संस्कृत सूची|संस्कृत साहित्य|काव्यालङ्कारः| प्रथमः परिच्छेदः काव्यालङ्कारः प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः काव्यालङ्कारः - प्रथमः परिच्छेदः काव्यालङ्कारः Tags : poemsanskritकाव्यसंस्कृत प्रथमः परिच्छेदः Translation - भाषांतर प्रणम्य सार्वं सर्वज्ञं मनोवाक्कायकर्मभिः ।काव्यालंकार इत्येष यथाबुद्धि विधास्यते ॥१॥धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ॥२॥अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् ।अज्ञस्येव प्रगल्भत्वं अकवेः शास्त्रवेदनम् ॥३॥विनयेन विना का श्रीः का निशा शशिना विना ।रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥४॥गुरूपदेशादध्येतुम् शास्त्रं जडधियोऽप्यलम् ।काव्यं तु जायते जातु कस्यचित्प्रतिभावतः ॥५॥उपेयुषामपि दिवं सन्निबन्धविधायिनाम् ।आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥६॥रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी ।तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥७॥अतोऽभिवाञ्छता कीर्तिं स्थेयसीमाभुवः स्थितेः ।यत्नो विदितवेद्येन विधेयः काव्यलक्षणः ॥८॥शब्दश्छन्दोऽभिधानार्था इतिहासाश्रयाः कथाः ।लोको युक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः ॥९॥शब्दाभिधेये विज्ञाय कृत्वा तद्विदुपासनम् ।विलोक्यान्यनिबन्धांश्च कार्यः काव्यक्रियादरः ॥१०॥सर्वथा पदमप्येकं न निगाद्यमवद्यवत् ।विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ॥११॥नाकवित्वमधर्माय व्याधये दण्डनाय वा ।कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥१२॥रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः ।न कान्तमपि निर्भूषं विभाति वनितामुखम् ॥१३॥रूपकादिमलंकारं बाह्यमाचक्षते परे ।सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥१४॥तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।शब्दाभिधेयालंकार- भेदादिष्टं द्वयं तु नः ॥१५॥शब्दार्थौ सहितौ काव्यं गद्यं पद्यं च तद्द्विधा ।संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा ॥१६॥वृत्तदेवादिचरित- शंसि चोत्पाद्यवस्तु च ।कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ॥१७॥सर्गबन्धोऽभिनेयार्थं तथैवाख्यायिकाकथे ।अनिबद्धं च काव्यादि तत्पुनः पञ्चधोच्यते ॥१८॥सर्गबन्धो महाकाव्यं महतां च महच्च यत् ।अग्राम्यशब्दमर्थ्यं च सालंकारं सदाश्रयम् ॥१९॥मन्त्रदूतप्रयाणाजि- नायकाभ्युदयैश्च यत् ।पञ्चभिः सन्धिभिर्युक्तं नातिव्याख्येयमृद्धिमत् ॥२०॥चतुर्वर्गाभिधानेऽपि भूयसार्थोपदेशकृत् ।युक्तं लोकस्वभावेन रसैश्च सकलैः पृथक् ॥२१॥नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः ।न तस्यैव वधं ब्रूयादन्योत्कर्षाभिधित्सया ॥२२॥यदि काव्यशरीरस्य न स व्यापितयेष्यते ।न चाभ्युदयभाक्तस्य मुधादौ ग्रहणस्तवौ ॥२३॥नाटकं द्विपदीशम्या- रासकस्कन्धकादि यत् ।उक्तं तदभिनेयार्थं उक्तोऽन्यैस्तस्य विस्तरः ॥२४॥संस्कृतानाकुलश्रव्य- शब्दार्थपदवृत्तिना ।गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ॥२५॥वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम् ।वक्त्रं चापरवक्त्रं च काले भाव्यार्थशंसि च ॥२६॥कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्किता ।कन्याहरणसंग्राम- विप्रलम्भोदयान्विता ॥२७॥न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छासवत्यपि ।संस्कृतासंस्कृता चेष्टा कथापभ्रंशभाक्तथा ॥२८॥अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते ।स्वगुणाविष्कृतिं कुर्यादभिजातः कथं जनः ॥२९॥अनिबद्धं पुनर्गाथा- श्लोकमात्रादि तत्पुनः ।युक्तं वक्रस्वभावोक्त्या सर्वमेवैतदिष्यते ॥३०॥वैदर्भमन्यदस्तीति मन्यन्ते सुधियोऽपरे ।तदेव च किल ज्यायः सदर्थमपि नापरम् ॥३१॥गौडीयमिदमेतत्तु वैदर्भमिति किं पृथक् ।गतानुगतिकन्यायान्नानाख्येयममेधसाम् ॥३२॥ननु चाश्मकवंशादि वैदर्भमिति कथ्यते ।कामं तथास्तु प्रायेण संज्ञेच्छातो विधीयते ॥३३॥अपुष्टार्थमवक्त्रोक्ति प्रसन्नमृजु कोमलम् ।भिन्नं गेयमिवेदं तु केवलं श्रुतिपेशलम् ॥३४॥अलंकारवदग्राम्यं अर्थ्यं न्याय्यमनाकुलम् ।गौडीयमपि साधीयो वैदर्भमिति नान्यथा ॥३५॥न नितान्तादिमात्रेण जायते चारुता गिराम् ।वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः ॥३६॥नेयार्थं क्लिष्टमन्यार्थं अवाचकमयुक्तिमत् ।गूढशब्दाभिधानं च कवयो न प्रयुञ्जते ॥३७॥नेयार्थं नीयते युक्तो यस्यार्थः कृतिभिर्बलात् ।शब्दन्यायानुपारूढः कथंचित्स्वाभिसन्धिना ॥३८॥मायेव भद्रेति यथा सा चासाध्वी प्रकल्पना ।वेणुदाकेरिति च तां नयन्ति वचनाद्विना ॥३९॥क्लिष्टं व्यवहितं विद्यादन्यार्थं विगमे यथा ।विजह्रुस्तस्य ताः शोकं क्रीडायां विकृतं च तत् ॥४०॥हिमापहामित्रधरैर्व्याप्तं व्योमेत्यवाचकम् ।साक्षादरूढं वाच्येऽर्थे नाभिधानं प्रतीयते ॥४१॥अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः ।तथा भ्रमरहारीत- चक्रवाकशुकादयः ॥४२॥अवाचोऽव्यक्तवाचश्च दूरदेशविचारिणः ।कथं दूत्यं प्रपद्येरन्निति युक्त्या न युज्यते ॥४३॥यदि चोत्कण्ठया यत्तदुन्मत्त इव भाषते ।तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥४४॥गूढशब्दाभिधानं च न प्रयोज्यं कथंचन ।सुधियामपि नैवेदं उपकाराय कल्पते ॥४५॥असितर्तितुगद्रिच्छित्स्वःक्षितां पतिरद्विदृक् ।अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः ॥४६॥श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि ।श्रुतिकष्टं तथैवाहुर्वाचं दोषं चतुर्विधम् ॥४७॥विड्वर्चोविष्ठितक्लिन्नच्- छिन्नवान्तप्रवृत्तयः ।प्रचारधर्षितोद्गार- विसर्गहदयन्त्रिताः ॥४८॥हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः ।वाक्काटवादयश्चेति श्रुतिदुष्टा मता गिरः ॥४९॥अर्थदुष्टं पुनर्ज्ञेयं यत्रोक्ते जायते मतिः ।असभ्यवस्तुविषया शब्दैस्तद्वाचिभिर्यथा ॥५०॥हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ॥५१॥पदद्वयस्य सन्धाने यदनिष्टं प्रकल्पते ।तदाहुः कल्पनादुष्टं स शौर्याभरणो यथा ॥५२॥यथा.अजिह्लददित्यादि श्रुतिकष्टं च तद्विदुः ।न तदिच्छन्ति कृतिनो गण्डमप्यपरे किल ॥५३॥सन्निवेशविशेषात्तु दुरुक्तमपि शोभते ।नीलं पलाशमाबद्धं अन्तराले स्रजामिव ॥५४॥किंचिदाश्रयसौन्दर्याद्धत्ते शोभामसाध्वपि ।कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ॥५५॥आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे ।संगमात्पाण्डुशब्दस्य गण्डः साधु यथोदितम् ॥५६॥अनयान्यदपि ज्ञेयं दिशा युक्तमसाध्वपि ।यथा विक्लिन्नगण्डानां करिणां मदवारिभिः ॥५७॥मदक्लिन्नकपोलानां द्विरदानां चतुःशती ।यथा तद्वदसाधीयः साधीयश्च प्रयोजयेत् ॥५८॥एतद्ग्राह्यं सुरभि कुसुमं ग्राम्यं एतन्निधेयं धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य ।मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम् ॥५९॥इति भामहालङ्कारे प्रथमः परिच्छेदः N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP