संस्कृत सूची|संस्कृत साहित्य|काव्यालङ्कारः| चतुर्थः परिच्छेदः काव्यालङ्कारः प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः काव्यालङ्कारः - चतुर्थः परिच्छेदः काव्यालङ्कारः Tags : poemsanskritकाव्यसंस्कृत काव्यालङ्कारः Translation - भाषांतर अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ॥१॥देशकालकलालोक- न्यायागमविरोधि च ।प्रतिज्ञाहेतुदृष्टान्त- हीनं दुष्टं च नेष्यते ॥२॥अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः ।अर्थवान्वर्णसंघातः सुप्तिङन्तं पदं पुनः ॥३॥पदानामेव संघातः सापेक्षाणां परस्परम् ।निराकाङ्क्षं च तद्वाक्यं एकवस्तुनिबन्धनम् ॥४॥क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते ।बुद्धौ तु सम्भवत्येतदन्यत्वेऽपि प्रतिक्षणम् ॥५॥धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः ।वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥६॥अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥७॥समुदायार्थशून्यं यत्तदपार्थकमिष्यते ।दाडिमानि दशापूपाः षडित्यादि यथोदितम् ॥८॥विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते ।पूर्वापरार्थव्याघातात्विपर्ययकरं यथा ॥९॥सखि मानं प्रिये धेहि लघुतामस्य मा गमः ।भर्तुश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥१०॥उपासितगुरुत्वात्त्वं विजितेन्द्रयशत्रुषु ।श्रेयसो विनयाधानं अधुनातिष्ठ केवलम् ॥११॥यदभिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते ।पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ॥१२॥न शब्दपुनरुक्तं तु स्थौल्यादत्रोपवर्ण्यते ।कथमाक्षिप्तचित्तः सन्नुक्तमेवाभिधास्यते ॥१३॥भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।यथाह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ॥१४॥अत्रार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते ।उक्तस्य पुनराख्याने कार्यासम्भवतो यथा ॥१५॥तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम् ।सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ॥१६॥श्रुतेः सामान्यधर्माणां विशेषस्यानुदाहृतेः ।अप्रतिष्ठं यदत्रेति तज्ज्ञानं संशयं विदुः ॥१७॥ससंशयमिति प्राहुस्ततस्तज्जननं वचः ।इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ॥१८॥व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥१९॥यथोपदेशं क्रमशो निर्देशोऽत्र क्रमो मतः ।तदपेतं विपर्यासादित्याख्यातमपक्रमम् ॥२०॥विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी ।रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ॥२१॥सूत्रकृत्पादकारेष्ट- प्रयोगाद्योऽन्यथा भवेत् ।तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ॥२२॥स्फुरत्तडिद्वलयिनो वितताम्भोगरीयसः ।तेजस्तिरयतः सौरं घनान्पश्य दिवोऽभितः ॥२३॥यतिश्छन्दोऽधिरूढानां शब्दानां या विचारणा ।तदपेतं यतिभ्रष्टं इति निर्दिश्यते यथा ॥२४॥विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ॥२५॥गुरोर्लघोश्च वर्णस्य योऽस्थाने रचनाविधिः ।तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ॥२५॥भ्रमति भ्रमरमाला काननेषून्मदासौ ।विरहितरमणीकोऽर्हस्यद्य गन्तुम् ॥२६॥कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी ।पातां वः शम्भुशर्वाण्याविति प्राहुर्विसन्ध्यदः ॥२७॥या देशे द्रव्यसम्भूतिरपि वा नोपदिश्यते ।तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ॥२८॥मलये कन्दरोपान्त- रूढकालागुरुद्रुमे ।सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ॥२९॥षण्णामृतूनां भेदेन कालः षोढेव भिद्यते ।तद्विरोधकृदित्याहुर्विपर्यासादिदं यथा ॥३०॥उदूढशिशिरासारान्प्रावृषेण्यान्नभस्वतः ।फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥३१॥कला सङ्कलना प्रज्ञा शिल्पान्यस्याश्च गोचरः ।विपर्यस्तं तथैवाहुस्तद्विरोधकरं यथा ॥३२॥ऋषभात्पञ्चमस्तस्मात्सषड्जं धैवतं स्मृतम् ।अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥३३॥इति साधारितं मोहादन्यथैवावगच्छति ।अन्यस्वपि कलास्वेवं अभिधेया विरोधिता ॥३४॥स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः ।स च तद्व्यवहारोऽत्र तद्विरोधकरं यथा ॥३५॥तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥३६॥धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् ।चकार जानुदध्नापान्प्रतिदिङ्मुखमध्वनः ॥३७॥न्यायः शास्त्रं त्रिवर्गोक्तिर्दण्डनीतिं च तां विदुः ।अतो न्यायविरोधीष्टं अपेतं यत्तया यथा ॥३८॥विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥३९॥अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् ।तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥४०॥यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥४१॥शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः ।मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥४२॥हतोऽनेन मम भ्राता मम पुत्रः पिता मम ।मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥४३॥अस्यन्तो विविधान्याजावायुधान्यपराधिनम् ।एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥४४॥नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् ।शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ॥४५॥सचेतसो वनेभस्य चर्मणा निर्मितस्य च ।विशेषं वेद बालोऽपि कष्टं किं नु कथं नु तत् ॥४६॥आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता ।तद्विरोधि तदाचार- व्यतिक्रमणतो यथा ॥४७॥भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम् ।अलंकरिष्णुना वंशं गुरौ सति जिगीषुणा ॥४८॥अभार्योढेन संस्कारं अन्तरेण द्विजन्मना ।नरवाहनदत्तेन वेश्यावान्निशि पीडितः ॥४९॥न दूषणायामुदाहृतो विधिर्न चाभिमानेन किमु प्रतीतये ।कृतात्मनां तत्त्वदृशां च मादृशो जनोऽभिसन्धिं क इवावभोत्स्यते ॥५०॥इति भामहालङ्कारे चतुर्थः परिच्छेदः N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP