संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|पद्मावती नाम द्वादशो लम्बकः| ब्रह्मदत्ताख्यायिका पद्मावती नाम द्वादशो लम्बकः ब्रह्मदत्ताख्यायिका पद्मावती नाम ब्रह्मदत्ताख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत ब्रह्मदत्ताख्यायिका Translation - भाषांतर जाह्नवीधूर्जटिजटाकुन्दमाला पुनातु वः । राजहंसश्रियं धत्ते यद्वारि वलये शशी ॥१॥ ततो विरहसंतप्तं प्रियां मदनमञ्चुकाम् । विलपन्तं सुहृत्प्राह गोमुखो नरवाहनम् ॥२॥ धैर्यसागर कोऽयं ते नम्नथानलविप्लवः । एश ह्यसंवृतः सत्यं महतामपि दुःखदः ॥३॥ ब्रह्मदत्त इति ख्यातो वाराणस्यामभून्नृपः । कीर्तिरासागरं यस्य गता गङ्गेव भूभृतः ॥४॥ तस्य सोमप्रभा नाम भार्या सोमप्रभाभवत् । मन्त्री च धीमतां धुर्यः शिवभूतिरिति श्रुतः ॥५॥ स कदाचिन्नृपश्चन्द्रकान्तिधौते नभस्तले । सौधोत्सङ्गगतोऽपश्यन्निशीथे ह्म्समालिकाम् ॥६॥ तन्मध्ये काञ्चनमयं प्रवालचरणोज्ज्वलम् । ददर्श हंसमिथुनं शुक्ला रुचिरलोचनम् ॥७॥ पृष्टौ राज्ञा प्रोचतुस्तौ पूर्ववृत्तमथात्मनः । पुष्पशेखर इत्यासीद्दुर्विनीतो गणः पुर ॥८॥ जयया कन्यया सार्धं संस्थितो दुर्विनीतया । दृष्ट्वा गणौ जहसतुर्मृगेश्वर[गुहे]श्वरौ ॥९॥ अकाण्डे प्रणयं तेषां विलोक्य त्र्यम्बकप्रिया । कोपाग्निधूमलतिकाम बभार भृकुटीं मुखे ॥१०॥सावदद्दुर्विनीतोऽयं कन्ययैव सहानया । मर्त्यतां यातु निर्लज्जो विलासी पुष्पशेखरः ॥११॥ हासशीलावपि पुरावेतौ चापलसूचकौ । बहुशः कुत्सितां जातिं प्राप्य बोधः श्रुपास्यत(?) ॥१२॥ इति शप्तेषु पार्वत्या तेष्वेकः प्रमथोऽब्रवीत् ।कृपया धूर्जटी नाम देवि दासेषु मा क्रुध ॥१३॥ तच्छ्रुत्वा गिरिजा प्राह पत त्वमपि भूतले । ईश्वरा गाढनिर्बन्धं यान्ति धार्श्ट्यनिवारिताः ॥१४॥ सुतास्रेहात्ततः प्राप्य जया गौरीं व्यजिज्ञपत्त ।देवीसेवाजुषां तेषां शापस्यान्तो विधीयताम् ॥१५॥ इत्यर्थिता सा तपसा तया प्रोवाच पार्वती । एकत्र संगता जातिं स्मृत्वैष्यन्ति निजं पदम् ॥१६॥ इत्युक्ते शंकरस्तूर्णं सतीसंदर्शनोत्सुकः । व्योम्ना मनोरथेनेव समभ्यायात्ककुद्मता ॥१७॥ सिप्राप हर्षपीयूशवर्षिणीं हिमवत्सुताम् । अश्रृणोदन्धकाक्षं तं निकामं तु परम्परा ॥१८॥ ततस्तं विदधे क्रद्धो भगवानस्थिपञ्जरम् । मुस्ताङ्गः सोऽपि तपसा भृङ्गिरित्यभवद्गणः ॥१९॥ अत्रान्तरे यौ गिरिजाशप्तौ पिङ्गगुहेश्वरौ । द्विजस्य पुत्रतां यातौ यज्ञस्थलनिवासिनः ॥२०॥ ततस्तावतिदारिद्र्यान्मातामहगृहे स्थितौ । मातुलेन पशुप्रायौ नियुक्तौ पशुरक्षणे ॥२१॥ अथैकं भक्षितं दृष्ट्वा ताभ्यामृक्षविदारितम् । छागलं मातुलः शापं ददौ रक्षस्तनुप्रदम् ॥२२॥ततस्तौ राक्षसौ घोरौ कदाचिद्धन्तुमुद्यतौ । पतितात्तस्य शापाच्च वने यातौ पिशाचताम् ॥२३॥कालेन दुर्दिने होमधेनुरक्षाकुमारकम् । भोक्तुं मुनेरुद्यतौ च शापाच्चाण्डालतां गतौ ॥२४॥ कर्णनासाविरहितौ शबरैश्चौर्यकोपतः । कृतौ गत्वा शिवगृहं धेनुं हन्तुं समुद्यतौ ॥२५॥ अन्धीकृतौ भगवता दृष्टौ पौरजनैस्ततः । निराहारौ वायसतां किंचित्कर्मक्षयाद्गतौ ॥२६॥ भासतां च ततः प्राप्तौ क्रमेण च मयूरताम् । शिवार्चनरतौ काले जातिं स्मृत्वा च हंसताम् ॥२७॥ प्राप्तौ ततोऽपि वैचित्र्यं हेमरत्नमयाकृती । तावावां पार्वतीशप्तौ मृगेश्वरगुहेश्वरौ ॥२८॥ स पुष्पशेखरस्त्वं च त्वत्प्रियेयं जयात्मजा । महामत्यश्च ते राजन्धूर्जटोऽःयं गणाग्रणीः ॥२९॥ तदेहि तूर्णं गच्छामः सिद्धिक्षेत्रं महागिरिम् । प्राङ्मुक्तकेतुना यत्र मुक्ता लक्ष्मीस्ततः श्रिया ॥३०॥ इति हंसवचः श्रुत्वा ब्रह्मदत्तः प्रियासस्वः । मन्त्रिणा सह ताभ्यां च व्योम्ना जातिस्मरस्तु सः ॥३१॥ आद्यस्थानं समासाद्य ते विज्ञानमयाः क्षणात् । शांभवं पदमभ्येत्य संगता भेजिरे निजाम् ॥३२॥ इति ब्रह्मदत्ताख्यायिका ॥१॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP