संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदिरावती एकादशो लम्बकः| मदिरावती मदिरावती एकादशो लम्बकः मदिरावती मदिरावती क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत एकादशो लम्बकः Translation - भाषांतर अनङ्गेनाबलासङ्गाज्जिता येन जगत्त्रयी । स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥१॥ अनेकसौरभोद्गारव्याकुलीकृतषट्पदैः ।प्रक्षुभ्यत्कोकिलकुले रसत्समदसारसे ॥२॥ वलत्समीरणोद्भूतघनकिञ्जल्कपिञ्जरे ।संजाताधिकसंतापस्तत्र वत्सेश्वरात्मजः ।निजदेशपरित्यागे बभूवं कुरिसादरः ॥३॥ स गत्वा विरहक्षामः पदैः श्लथविश्रृङ्खलैः ।कलह्म्सकुलालोलं प्राप भागिरथीतटम् ॥४॥ तरुणौ तत्र विश्रम्भसम्भोगाविव रूपिणौ । अग्राम्यवस्त्राभरणौ ददर्श द्विजपुत्रकौ ॥५॥ रतिहीनमिवानङ्गं विलोक्य नरवाहनम् । ॐ नमो मन्मथायेति ब्रुवाणौ तौ प्रणेमतुः ॥६॥ निजवृत्तान्तमावेद्य पृष्टौ राजसुतेन तौ । चक्रतुः स्वकथाख्याने लज्जिताविव मानसम् ॥७॥ तयोरेकोऽब्रवीद्देव श्रूयतां नौ विचेष्टितम् ।वल्लभे प्रेरयत्येषा ब्रह्मदर्शननिर्वृत्तिः ॥८॥ अस्ति शोभावती नाम कलिङ्गविषये पुरी । तस्यां यशस्करो नाम बभूव ब्राह्मणोऽग्रणीः ॥९॥ तस्य मेखलिकाख्यानां ब्राह्मण्यां तनयः प्रियः । जातः सद्भावनामाहं कुलार्थं विहितव्रतः ॥१०॥ ततः कदाचिद्दुर्भिक्षे त्यक्त्वा स्वनगरं वयम् । संप्राप्ता कृच्छ्रवीवाख्यं पुरं सुरपुरोपम म् ॥११॥ ततः कृतास्पदे तत्र सदा निद्यार्जने रतः । अहं गुरुकुले मित्रमवापं क्षत्रियं दिनैः ॥१२॥ सोमदत्ताभिधानस्य राजन्यस्य तमात्मजम् । मित्रं विजयसेनाख्यं प्राप्याहं निर्वृतोऽभवम् ॥१३॥ततः कदाचिदुद्याने तस्वसा मदिरावती । दृष्टा मया मनोजन्मसाम्राज्यविजयोत्सवः ॥१४॥ दधाना बाहुयुगलं बिसकन्दसुकोमलम् ।वापीव मञ्जुसिञ्जानमेखलाहंसमालिका ॥१५॥ बिभ्राणाभिनवोद्भिन्नकुचावव्यक्तचूचुकौ । तारहारनदीजाताविव पङ्कजकोरकौ ॥१६॥ तां विलोक्याहमानन्दसुधानिःस्यन्दवाहिनीम् ।कदम्बकुसुमाकारः संजातपुलकोऽभवम् ॥१७॥ सापि मामवलोक्यैव साचीकृतविलोचना । स्फुटां गतिं परित्यज्य भेजे विभ्रमवक्रताम् ॥१८॥ नवस्मरशराघातकल्पितास्य निजं गृहम् गत्वा बभूव शनकैर्ध्यानोच्छ्वासपरायणः ॥१९॥ ततो विजयसेनेन नीतोऽहं निजमन्दिरम् । तामपश्यं स्मरभुवं मय्येवार्पितलोचनाम् ॥२०॥ तया प्रणयशालिन्या गुम्फितां कुसुमस्रजम् ।कण्ठे न्यवेशयं हर्षात्तामिवामीलितेक्षणः ॥२१॥ रहस्तस्यास्ततो धात्री मामुवाचामृतोपम म् ।त्वमेव मदिरावत्या जीवितं किमतः परम् ॥२२॥ इत्यहं तद्गिरा हृष्टः प्राप्तो मन्मथतामिव । अकार्षं विपुलामाशां प्रियापरिणयोत्सवे ॥२३॥ततः कदाचिदश्रौषं तां पित्रा प्रतिपादिताम् । क्षत्रियायतिरूपाय वचसा गुणशालिनीम् ॥२४॥ तच्छ्रुत्वाहं झटित्युग्रवज्राहत इव क्षितौ । पतितः प्रेमबन्धानामाशाभङ्गोऽतिदुःसहः ॥२५॥ ततस्तस्याः सखी प्राह मामेत्य लघुचारिणी । पित्रा कुबुद्धिनान्यस्मै कल्पिता मदिरावती ॥२६॥ भ्रमन्तमभिधत्ते च सा त्वत्प्रीतिपरायणा । त्वमेव मे प्राणनाथो मिथ्याभ्रान्तः पिता मम ॥२७॥ इति तद्वचसा सद्यः संप्राप्ता साचलत्स्नना(?) । समारूढ इवाकाशं सुधासिक्त इवाभवम् ॥२८॥ अथ कालेन संप्राप्ते तस्या लग्नदिनोत्सवे । श्रुतो मयानेकजन्यजनकोलाहलः पुरे ॥२९॥अन्यत्र पथि यातस्य दर्शने बद्धकौतुकः । परिणेतुस्ततो गत्वा मया दर्पगताः स्त्रियः ॥३०॥ विवाहं मदिरावत्या दृष्ट्वाहं समुपस्थितम् । तत्संगमे जीवितेन तुल्यमासां यदात्यजम् ॥३१॥ततोऽहं तरुमारुह्य पाशवेष्टितकन्धरः । ऊर्ध्वेक्षणं तमोघोरं प्रविष्टो नष्टचेतनः ॥३२॥ केनापि मुक्तपाशोऽथ फेनोद्गारिमुखः क्षितौ । पातितः सुचिरात्संज्ञां प्राप्यापश्यं द्विजं पुरः ॥३३॥ कृपयाश्वास्य मां तैस्तैरुपपत्तिकथाक्रमैः । उवाच मत्कथां श्रुत्वा स निष्कारणबान्धवः ॥३४॥ जहास निन्दितं विप्र साहसं कृतवानसि । शरीरत्यागपापिष्ठं कर्मैतन्मा कृथाः पुनः ॥३५॥ अवश्यमेव पुरुषः प्राप्नोत्यपि यथेप्सितम् । भवत्येवात्र संसारे दृष्टनष्टा मुहुर्मुहुः । संयोगाश्च वियोगाश्च तथा च श्रृणु तत्कथाम् ॥३६॥ अहं कुमारको नाम नेपालविषयाश्रयः । द्विजन्मा निखिलां पृथ्वीं भ्रान्तो विषयकौतुकात् ॥३७॥ ततः शङ्खमुखं नाम हिमवत्कच्छसंश्रयम् । अवापं विविधोद्यानं वसन्तस्येव मन्दिरम् ॥३८॥ शङ्खपालह्रदे तत्र यातयामे महोत्सवे । स्नानपूजारसव्यग्रसुन्दरीमन्दमण्डले ॥३९॥ अपश्यं कन्यकां कान्तां नवयौवनशालिनीम् । अशर्वामिव शर्वाणीमचन्द्रामिव रोहिणीम् ॥४०॥विभ्रमाणां कुलगृहं क्षेत्रं कान्तेः पदं तरोः । त्रिजगज्जयिनः शक्तिं मूर्तामिव मनोभुवः ॥४१॥ तां चन्द्रवदनां दृष्ट्वा कुरङ्गनयनामहम् । रम्भोरूं रम्भया तुल्यां गत्वैव गजगामिनीम् ॥४२॥ पुराहं राजपुत्रस्य याता क्रीडामयूरताम् ।तस्यां मदान््यस्तलोचनायां महागजः ॥४३॥ प्रतिद्वीपरूपान्याया(?)ज्जनकोलाहलाकुलः । भ्रमभ्द्रमरसंभारमदाम्भोराजिराजितः ॥४४॥मन्दराद्रिरिवोच्च~झ्चत्कालकूटघटाकुलः । सरोविलोडनक्रीडाडम्बरे कवलीकृताः ॥४५॥ उद्गिरन्निव दन्ताम्शुच्छद्मना विषमण्डलीः ।विलोलकर्णतालाग्रव्यालम्बिसितचामरः ॥४६॥ कालमेघ इवोत्सर्पद्बलाकावलयाङ्कितः ।यस्य गम्भीरसंरम्भगुरुभिर्गलगर्जितैः ॥४७॥ तां त्रासस्वलितामेत्य दोर्भ्यामहमधारयम् । जग्राह निबिडं कण्ठे मां सा तद्भयविह्वला । स्पर्शहर्षामृतासिक्तकम्पितोच्चकुचस्थलीम् ॥४८॥ भूयात्ते करिणीं सज्जौ मदलेशविलासन । कृतोपकारं तं नागमित्यहं मनसाभ्यधाम् ॥४९॥ ततः पृथुलफूत्कारशीकराबद्धदुर्दिनः । आवर्तितः करोत्कारः क्षणात्प्राप्तो मदन्तिकम् ॥५०॥ तद्भयाद्विद्रुते दूरं जनसंघे सहस्रधा । नापश्यं पद्मवदनां क्कचित्तां तरलेक्षणाम् ॥५१॥ ततोऽहं तद्वियोगार्तो यातेऽस्तं नलिनीप्रिये । चक्राह्व इव यामिन्यां विलापमुखरोऽभवम् ॥५२॥ अथ चन्द्रकरस्मेरकुमुदामोदशालिभिः । विषवेगैरिवासिक्तो रजनीपवनैरहम् ॥५३॥ एवं प्रतिनिशं कान्तावियोगविधुराशयः । भ्रान्तोऽपि निखिलां पृथ्वीं तां न पश्यामि सुन्दरीम् ॥५४॥ बद्धस्पृहोऽपि निधने धारयाम्येव जीवितम् । प्रियलाभा भवन्त्येव सत्सु प्राणेषु देहिनाम् ॥५५॥ अद्य त्वमपि दुःखार्तो रक्षितो मरणान्मया । अनुभूतव्यथः सर्वो जानाति परवेदनाम् ॥५६॥ धीरो भव भवे दैवात्कदाचिन्मदिरावतीम् । अवाप्स्यसीति तद्वाक्यं श्रुत्वाहं धृतिमाश्रितः ॥५७॥ततस्तेनैव सहितः पूज्यस्मरनिकेतनम् । यातः परिणये रन्तुं यत्रायान्ति पुराङ्गनाः ॥५८॥ तत्र गर्भगृहे गूढं स्थिते मयि तदाशया ।विवाहे स्मरपूजायामाययौ मदिरावती ॥५९॥उत्साहवाद्यनिर्घोषक्षुबिते जनसागरे । विराजमाना लावण्यपीयूषैः श्रीरिवोदिता ॥६०॥ निषिद्धान्यप्रवेशाय सा प्रविश्य स्मरालयम् । प्रणम्य प्राह सा वाक्यमुद्वाहोऽयं विधाय मे ॥६१॥ दृष्टः पुरा मया विप्रो यः स मे हृदयप्रभुः । स मे जन्मान्तरे भूयात्पतिः प्राणांस्त्यजाम्यहम् । इत्युक्त्व अविदधे पाशं कण्ठे हारविभूशिते ॥६२॥ ततोऽहं सुन्दरीं दृष्ट्वा तां रागान्मर्तुमुद्यताम् । प्रहृष्तो दयितामानी पाशं तस्या न्यवारयम् ॥६३॥ साथं मां प्रत्यभिज्ञाय विहितालिङ्गनोत्सवम् । सकम्पा कामपि ययौ क्षीबतां मदिरावती ॥६४॥ निर्जनामटवीं त्यक्त्वा पुरं प्राप्तोऽचलाभिधम् । ततो गृहपतेर्गेहे तत्रत्यस्य च कस्यचित् ॥६५॥ विधिना विहितोद्वाहः संभोगसुभगोऽभवम् । तया प्रणयशालिन्या रममाणो मृगीदृशा ॥६६॥ तत्राङ्गनामुखं प्राप्तं तमपश्यं सुहृद्वरम् । दैवाद्यदृच्छया यातः स पृष्टः प्रणयान्मया ॥६७॥ प्राहाप्यहं वधूवेषो यातः शिबिकया गृहम् । तत्रोद्वाहोत्सवे व्यग्रजनकल्लोलसंकुले । दीर्घावगुण्ठनां प्राह सखी मां पाटलाभिधा ॥६८॥ मदिरावति कोऽयं ते विषादविषविभ्रमः ।अस्मिन्नप्युत्सवे येन विकृतेवोपलक्ष्यते ॥६९॥ जानेऽहं त्वां सदा बद्धप्रीतिं तस्मिन्द्विजात्मजे । धात्रा न लिखितः किं तु तव तेन समागमः ॥७०॥प्राप्तां भज विधेराज्ञां को हि नामातिवर्तते । ममाप्येवंविधा चिन्ता सततं सखि वर्तते । श्रृणु यन्मे पुरा वृत्तं नागयात्रामहोत्सवे ॥७१॥ शङ्खपालह्रदे स्नातुं याता बहुजनागमे । अपश्यं कुञ्जरत्रस्ता पुरुषं मन्मथोपम म् ॥७२॥ तेन पद्मदलाक्षेण यूनाहं भयविह्वला । गाढमालिङ्गिता येन मामद्यापि स्मरज्वरः ॥७३॥ तं मदं मदनस्यापि यौवनस्यापि यौवनम् । तं विस्मरति मे मन्ये मनो जन्मान्तरेष्वपि ॥७४॥ ततोऽहं कुञ्जरभयात्तद्वियुक्तो निजं गृहम् । कण्ठे गृहीत्वा सोत्कण्ठं लब्धजीव इवाभवम् ॥७५॥ सापि मां मन्मथाविष्टा दृष्ट्वाभ्यस्तं मनोरथैः । प्लावितेवामृतस्यन्दैरभवत्स्मेरचन्द्रिका ॥७६॥ ततस्तयाहं गूढेन द्वारेणालक्षितो निशि । निर्गतो लघुसंचारो मधुमत्तजनाद्गृहात् ॥७७॥ दूरं गत्वा वनं प्राप्तः..............। सौजन्याद्विहितातिथ्यः कृतोऽहं मृगयाज्ञया ॥७८॥ दैवाद्दिष्टमिमं मार्गं विचिन्त्य दयितासखः । इह त्वया संगतोऽहमानन्देनेव रूपिणा ॥७९॥ इति तद्वचनं श्रुत्वा दृष्टोऽहं जाह्नवीतटे । स्थितोऽद्य यावत्तावत्त्वं मया दृष्टो नृपात्मजः ॥८०॥ अयं मम सखा बन्धुः सहजः स्वर्गमेव च । राजसूनो मनःसिन्धुचन्द्रः प्राणा बहिश्चराः ॥८१॥ इति द्विजसुतेनोक्तं निशम्य नरवाहनः । शनैर्बबन्ध सानन्दो दयितासंगमे धृतिम् ॥८२॥ अथ स निजसुहृद्भिः संगतो गोमुखाद्यैः प्रणयविनतमौलिस्तौ समानम्य विप्रौ । विरहविधुरधैर्यः संस्मरन्वल्लभायाः प्रविशिथिलमयासीत्स्वां पुरीं राजपुत्रः ॥८३॥ इति क्षेमेन्द्रविरचितायां बृहत्कथायां मदिरावती नाम एकादशो लम्बकः समाप्तः । N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP