संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|वेलानाम अष्टमो लम्बकः| चन्द्रसाराख्यायिका वेलानाम अष्टमो लम्बकः चन्द्रसाराख्यायिका जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च चन्द्रसाराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत चन्द्रसाराख्यायिका Translation - भाषांतर प्रथमो गुच्छः । हेतवे सर्वसिद्धीनां कल्मषक्षयकेतवे । भवाब्धिसेवते तुभ्यं नमोऽस्तु वृषकेतवे ॥१॥ ततः कदाचिदुद्याने विहरन्नरवाहनः । ददर्श राजतनयावश्विनाविव रूपिणै ॥२॥ तौ दृष्ट्वा निश्चलदृशा स्मयसंतोषनिर्भरः । कुतो युवामित्यपृच्छन्मुखेन्दुकृतचन्द्रिकौ ॥३॥ उवाचैकः प्रणम्याथ देव त्वां द्रष्टुमागतौ । आवां तुरङ्गकरिणीजवाधिक्यविवादतः ॥४॥ अस्ति वैशालिका नाम नगरी संपदां निधिः । नन्दनो नाम नृपतिस्तस्यामासीन्महायशाः ॥५॥ तस्य स्तस्तनयौ लक्ष्मीसंक्रान्तिमणिदर्पणौ । अहं रुचिरदेवाख्यः पोतश्चायं ममानुजः ॥६॥ कन्या जिनेन्द्रसेनाख्या स्वसा च मम सुन्दरी । प्रकाशितं रत्नदीपशिखयेव कुलं यया ॥७॥ अस्ति मे करिणी भद्रा केशिनी नाम विश्रुता । निर्मिता जवशिक्षायै मरुतामिव वेधसा ॥८॥ पोतस्याप्यस्ति तुरगो गरुत्मानिव रंहसा । जगत्प्रदक्षिणीकर्तुं जवो मूर्तिमिवाश्रितः ॥९॥ तद्वेगजातविजये पणबन्धः कृतो मिथः । आवाभ्यां देव तत्र त्वं प्रमाता भव सर्ववित् ॥१०॥ तदेह्यस्मत्पुरीं तावद्गच्छाम इति तद्गिरा । ययौ मनोरथजवं रथमारुह्य तत्परम् ॥११॥तद्राजधानीमासाद्य कान्ताभिर्नयनोत्पलैः । अर्च्यमानः स्मरधिया तदन्तःपुरमाविशत् ॥१२॥ ताभ्यां स पूजितस्तत्र भ्जे रत्नासनं कृती । धाम्नां निधेरिवोदारमुदयाचलशेखरम् ॥१३॥ अथायातां सपर्यायै तत्खसारं ददर्श सः । जिनेन्द्रसेनामुन्निद्रचन्द्रबिम्बनिभाननाम् ॥१४॥ मुहुर्भङ्गाङनाकृष्टकेतकाग्रदलत्विषा । कुर्वाणां दृष्टिभङ्गेन कृष्णसारप्रभा दिशः ॥१५॥ लज्जावनतपक्ष्माग्रनेत्रांशुशबलस्तनीम् । भ्रमभ्द्रमरसंभारस्तबकामिव मञ्जरीम् ॥१६॥ पुरः प्राप्तां प्रणामाय रनन्नूपुरमेखलाम् । संचारिणीं कलरणत्कलहंसामिवाब्जिनीम् ॥१७॥ तां दृष्ट्वा पद्मवदनां विस्मितो नरवाहनः । हर्षमन्मथकम्पानां क्षणात्परिचितोऽभवत् ॥१८॥ तत्प्रणामाकुला सापि बभौ कर्णोत्पलच्युतैः । केसरैरिव तत्कालं संजातपुलकाङ्कुरैः ॥१९॥ स्थित्वा मुहूर्तं वचसा स तयो राजपुत्रयोः । सज्जीकृतां तां करिणीमश्वं च द्रष्टुमभ्यगात् ॥२०॥ विचार्य विपुले देशे तयोर्वाताधिकं जवम् । बबन्ध विजयोष्णीषं करिण्याः कुम्भमण्डले ॥२१॥ जिते वाजिनि दन्तिन्या पुररन्तःपुरं ययौ । प्रीत्या रुचिरदेवेन सेवितो नरवाहनः ॥२२॥ अत्रान्तरे वत्सराज विसृष्टो लेखहारकः । देव त्वामीहते द्रष्टुमित्याह नरवाहनम् ॥२३॥ श्रुत्वा रुचिरदेवस्तदुवाच रचिताञ्जलिः । देवं वत्सेश्वरो वेत्तु निजदासगृहे स्थितमम ॥२४॥ इत्युक्त्वा विरते तस्मिन्प्रस्थानाभिमुखे तथा । राजपुत्रे पितुर्भीत्या स्तिमितेव सभाभवत् ॥२५॥ सूचितोऽथ प्रतीहार्या प्रणामानतशेखरः । प्रविश्य चन्द्रसाराख्यः सार्थवाहस्तमभ्यधात् ॥२६॥ देव यात्राभिधे देशे बभूव धनदोपमः । वणिक्कुसुमसाराख्यस्तस्याहं वल्लभः सुतः ॥२७॥अहं तदाज्ञया यातः कदाचिद्द्रविणार्जने । सार्धं सुवचनाख्येन सुहृदा सरितां पतिः ॥२८॥ तत्रोद्धतमहावातैः प्रतीपं तटमागते । मम प्रवहणे राज्ञा बद्धोऽहं धनवाञ्छया ॥२९॥ ततो महीधराख्येन परिज्ञाय कृपाजुषा । वणिजा कुलमित्रेण सेवितोऽहं नृपाज्ञया ॥३०॥ संमानितो भूमिभुजा तत्पुरे सुचिरं स्थितः । फुल्लवाललताजाले जाते मत्तालिकोकिले ॥३१॥ वणिजः शिखराख्यस्य पुत्रीं जैत्रीं विधुद्युतेः । अवश्यमहमुद्याने विलासललितेक्षणाम् ॥३२॥ तां दृष्ट्वा याचितोऽभ्येत्य ततस्तज्जनको मया । प्राह मां स न ते चैषा दातुं मे युज्यते स्वयम् ॥३३॥ ज्ञानिना भिक्षुणा पूर्वमहमुक्तो हितैषिणा । देया मातामहे न एयं नानुकूला तवात्मजा ॥३४॥ इति तेन निषिद्धोऽहं न ददामि सुतां स्वयम् । अद्यैव प्राहिणोम्येनां मातामहगृहे सखे ॥३५॥ अब्धिना सिंहलद्वीपं तं देशं त्वमपि व्रजः । इत्युक्त्वा विससर्जाशु पुत्रीं प्रवहणेन सः ॥३६॥ ततो बलवता तस्याः कर्णमेव नभस्वता । अभज्यत प्रवहणं तद्विवेद च तत्पिता ॥३७॥ पुत्रीवियोगदुःखार्ते तस्मिन्बन्धुजनैः शनैः । आश्वासिते तद्विरहादभवच्छोककर्शिथ ॥३८॥ ततः सह वयस्येन सिंहलद्वीपगं क्षणात् । आरुह्याहं प्रवहणं प्रस्थितो दक्षिणां दिशम् ॥३९॥ अथ प्रवहणे भग्ने ममापि मकराकरे । अहं च फलसासक्तः प्राप्तो वेलावनावनिम् ॥४०॥ तत्र भ्रान्तश्चिरं प्राप्य मतङ्गाश्रमकाननम् । कन्यां शिवार्चनरतामपश्यं तटिनीतटे ॥४१॥ नवतामिव कामस्य यौवनस्येव दृप्तताम् । पूर्णतामिव चन्द्रस्य रूपस्येव विचित्रताम् ॥४२॥ तां दृष्ट्वा विस्मयजुषा तत्प्रविश्य तपोवनम् । दृष्ट्वा मया मतङ्गस्य तनया वृद्धकन्यका ॥४३॥ यमुना न आम मां प्राह भाषा चित्रसरस्वती । दन्तांशुभिः प्रोद्गिरन्ती मूर्तं पुण्यमिवोज्ज्वलम् ॥४४॥ भग्ने प्रवहणे पुत्र मतङ्गमुनिना स्वयम् । प्राप्तैषा वणिजः पुत्री शिखराख्यस्य सुन्दरी ॥४५॥ सुतेव पालितास्माभिः शिवार्चनरता सदा । समुद्रवेलालब्धेयमिह वेलेति विश्रुता ॥४६॥ इति श्रुत्वा परिज्ञाता सा मया चारुहासिनी । हर्शवेलास्मरारम्भविलोलतनुवल्लरी ॥४७॥ ततो दिव्यदृशा ज्ञात्वा मुनिपुत्री पुनः स्थितम् । प्राह मां पूर्वभार्येयं तव पुत्र सुलोचना ॥४८॥ इत्युक्त्वा विततारासौ तां मह्यं स्वसुतामिव । तामहं प्रपय दयितामश्रौषं मुनिभाषितम् ॥४९॥ इयं विद्याधरी पूर्वं जलकेलिविलासिनी । मुनिनान्तर्जलस्थेन शप्ता मर्त्यपदं गता ॥५०॥ आदिष्टं चापि योगोऽस्यास्त्वया सह सुदुःसहः । उत्कस्तेनैव दुःखान्तो नरवाहनदर्शनम् ॥५१॥ वैशालिके पुरवरे तुरङ्गकरिणीजवम् । यो ब्रवीति स विज्ञेयो भाविविद्याधरेश्वरः ॥५२॥ जन्मान्तरे तवाप्यस्ति शिवार्चा पुष्पहारिणः । किल्बिषं तत्तमेवाशु दृष्ट्वा सर्वं विनङ्क्ष्यति ॥५३॥ इति श्रुत्वा ततो लग्ने तां प्राप्य हरिणेक्षणाम् । प्रस्थितः स्वपुरीं वेलातटं प्राप्तो महोदधेः ॥५४॥ तत्रारोप्य प्रियां नावं य आवदस्मि समुद्यतः । तावत्सा कर्मयोगेन हृता नौर्मे महानिलैः ॥५५॥ ततो वियोगसंतप्तः प्रलापमुखरान् । दिवापि तिमिराक्रान्तामिव भ्रान्तोऽस्मि मेदिनीम् ॥५६॥ स च प्रवहनभ्रष्टः प्राप्तः पथि यदृच्छया । ततो विरहदग्धेन मया सुवचनः सुहृत् ॥५७॥ स मां प्रतापिनं प्राह दृष्टास्माभिस्तव प्रिया । समुद्रतीरे शोचन्ती स्फुटं तु न विभाषिता ॥५८॥ इति मित्रवचः श्रुत्वा प्राप्तोऽहं भवदन्तिकम् । त्वद्दर्शनावधिः शापो मुनिनाभिहितो यतः ॥५९॥ अधुना क्षीणशापोऽहं द्रष्टुमिचामि तां प्रियाम् । उक्त्वेति सार्थपः प्रायात्प्रणम्य नरवाहनम् ॥६०॥ इति चन्द्रसाराख्यायिका ॥१॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP