श्रीहरिवंशमाहात्म्यम् - प्रथमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


हरिवंशश्रवणस्य माहात्म्यं, नार्याः पंच दोषाणि, हरिवंशश्रवणेन तेषां निवृत्तिः, पाठस्य उत्तम, मध्यमादि भेदाः, गोव्रतस्य विधिः

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति ॥२॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत् पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥४॥
जनमेजय उवाच
त्वया मे भगवन् प्रोक्तो भारतश्रवणे विधिः ।
श्रवणे हरिवंशस्य विशेषाद् वद मे विधिम् ॥५॥
वैशम्पायन उवाच
ब्रह्मविष्णुमहेशानां हरिवंशं जगुर्वपुः ।
शब्दब्रह्ममयं विद्धि हरिवंशं सनातनम् ॥६॥
शाब्दे ब्रह्मणि निष्णातः परब्रह्माधिगच्छति ।
हरिवंशपुराणे तु श्रुते वै राजसत्तम ॥७॥
कायिकं वाचिकं पापं मनसा समुपार्जितम् ।
तत् सर्वं नाशमायाति तमः सूर्योदये यथा ॥८॥
अष्टादशपुराणानां श्रवणाद् यत् फलं लभेत् ।
तत् फलं समवाप्नोति वैष्णवो नात्र संशयः ॥९॥
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः ।
जम्बूद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ ॥१०॥
भविष्यन्ति नरा राजन् सत्यंसत्यं वदाम्यहम् ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥११॥
बालघाती च पुरुषो मृतवत्सः प्रजायते ।
श्रवणं हरिवंशस्य कर्तव्यं च यथाविधि ॥१२॥
गुरुचन्द्राग्निसूर्याणां सम्मुखे मेहते च यः ।
बीजमु्सृज्यते तेन त्यक्तरेता नरो भवेत् ॥१३॥
योषित्पुष्पफलानां च बालानां घातिनी तथा ।
फलानां कर्तनकरी मातापितृवियोगिनी ॥१४॥
स्राविणी परगर्भाणां तत् तत् प्रायोपजोषिणी ।
ईदृग्विधा भविष्यन्ति पञ्चदोषयुताः स्त्रियः ॥१५॥
अपुष्पा मृतवत्साश्च काकवन्ध्यास्तथैव च ।
कन्याप्रजात्वं च तथा स्रावयुक्ताः स्वपातकैः ॥१६॥
तासां दोषापहारार्थं हरिवंशोऽभिगर्जति ।
मदीयश्रवणात्सद्यो दोषा नश्यन्ति सत्वरम् ॥१७॥
नरः सुवर्णं सर्पिश्च पददानैः समन्वितम् ।
दशावृत्तीः शृणोत्येवं बीजसाफल्यमाप्नुयात् ॥१८॥
दशावृत्तीरपुष्पार्थं मृतवत्सा तु सप्त वै ।
पञ्चावृत्तीः स्रवद्गर्भा काकवन्ध्या त्रयं तथा ॥१९॥
कन्याप्रसूश्चैकावृत्तिं श्रुत्वा पुत्रमवाप्नुयात् ।
जीवितावधिकं श्राव्यं सर्वदोषोपशान्तये ॥२०॥
भविष्यं जन्मसम्प्राप्य न भवेत् तादृशी पुनः ।
उत्तमं सार्थपाठं च मध्यमं च निरर्थकम् ॥२१॥
विनार्थं शुद्धपाठश्चेदुत्तमेन समो भवेत् ।
नवाहमुत्तमं प्रोक्तमेकविंशाह मध्यमम् ॥२२॥
निकृष्टमेकत्रिंशाहं सुखसाध्यं समाचरेत् ।
बहुभिर्दिवसै राजन् साध्यानां साधनं कलौ ॥२३॥
तेन पारायणं साध्यं प्रोक्तं नारायणात्मना ।
नवाहो गर्जति कलौ चैकविंशाहिकस्तथा ॥२४॥
एकत्रिंशाहिको यज्ञो वन्ध्यादोषविनाशकः ।
गोव्रतं तु स्त्रिया कार्यं पारणं पुरुषेण च ॥२५॥
श्रवणारम्भणे राजन् यथावत् कथयामि ते ।
अवसायान्तपर्यन्तं कार्यं मासव्रतं शुभम् ॥२६॥
चतुर्थ्यां प्रातरुत्थाय स्त्रिया हृष्टेन चेतसा ।
गोव्रतं नियतं कार्यं निराहारं निरूदकम् ॥२७॥
सृर्यास्तकालपर्यन्तं यावद्ग्रामागमो भवेत् ।
आगतां च सवत्सां हि पूजयित्वा यथाविधि ॥२८॥
यवसं पुष्कलं दत्त्वा यवान्नं कुरुते स्वयम् ।
एवं मासे चतुर्थ्यां सा शुक्लायां व्रतमाचरेत् ॥२९॥
स्त्रीव्रतं कथितं राजन् पुरुषस्य तथैव च ।
एवं मासव्रतं कृत्वा सुपुत्रं लभते ध्रुवम् ॥३०॥
इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम प्रथमोऽध्यायः॥१॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP