देवदत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


N/Aप्रथमो गुच्छः ।

ललाटलोचनं पायात्प्रदीप्तं त्रिपुरद्विषः ।
कुमारक्षासिन्दूरं वितरन्किरणैरिव ॥१॥
स सार्वभौमविभवं प्राप्य भूमिपुरंदरः ।
बभार वल्लभा कान्तिनलिनी राजहंसताम् ॥२॥
सभास्थानसमासीनमभ्येत्यावाप्तसत्कृतिः ।
जगाद नारदो दन्तद्युत्या धवलयन्दिशः ॥३॥
अपि राजेन्द्र कार्येषु प्राप्य लक्ष्मीं न मुह्यसि ।
ऐश्वर्यमदमत्ता हि न पश्यन्ति नृपद्विपाः ॥४॥
अपि संकोचमायाति न श्रीर्व्यसनवारिदैः ।
जडिकृतप्रतापस्य हेमन्ते नलिनीवने ॥५॥
स पाण्डुः पृथिवीपालस्तव पूर्वपितामहः ।
मृगयाव्यसनासक्तो मुनिं हरिणरूपिणम् ।
निर्गमं नाम बाणेन जघान रतिमोहितम् ॥६॥
तस्मात्स रतिपर्यन्तजीवितं शापमाप्तवान् ।
इति राज्ञां विनाशाय व्यसनं महतामपि ॥७॥
कुलाधिकं पदं वीर संप्राप्तोऽसि किमुच्यते ।
सर्वविद्याधराधीशो भविष्यति तवात्मजः ॥८॥
कुमारजनकं देवमाराध्य शशिशेखरम् ।
देवी वासवदत्तेयं जनयिष्यति तं सुतम् ॥९॥
हरनेत्राग्निनिर्धूतः स्मरः सोऽवतरिष्यति ।
रतिव्रतैः प्रसन्नेन शंकरेण विनिर्मितः ॥१०॥
उक्त्वेति नारदमुनौ क्षिप्रमेव तिरोहिते ।
वत्सराजोऽभवच्चैवममन्दानन्दमानसः ॥११॥
ततः कदाचिद्दारिद्र्यविध्वस्ता यमजौ सुतौ ।
गृहीत्वा शरणं प्रायाद्ब्राह्मणी वत्सभूपतिम् ॥१२॥
विसृष्टान्तःपुरं राज्ञा सा कृपापूर्णचेतसा ।
न्यस्तेव संपदामङ्गीकृता वास्वदत्तया ॥१३॥
पुत्रीणां बत धन्यासि निजां कथय मे कथाम् ।
देव्या पृष्टेति सा स्वैरं ब्राह्मणी प्राह निर्वृता ॥१४॥
कृच्छ्रेण महता देवि दारिद्र्यं रक्षितं मया ।
न हि धर्तुं समायाति शीलं प्रोषितयोषिताम् ॥१५॥
उत्तरस्यां दिशि पुरा जयदत्तोऽभवन्नृपः ।
देवदत्ताभिधस्तस्य पुत्रो दुश्चरितः कुले ॥१६॥
स राजा पवनालोलकदलीदलचञ्चलाम् ।
नृपश्रियमिति ज्ञात्वा वणिजां चाक्षयां श्रियम् ॥१७॥
महाधनवणिक्पुत्र्या पुत्रस्योद्वाहमादधे ।
धनकाञ्चनरत्नौघैः प्राप व्याकोशकोशताम् ॥१८॥
ततः कालेन भूपाले दिवं याते तदात्मजः ।
स गोत्रशत्रुविजितो जीवशेषो ययौ निशि ॥१९॥
स मात्रा प्रेरितो दुःखाद्गच्छ श्वशुरमन्दिरम् ।
महाधनः स हि वणिक्त्वां ध्रुवं पूरयिष्यति ॥२०॥
 इति मातुर्गिरा गत्वा पुरं पाटलिपुत्रकम् ।
श्वशुरावसथं प्राप्य न विवेश ह्रिया नतः ॥२१॥
स पान्थसत्रशालायां शयानस्तद्गृहान्तिके ।
निजजायां ददर्शाथ निशि केनापि संगताम् ॥२२॥
तां चौर्यसुरताकम्पक्कणन्मुखमेखलाम् ।
दृष्ट्वापि दुर्गतिं ध्यायन्न चकम्पे चुकोप वा ॥२३॥
ततः सा रतिसंमर्दभ्रष्टं हेमविभूषणम् ।
नाज्ञासीन्मणिताटङ्कं रागान्धः को हि पश्यति ॥२४॥
तद्वज्रमणिसंछन्नं प्राप्य कर्णविभूषणम् ।
ययौ लक्ष्मीं कृतारम्भो राजपुत्रोऽप्यलक्षितः ॥२५॥
बन्धे निधाय बहुना द्रविणेन तदुत्तम म् ।
क्रीत्वा तुरङ्गान्राजानं परमेश्वरमभ्यगा(या)त् ॥२६॥
तमुपाश्रित्य बलिनं हत्वा शत्रुगणान्युधि ।
पित्रुपैतामहं राज्यमवाप विमलद्युतिः ॥२७॥
ततोऽ‍न्यां राजतनयां परिणीय कुलोचिताम् ।
वणिजः प्राहिणॊत्क्षिप्रं ताटङ्कं दुहितुश्च्युतम् ॥२८॥
तदालोक्येव सा भर्त्रा प्रहितं रत्नभूषितम् ।
स्मृत्वा दुर्विनयं भीता सहसा पञ्चतां गता ।
इति विप्रोषितं स्त्रीभिः शीलं दुःखेन रक्ष्यते ॥२९॥
इति देवदत्ताख्यायिका ॥१॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP