संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|महाभिशेको नाम सप्तदशो लम्बकः| महाभिशेको नाम महाभिशेको नाम सप्तदशो लम्बकः महाभिशेको नाम महाभिशेको नाम क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत महाभिशेको नाम Translation - भाषांतर नवकुचकाञ्चनकलशाः श्रोणीसिंहासनाः सितच्छत्राः । अभिषेकाय तरुण्यो यस्य स मकरध्वजो जयति ॥१॥अथ विद्याधरोऽभ्येत्य प्रतीहारेण सूचितः । व्यजिज्ञपत्सभासीनम प्रणम्य नरवाहनम् ॥२॥अपि स्मरसि मे देव संप्राप्य विजयश्रियम् । न दृश्यते स्थितः पश्चात्सदीपैरिव पार्थिवैः ॥३॥यदा त्व गौरीमुण्डेन पातितोऽग्निगिरेस्तटे ।पुरा मया तदा देव रक्षितोऽसि हराज्ञया ॥४॥दूरपातमहामूर्च्छामदसंस्कारसंविदा । मन्ये मां नाभिजानासि चिरवृद्ध इवाग्रगम् ॥५॥पुराकृतावलम्बोऽपि हृदि प्रत्यग्रसंभ्रमे । अपराध इवार्यस्य मन्येऽहं विस्मृतोऽद्य ते ॥६॥अमृतप्रभनामाहं प्रपन्नस्तव शासनम् । वामदेवेन मुनिना प्रेषितो भगदन्तिकम् ॥७॥मुनिस्त्वामाह रत्नानि गृहाणाभ्येत्य मद्गिरा ।चक्रवर्तिश्रिये देव तूर्णमित्युत्तमप्रियः ॥८॥इति विद्याधरवचो निशम्य नरवाहनः । तं परिज्ञाय नभसा वामदेवाश्रमं ययौ ॥९॥तं प्रणम्य मुनिं तत्र तदादिष्टो गुहान्तरात् । सोऽद्य विघन्घनोत्पातं राज्यप्रसवभूतये ॥१०॥ध्वजं छत्रं सुधाबिम्बं खङ्गांश्च रथकुञ्जरान् । दन्डरत्नं च संप्राप्य स निजं कटकं ययौ ॥११॥अथ श्रीमान्प्रशस्तेऽह्नि विमानं सचिवैः सह । प्रियाभिश्च समारुह्य जययात्रां दिदेश सः ॥१२॥ततो विद्याधरानीकसंछादितनभस्तलः । जेतुं मन्दरदेवं स त्रिनेत्राद्रितटे ययौ ॥१३॥तत्र सेना बभौ तस्य स्फटिकप्रतिबिम्बिता । पूरितेव निजानीकैः सेवायै गर्भभूभृता ॥१४॥तत्र गीर्वाणतटिनीतीरविश्रान्तसैनिकः ।विजहार मृगाक्षीभिः पारिजातलतावने ॥१५॥ पुष्पेषुरुदितः कोऽयमस्य शस्त्रैः समुद्यमः । इति ताः स्पृहया वीक्ष्य जगदुर्गुह्यकाङ्गनाः ॥१६॥ततस्तं प्रस्थितं जेतुं वायुवेगः कृताञ्जलिः ।व्यजिज्ञपदितो देव न पन्थाश्चक्रवर्तिनाम् ॥१७॥इहास्ते त्रिपुरारातिः सदा संणिहितो हरः । विभूतयः सुरेन्द्राणां यत्प्रसादात्सविप्रुषः ॥१८॥तमुल्लङ्घ्य विरूपाक्षं व्योम्नि यो याति मोहितः । पतति भ्रष्टविद्योऽसौ क्षीणपुण्य इव ग्रहः ॥१९॥शंकरेणैव विहिता गुहेयं चक्रवर्तिना । गिरिं विदार्य शूलेन स ते मार्गः शिवप्रदः ॥२०॥इति विद्याधरपतिः सचिवानां च भाषितम् । श्रुत्वा प्रणम्य चण्डीशं गुहारन्ध्रेण निर्ययौ ॥२१॥त्र्यम्बकेन धृतां तत्र कालरात्रिं प्रणम्य सः । पुरं मन्दरदेवस्य प्रतस्थे विजयोत्सुकः ॥२२॥देवमायं महाकालं जित्वा विद्याधरेश्वरम् ।तन्महावाहिनीपूर्णसेनाब्धिः प्रबभौ विभुः ॥२३॥ततोऽदृश्यत संरब्धो विद्याधरबलाग्रजः । प्रलयाम्बुधरध्वानधीरः सपदि मन्दरः ॥२४॥अथ युद्धमभूद्धोरं विद्याधरधराभुजाम् ।मौलिरत्नविनिष्पाति खङ्गज्वालाजटोत्कटम् ॥२५॥तद्रक्ततटिनीसिक्तफुल्लाशोकवनच्छविः । पद्मरागाचलः क्षिप्रं बभूव स्फटिकाचलः ॥२६॥ततो धनवतीविद्यामोहिते वाहिनीद्वये । स्वयं मन्दरदेवस्य पुरोऽभून्नरवाहनः ॥२७॥चतुर्विद्याधरपतौ (सायकास्तीक्ष्णपक्ष्मणः । नरवाहननामाङ्काः कटाक्षाः समरश्रियः ॥२८॥ततो मन्दरदेवस्य ) विद्याभिरभिपूरितम् । बभूव वक्त्रं कल्पान्तहुतभुग्भीमविभ्रम म् ॥२९॥नरवाहनदत्तोऽथ केशपाशमिव श्रियः । खङ्गमाकृष्य जग्राह तमुभ्द्रान्तशिरोरुहम् ॥३०॥तरं खङ्गसंपातमन्त्रान्तरितजीवितम् । दृष्ट्वा मन्दरदेवीति नरवाहनमभ्यधात् ॥३१॥भो भो प्रतापचण्डांशो कीर्तिज्योत्स्नासुधाकर । नरवाहनदत्त त्वं त्रातुमर्हसि मेऽग्रजम् ॥३२॥इति तस्या वशः श्रुत्वा तं तत्याज नृपात्मजः ।सन्तः प्रणयभङ्गेषु भीतानां नहि शिक्षिताः ॥३३॥स्वस्रा मन्दरदेवोऽथ मोचितो लज्जया नतः । ययौ तपोवनं मानी मुनेः स्वपितुराश्रम म् ॥३४॥विपत्सु च कुलीनानां वियोगेषु च धीमताम् । पराजये च शूराणां वृत्तिरेका तपोवनम् ॥३५॥ततो धनवतीध्यानादुत्थिते रक्षिते बले । नरवाहनदत्तस्य जजृम्भे जयडिण्डिमः ॥३६॥जम्भारिविजयोद्युक्तं तं समभ्येत्य नारदः । त्रिदशैर्नास्ति वो वैरमित्युक्त्वा विमुखं व्यधात् ॥३७॥अभिषिच्यामितगतिं कैलासे गुलिताभृतम् । कान्तां मन्दरदेवीं तां पित्रा दत्तामवाप्तवान् ॥३८॥यन्मुखेनेक्षणच्छायाशबलेनाभवन्नभः । नीलोत्पलदलालोलहेमाब्जेनेव भूषितम् ॥३९॥दत्तामकल्पनाख्येन पित्रा तां प्राप्य सुन्दरीम् ।तद्वयस्याश्चतस्रोऽन्याः प्रापैकोद्वाहनिश्चयाः ॥४०॥ततः प्रणम्य श्रीकण्ठं प्रयातो वीक्ष्य शूलिनम् । ऋषभस्य गिरेः श्रृङमभिशेकश्रिये ययौ ॥४१॥ तत्र विद्याविकल्पोत्था दिव्याभिप्रायशालिनी । राजधानी बभूवास्य रत्नप्राकारतोरणा ॥४२॥अथाययुः समुद्रेभ्यो रत्नकुम्भैः सुलोचनाः ।हेमकुम्भोपमकुचा गृहीत्वाप्सरसो जलम् ॥४३॥ततो वायुपथाहूतस्तं विद्याभिर्विहायसा । सामात्यः सह देवीभ्यामाययौ वत्सभूपतिः ॥४४॥यत्नात्पित्राभ्यनुज्ञातः कथंचिद्विनताननः ।रत्नसिंहासनं भेजे भूषितो नरवाहनः ॥४५॥रोहणाद्रेरिवोत्सङ्गं नानारत्नविभूषितम् । स बभार महामौलिं क्रीडाशैलमिव श्रियः ॥४६॥अथाभिशेकपुण्याहे विस्तीर्णे मङ्गलोदके । आसनार्धं प्रभोर्भेजे देवी मदनमञ्चुका ॥४७॥ रतिरस्य स्मृतिभुवो दयितेयमयोनिजा । कान्ताः श्रुत्वेति नभसो नावमानं ययुः पराः ॥४८॥ततः कुण्डलिनः शूरा मौलिपिञ्जरिताम्बराः । तस्य विद्याधराधीशाः प्रणता विविशुः सभाम् ॥४९॥ मणिकुट्टिमसंप्राप्तप्रांशुरश्मिभृताम्बराः । त्रैलोक्यमिव रुन्धानास्ते बभुर्गुलिकाधराः ॥५०॥प्रबलश्रियमालोक्य सुतं वत्सनरेश्वरः । ब्रह्माण्डं संकटं मेने हर्षसंपूर्णमानसः ॥५१॥देवी वासवदत्तापि शच्या पुत्रश्रिया पदम् । प्राप्ता कुमारविजयानन्दिनीव सती बभौ ॥५२॥मङ्गलोदधिकलोलश्रीलताकुसुमाकरः । हर्षपीयूषजलदः कोऽप्यभूत्स महोत्सवः ॥५३॥ततस्तनयमामन्त्र्य कौशाम्बीं प्रमदाकुलः । ययौ व्योम्ना सहामात्यो वत्सराजः प्रियासखः ॥५४॥ इति स निखिलभूभृन्मौलिविश्रान्तकीर्ति - र्मदकलसुरनारीगीयमानप्रतापः । अभिनवजयलक्ष्मीनम्रविद्याधरेन्द्र - प्रकटमुकुटपीठस्पष्टपादो रराज ॥५५॥इति क्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां महाभिशेको नाम सप्तदशो लम्बकः । N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP