (सिन्दूर चढाये ।)

कज्जल (काजल)-
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम्‍ ।
कर्पूरज्योतिसमुत्पन्नं गृहाण परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै: नम: । कज्जलं समर्पयामि । (काजल चढाये ।)

दूर्वांकुर-
तृणकान्तमणिप्रख्यहरिताभि: सुजातिभि: ।
दूर्वाभिराभिर्भवतीं पूजयामि महेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । दूर्वांकुरान्‍ समर्पयामि । (दूब चढाये ।)

बिल्वपत्र-
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम्‍ ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । बिल्वपत्रं समर्पयामि । (बिल्वपत्र चढाये ।)

आभूषण-
हारकंकणकेयूरमेखलाकुण्डलादिभि:
रत्नाढयं हीरकोपेतं भूषणं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । आभूषणानि समर्पयामि । (आभूषण चढाये ।)

पुष्पमाला-
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तित: ।
मयाऽऽहतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । पुष्पमालां समर्पयामि । (पुष्पं एवं पुष्पमाला चढाये ।)

नानापरिमलद्रव्य-
अबीरं च गुलालं च हरिद्रादिसमन्वितम्‍ ।
नानापरिमलद्रव्यं गृहाण परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । नानापरिमलद्रव्याणि समर्पयामि । (अबीर, गुलाल, हल्दीका चूर्ण चढाये ।)

सौभाग्यपेटिका-
हरिद्रां कुड्कुमं चैव सिन्दूरादिसमन्विताम्‍ ।
सौभाग्यपेटिकामेतां गृहाण परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । सौभाग्यपेटिकां समर्पयामि । (सौभाग्यपेटिका समर्पण करे ।)

धूप-
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । धूपमाघ्रापयामि । (धूप दिखाये ।)

दीप-
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । दीपं दर्शयामि । (घीकी बत्ती दिखाये, हाथ धो ले ।)

नैवेद्य-
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारार्थं भक्ष्यभोज्यं नैवेद्यं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करे ।)
आचमनीय आदि-नैवेद्यान्ते ध्यानमाचमनीयं जलमुत्तरापोऽशनं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ॥
(आचमनीसे जल दे ।)

ऋतुफल-
इदं फलं मया देवि स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । ऋतुफलानि समर्पयामि । (ऋतुफल समर्पण करे ।)

ताम्बूल-
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्‍ ।
एलालवंगसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । ताम्बूलं समर्पयामि । (इलायची, लौंग, पूगीफलके साथ पान निवेदित करे ।)

दक्षिणा-
दक्षिणां हेमसंहिता यथाशक्तिसमर्पिताम्‍ ।
अनन्तफलदामेनां गृहाण परमेश्वरि ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । दक्षिणां समर्पयामि । (दक्षिणा चढाये ।)

आरती-
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्‍ ।
आरार्तिकमहं कुर्वे पश्य मां वरदा भव ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । कर्पूरारार्तिक्यं समर्पयामि । (कर्पूरकी आरती करे ।)

श्रीअम्बाजीकी आरती
जय अम्बे गौरी मैया जय श्यमागौरी ।
तुमको निशिदिन ध्यावत हरि ब्रह्मा शिव जी ॥१॥ जय अम्बे०
माँग सिंदूर विराजत टीको मृगमदको ।
उज्ज्वलसे दोउ नैना, चंद्रवदन नीको ॥२॥ जय अम्बे०
कनक समान कलेवर रक्तांबर राजै ।
रक्त-पुष्प गल माला कण्ठनपर साजै ॥३॥ जय अम्बे०
केहरि वाहन राजत, खड्ग खपर धारी ।
सुर-नर-मुनि-जन सेवत, तिनके दुखहारी ॥४॥ जय अम्बे०
कानन कुण्डल शोभित, नासाग्रे मोती ।
कोटिक चंद्र दिवाकर सम राजत ज्योती ॥५॥ जय अम्बे०
शुम्भ निशुम्भ विदारे, महिषासुर-घाती ।
धूम्रविलोचन नैना निशिदिन मदमाती ॥६॥ जय अम्बे०
चन्ड मुण्ड संहारे, शोणितबीज हरे ।
मधु-कैटभ दोउ मारे, सुर भयहीन करे ॥७॥ जय अम्बे०
ब्रह्माणी, रुद्राणी तुम कमला रानी ।
आगम-निगम बखानी, तुम शिव-पटरानी ॥८॥ जय अम्बे०
चौसठ योगिनि गावत, नृत्य करत भैरुँ ।
बाजत ताल मृदंगा औ बाजत डमरु ॥९॥ जय अम्बे०
तुम ही जगकी माता, तुम ही हो भरता ।
भक्तनकी दुख हरता सुख सम्पति करता ॥१०॥ जय अम्बे०
भुजा चार अति शोभित, वर-मुद्रा धारी ।
मनवाञ्छित फल पावत सेवत नर-नारी ॥११॥ जय अम्बे०
कंचन थाल विराजत अगर कपुर बाती ।
(श्री) मालकेतुमें राजत कोटिरतन ज्योती ॥१२॥ जय अम्बे०
(श्री) अम्बेजीकी आरति जो कोइ नर गावै ।
कहत शिवानँद स्वामी, सुख सम्पति पावै ॥१३॥ जय अम्बे०

प्रदक्षिणा-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । प्रदक्षिणां समर्पयामि । (प्रदक्षिणा करे ।)

मन्त्रपुष्पाञ्जलि-
श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पित: ।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम्‍ ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । मन्त्रपुष्पाञ्जलिं समर्पयामि । (पुष्पाञ्जलि समर्पित करे ।)

नमस्कार-
या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । नमस्कारान्‍ समर्पयामि । (नमस्कार करे, इसके बाद चरणोदक सिरपर चढाये ।)

क्षमा-याचना-
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥
श्रीजगदम्बायै दुर्गादेव्यै नम: । क्षमायाचनां समर्पयामि । (क्षमा-याचना करे ।)

अर्पण-
ॐ तत्सद्‍ ब्रह्मार्पणमस्तु ।
विष्णवे नम:, विष्णवे नम:, विष्णवे नम: ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP