संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|श्रीहरिवंशमाहात्म्यम्| द्वितीयोऽध्यायः श्रीहरिवंशमाहात्म्यम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः श्रीहरिवंशमाहात्म्यम् - द्वितीयोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वितीयोऽध्यायः Translation - भाषांतर (१) हरिवंशश्रवणस्य विधिः फलं चवैशम्पायन उवाचअथ ते सम्प्रवक्ष्यामि नवाहश्रवणे विधिम् ।सहायैर्बहुभिश्चैव प्रायः साध्यो विधिस्त्वयम् ॥१॥दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः ।विवाहे यादृशं वित्तं तादृशं परिकल्प्य च ॥२॥नभस्यश्चाश्विनोर्जौ च मार्गशीर्षः शुचिर्नभः ।एते मासाः कथारम्भे श्रोतॄणां कामसूचकाः ॥३॥सहायाश्च त एवात्र कर्तव्याः सोद्यमाश्च ये ।देशे देशे तथा सेयं वार्ता प्रोच्या प्रयत्नतः ॥४॥भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ।देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ॥५॥तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम् ।सतां समाजो भविता नवरात्रं सुदुर्लभः ॥६॥आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत् ।तीर्थे वापि वने वापि गृहे वा श्रवणं स्मृतम् ॥७॥विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम् ।शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ॥८॥गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ।कर्तव्यो मण्डपः प्रोच्चैः कदलीस्तम्भमण्डितः ॥९॥फलपुष्पदलैर्विष्वग्वितानेन विराजितः ।चतुर्दिक्षु ध्वजारोपस्तोरणेन विराजितः ॥१०॥ऊर्ध्वं सप्तैव लोकाश्च सप्ताधः परिकल्पयेत् ।तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य वै ॥११॥पूर्वं तेषामासनानि कर्तव्यानि यथोत्तरम् ।वक्तुश्चापि तथा दिव्यमासनं परिकल्पयेत् ॥१२॥उदङ्मुखो भवेद् वक्ता श्रोता वै प्राङ्मुखस्तथा ।प्राङ्मुखोऽथ भवेद् वक्ता श्रोता चोदङमुखस्तथा ॥१३॥विरक्तो वैष्णवो विप्रो वेदशास्त्रविशारदः ।दृष्टान्तकुशलो धीरो वक्ता कार्यो दयान्वितः ॥१४॥वेदवेदान्ततत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ।नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते ॥१५॥अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः ।नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी ॥१६॥अनेकधर्मविभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।धर्मशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः ॥१७॥वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः ।पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥१८॥वक्त्रा क्षौरं प्रकर्तव्यं दिनादर्वाग् व्रताप्तये ।वक्तुः श्रोतुश्चन्द्रशुद्धौ दम्पत्योः शुभतारके ॥१९॥अरुणोदये विनिर्वर्त्य शौचं स्नानं समाचरेत् ।नित्यं संक्षेपतः कृत्वा संध्याद्यं प्रयतस्ततः ॥२०॥सुक्षालितपाणिपादः स्वस्तिवाचनपूर्वकम् ।गोमयोपलिप्तदेशे सर्वतोभद्रकल्पनम् ॥२१॥स्वीयशक्त्यनुसारेण पूजनं सर्वमाचरेत् ।कथाविघ्नविनाशाय गणनाथं प्रपूजयेत् ॥२२॥सलक्ष्मीपुत्रसहितं गोपालं स्थापयेत् ततः ।निर्विघ्नेनैव सिद्ध्यर्थं देवपूजनपूर्वकम् ॥२३॥संकल्पं कुर्यात्-अद्येहेत्यादिदेशकालौ स्मृत्वा अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः सपत्नीकस्य मम जन्मनि जन्मनि संचितमहापातकपटलनाशपूर्वकं तेन पापसंचयेन कृतसंतानबाधकताविनाशपूर्वकमिह जन्मनि संतानोत्पत्तिहेतवे तस्य संतानस्य शरदां शतमायुषो वृद्ध्यर्थमात्मनश्च सकलसुखाप्तिहेतवे इह शरीरशुद्धयर्थं परत्र चेन्द्रादिलोकातिक्रमणपूर्वकश्रीमद्विष्णुभक्त्युद्रेकजनितकल्पावधितल्लोकगमन तत्र वासपूर्वक तत्स्वरूपावाप्तिहेतवे आवां दम्पती श्रीमद्धरिवंशपुराणश्रवणं कर्तृकतया करिष्यावहे ।अन्यतरकर्तृत्वे करिष्ये इत्येव संकल्पः ।इति कृत्वा तु संकल्पं वक्तारं वृणुयात्ततः ।श्रुताध्ययनसम्पन्नं पूजयित्वा यथाविधि ॥२४॥सुवर्णमुद्रिकां गृह्य कुण्डले च विशेषतः ।धौतवस्त्रं सोत्तरीयं चोष्णीषेण समन्वितम् ॥२५॥सुवर्णषोडशपलं पुष्पताम्बूलसंयुतम् ।पूगीफलं चाक्षतान् वै गृहीत्वा शुद्धमानसः ॥२६॥संकल्पः –अद्येहेत्यादि अमुकगोत्रममुकशर्माणं ब्राह्मणमेभिश्चन्दनताम्बूलसुवर्णवस्त्रादिभिर्हरिवंशश्रवणे वाचकत्वेनावां दम्पती त्वां वृणीवहे ।वृतोऽस्मीति तेनोक्ते-व्रतेन दीक्षामाप्नोति इति मन्त्रेण वक्तुर्दक्षिणकरमूले रक्षाबन्धनं कार्यम् ।ब्राह्मणेन श्रोतॄणां रक्षाबन्धनं कार्यम् ।( ३) यजमानःव्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् ।दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥चन्दनाद्युपचारैस्तु वस्त्रपुष्पाक्षतैस्तथा ।हेमालंकरणैः पूगैः फलैर्ऋतुसमुद्भवैः ॥२७॥पुराणपूजनं प्रोक्तं विधिना षोडशेन तु ।पूजयित्वा द्विजश्रेष्ठाञ्श्रवणं फलदं स्मृतम् ॥२८॥तस्मात् सर्वप्रयत्नेन श्रोतव्यं विधिपूर्वकम् ।अथ व्यासं नमस्कुर्युर्मन्त्रमेतमुदीरयेत् ॥२९॥नमस्ते भगवन् व्यास सर्वशास्त्रार्थकोविद ।ब्रह्मविष्णुमहेशानमूर्ते सत्यवतीसुत ॥३०॥इति व्यासं नमस्कृत्य शुभदेशे कुशासने ।उपविश्य प्रतिदिनमुल्लसत्प्रीतमानसः ॥३१॥बालो युवाथ वृद्धो वा दरिद्रो दुर्बलोऽपि वा ।पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ॥३२॥नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥३३॥गुरवः सन्ति लोकस्य जन्मतो गुणतश्च ये ।तेषामपि च सर्वेषां पुराणज्ञः परो गुरुः ॥३४॥भवकोटिसहस्रेषु भूत्वा भूत्वा च सीदते ।यो ददाति पुण्यवृत्तिं कोऽन्यस्तस्मात्परो गुरुः ॥३५॥पुराणज्ञः शुचिर्दान्तः शान्तोऽपि जितमत्सरः ।साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथां सुधीः ॥३६॥व्यासासनसमारूढो यदा पौराणिको द्विजः ।आ समाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित् ॥३७॥ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः ।तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ॥३८॥न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।देशे नापूतसदने वदेत् पुण्यकथां सुधीः ॥३९॥सद्ग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ।पुण्ये नदनदीतरे वदेत् पुण्यकथां सुधीः ॥४०॥ईदृशाद् वाचकाद् राजञ्छ्रुत्वा फलमवाप्नुयात् ।ऐहिकामुष्मिकं शर्म पुण्यं पुत्रादिसिद्धिदम् ॥४१॥महापापादिशमनं पुराणं हरिवंशकम् ।योज्यं पुत्रादिसिद्ध्यर्थं हरिवंशं जितेन्द्रियैः ॥४२॥शृणुयात् सर्वभावेन पुण्यं पापप्रणाशनम् ॥४३॥इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP