मालतीमाधवम् - अष्टमोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशत्यवलोकिता । )
अवलोकिता - वन्दिदा मए णन्दणावसथपडिणिउत्ता भअवदी । ता जाव मालदीमाहवसआसं गच्छम्हि । ( परिक्रम्य । ) एदे दे परिणिव्वुत्तिदगिह्मदिअहावसाणमज्जणा दीहिआतीरसिलातलं अलंकरन्ति । ता उपसप्पामि । ( इति निष्क्रान्ता । )
प्रवेशकः ।
( ततः प्रविशतो मालतीमाधवौ उपविष्टावलोकिता च । )
माधव :- ( सानन्दम् । ) वर्धते हि मन्मथप्रौढसुहृदो निशीथस्य यौवनश्रीः । तथा हि ।
दलयन्ति परिशुष्यत्प्रौढतालीविपाण्डु -
स्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः ।
वियति पवनवेगादुन्मुखः केतकीनां
प्रचलित एव सान्द्रः स्फारस्फारं परागः ॥१॥
( स्वगतम् । ) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् । ( प्रकाशम् ) प्रिये मालति, प्रत्यग्रसायंतनस्नानसविशेषशीतलां भवतीं निदाघसंतापशान्तये किंचिद्विज्ञापयामि । तत्किमित्यन्यथैव मां संभावयसि ।
निश्च्योतन्ते सुतनु कबरीबिन्दवो यावदेते
यावन्मध्यः स्तनमुकुलनोर्नार्द्रभावं जहाति ।
यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि -
स्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥२॥
अयि मालति निरनुक्रोशे,
जीवयन्निव समूढसाध्वस -
स्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बित -
स्यन्दिचन्द्रमणिहारविभ्रमः ॥३॥
अथवा दूरे तावदेतत् । कथमालापसंविभागस्यापभाजनमयं जनो भवत्याः ।
दग्धं चिराय मलयानिलचन्द्रपादै -
र्निर्वापितं तु परिरभ्य वपुर्न नाम ।
आमत्तकोकिलरुतव्यथिता तु हृद्या -
मद्य श्रुतिः पिबतु किंनरकण्ठि वाचम् ॥४॥
अवलोकिता - अइ अणिव्वहणसीले, जं दाणिं मुहुत्तमेत्तन्दरिदमाहवा दुम्मणाअन्ती मह पुरदो भणासि । चिराअदि अज्जउत्तो । अवि णाम किअच्चिरेण पेक्खिस्सं, जेण पुणो विवड्ढिआसेससज्झसा विसुमरिअणिमेसविग्धं ओलोअन्ती एवं भणिस्सं । दुउणिआवेट्ठणपरिरब्भणेण संभावइस्सं त्ति । स जेव्व अअं परिणामो ।
( मालती सासूयमिव तां पश्यति । )
माधव :- ( अपवार्य । ) अहो भगवत्याः प्रथमान्तेवासिन्याः सर्वतोमुखं बैदग्ध्यमक्षय्यसुभाषितरत्नसंचारसंस्करणम् । ( प्रकाशम् । ) प्रिये, सत्यमवलोकिता वदति ।
( मालती मूर्धानं चालयति । )
माधव :- शापितासि मम लवङ्गिकावलोकितयोश्च जीवितेन यदि मे न कथयसि ।
मालती - णाहं किं वि जाणामि । ( इत्यर्धोक्ते लज्जां नाटयति । )
माधव :- अहो अनवसितार्थरम्यवचसश्चारुता । ( सहसा निरूप्य । ) अवलोकिते, किमेतत् ।
बाष्पाम्भसा मृगदृशो विमलः कपोलः
प्रक्षाल्यते सपदि राजत एष यस्मिन् ।
गण्डूषपेयमिव कान्त्यमृतं पिपासु -
रिन्दुर्निवेशितमयूखमृणालदण्डः ॥५॥
अवलोकिता - सहि, किं दाणिं उच्चलिअबाहुप्पीडं रोदिअदि ।
मालती - सहि, केच्चिरं लव्ङ्गिआए असण्णिहाणदुक्खं अनुहविस्सं । पउत्तिलाहो वि से दुल्लहो ।
माधव :- अवलोकिते, किं नामैतत् ।
अवलोकिता - तुह जेव्व वअणोवण्णासेण एसा लवङ्गिअं सुमरिअ ताए पउत्तिलाहणिमित्तं उत्तम्मिअदि ।
माधव :- नन्विदानीमेव ह मया कलहंसः प्रेषितः । गच्छ त्वं प्रच्छन्नमुपगम्य नन्दनावसथप्रवृत्तिमुपलभस्वेति । ( साशङ्कम् । ) अवलोकिते, अपि नाम बुद्धरक्षिताप्रयत्नः फलोदर्क एव मदयन्तिकां प्रति स्यात् ।
अवलोकिता - महाभाअ, पढमं जेव्व सदूलणहरालंकिदस्स मअरन्दस्स मोहविच्छेअं णिवेदअन्तीए भअवदीए णिउत्तेण भवदा मालदीए समं जीविदेण हिअअं पसादीकिदं । को वि संपदं मदअन्तिआलहो वड्ढावेदि । तस्स किं दाणिं पारितोसिअं हविस्सदि ।
माधव :- अनुयोक्तव्यमेवानुयुक्तोऽस्मि । ( हृदयमवलोक्य । ) इयमस्ति मालतीप्रथमदर्शनाभिषङ्गसाक्षिणी कामकाननालंकारस्य लक्ष्मीवतः केसरतरोः प्रसवमाला ।
प्रेम्णा मद्ग्रथितेति वा प्रियसखीहस्तोपनी तेति वा
विस्तारिस्तनकुम्भकुङ्मलभरोत्सङ्गेन संभाविता ।
संप्राप्तेऽप्यथ पाणिपीडनविधौ मां प्रत्यपेताशया
या मय्येव लवङ्गिकेत्यवगते सर्वस्वदायः कृता ॥६॥
अवलोकिता - सहि मालदि, वल्लहा क्खु दे इअं वउलमाला । एसा दाणिं परस्स हत्थं गमिस्सदि ।
मालती - पिअं पिअसही उवदिसदि । अवलोइदे, उभअं वि तुमं जेव्व उवदिस ।
अवलोकिता - कहं पदसद्दो विअ ।
माधव :- ( नेपथ्याभिमुखमवलोक्य । ) अये, कलहंसः संप्राप्तः ।
मालती - दिट्ठिआ वड्ढसि मदअन्तिआलाहेण ।
माधव :- ( सहर्षं परिष्वज्य । ) प्रियं नः । ( इति बकुलमालां कण्ठे ददाति । )
अवलोकिता - णिव्वूढो भअवदीए संभावणाभारो बुद्धरक्खिदाए ।
मालती - ( सहर्षम् । ) अम्हेहिं वि पिअसही लवङ्गिआ दीसइ । ( इत्युत्तिष्ठति । )
( ततः प्रविशति संभ्रान्तः कलहंसो बुद्धरक्षिता लवङ्गिका मदयन्तिका च । )
सर्वा : - परित्ताउदु महाभाओ । अद्धमग्गे क्खु णअररक्खिपुरिसाभिओओ मअरन्दस्स जादो । तदो तक्कालमिलिदेण कलहंसएण समं अम्हे अनुप्पेसिदाओ ।
कलहंस :- जह इदोमुहागदेहिं अम्हेहिं कलअलो सुदो, तह तक्केमि अण्णं वि पारक्कअं बलं उवागदं त्ति ।
मालत्यवलोकिते - इअद्धि । समं जेव्व हरिसुव्वेअसंभेदो उवणदो ।
माधव :- सखि मदयन्तिके, स्वागतम् । अनुगृहीतमसाद्गृहं भवत्या । ननु स्वस्था भवन्तु भवत्यः । एकाकिनोऽपि बहुभिरभियोग इति यत्किंचिदेतद्वयस्यस्य ।
हरेरतुलविक्रमप्रणयलालसः साहसे
स एव भवति क्कणत्कररुहप्रचण्डः सखा ।
स्फुटत्करटकोटरस्खलितदानसिक्तानन -
द्विपेश्वरशिरःस्थिरास्थिदलनैकवीरः करः ॥७॥
तदहमपि विक्रान्तिपूतं विलसतः प्रियसुहृदः प्रत्यनतरीभवामि । ( विकटं परिक्रम्य कलहंसकेन सह निष्क्रान्तः । )
अवलोकितादय :- अवि णाम अप्पदिहदा पडिणिव्वट्टिस्सन्दि महाणुहावा ।
मालती - सहिओ बुद्धरक्खिदावलोइदाओ, तुरिअं गदुअ भअवदीए उत्तन्दं णिवेदेहो । तुमं वि सहि लवङ्गिए, तुरिअं विण्णावेहि अज्जउत्तं । उइ दाव तुम्हाणं अम्हे अणुकम्पणीआओ तदो अप्पमत्तं परिक्कमेद्धति ।
( मालतीमदयन्तिकावर्जसत्वास्तयेति निष्क्रान्ताः । )
मालती - हद्धि । ण जाणी अदि कहं इयदी वेला अतिक्कमेम । होदु । पिअसहीए लवङ्गिआए पडिणिउत्तिमग्गं आलोअन्ती चिट्ठिस्सम् । ( परिक्रामति । साशङ्कम् । ) फुरिदं मे वामं अवामनअणेन । ( उपविशति । )
( ततः प्रविशति कपालकुण्डला । )
कपालकुण्डला - आः पापे, तिष्ठ ।
मालती - ( सत्रासम् । ) हा अज्जउत्त । ( इति वाक्स्तम्भं नाटयति । )
कपालकुण्डला - ( सक्रोधहासम् । ) नन्वाक्रन्द, आक्रन्द ।
त्वद्वल्लभः क्क नु तपस्विजनस्य हन्ता
कन्याविटः पतिरसौ परिरक्षतु त्वाम् ।
श्येनावपातचकिताननवर्तिकेव
किं नेक्षसे ननु मया कवलीकृतासि ॥८॥
यावच्छ्रीपर्यतमुपनीय प्रतिपर्व तिलश एनां निकृत्य दुःखमारिणीं करोमि । ( इति मालतीमादाय निष्क्रान्ता । )
मदयन्तिका - अहं वि मालदीं जेव्व अणुवट्टिस्सं । ( परिक्रम्य । ) सहि मालदि ।
लवङ्गिका - ( प्रविश्य । ) सहि मदअन्तिए, लवङ्गिआ क्खु अहं ।
मदयन्तिका - अइ, संभाविदो तुए महाणुहाओ ।
लवङ्गिका - णहि णहि । सो क्खु उज्जानवाडणिग्गमादो जेव्व कलअलं सुणिअ साक्खेवावबिद्धविअडणिओरुदण्डणिट्ठुरं पधाविअ पराणीअं पविट्टो । तदो पडिणिउत्तम्हि मन्दभाइणी । सुणोमि अ घरे घरे गुणाणुराअणिब्भरस्स पोरलोअस्स हा माहव महाभाअ हा मअरन्द साहसिअ त्ति परिदेवणाओ । महाराओ किल मन्तिधीआणं विप्पलम्भवुत्तन्दं सुणिअ संजादमच्छरावेओ तक्खणविसज्जिदाणेअप्पोढपदाइणिवहो चन्दादवसोहिदसोहसिहरट्ठिदो पेक्खदि त्ति मन्तिअदि ।
मदयन्तिका - हा, हदम्हि मन्दभाइणी ।
लवङ्गिका - सहि, मालदी उण कहिं ।
मदयन्तिका - सहि, सा क्खु पढमं जेव्व दे मग्गं ओलोइदुं पसरिदा । पच्चादो अहं तं ण पेक्खामि । सा णाम उज्जाणगहणं पविट्टा हवे ।
लवङ्गिका - सहि, तुरिअं अण्णेसम्ह । अदिकातरा मे पिअसहीउववणट्टिदा इमस्सिं अवसरे न धारेदि अत्ताणं ।
लवङ्गिकामदयन्तिके - ( त्वरितं परिक्रामन्त्यौ । ) सहि मालदि, णं भणामि सहि मालदि त्ति । ( इतस्ततः परिक्रामतः । )
कलहंस :- ( हृष्टः प्रविश्य । ) दिट्टिआ कुसलेण म्हि णिग्गदो संघट्टमग्गादो । हिमाणहे । पेक्कामि विअ णिम्मलणिरन्तरव्वुत्ततरवारिधारापडिफलिदचन्दकिरणुज्जुलन्तपिञ्जरिअभीसणदंसणं मदलीलाकदिदकामलविअडभुअदण्डाववित्थारिदुध्हक्खुभिदकलिन्दतणआसोत्तस्संणिहं विसङ्खलुप्पडिदणिद्दआणन्दमअरन्दक्खोभविअलपडिरोधपडिणिउत्तणुद्धासमत्थगअणङ्गणावआसविअसन्दकोलाहलं पारक्कसमूहं दाणिं वि पेक्खामि विअ । सुमरामि अ भीसणभुअवज्जखचितपञ्जरपज्जत्थसमरविमुहसुभटहत्थावलुत्तविविहाउहोवरुद्धअसेसरिपुसेण्णविअडापसारवइरिक्कमग्गसंचारणिव्वत्तिदविसमसाहसं णाहं माहवम् । अहो गुणाणुराओ णरिन्दस्स, जं दाणिं सोधसिहरावदिण्णपडिहारविणओवण्णासपसमिदविरोहो सोम्मेक्करसोवणीदमाहवमअरन्दमुहचन्दे ओलोइअ वारंवारं पसारिदसिणिद्धलोअणो कलहंसआदो अहिजणं सुणिअ निव्वत्तिअमहग्घगुरुबहुमाणो फुरन्तमच्छरेस्सावेल्लक्खमसीमलिणिदमुहे भूरिवसुणन्दणे महुरोवण्णासेहिं किं दाणिं तुम्हाणं भुवणाभोअभूसणेहिं महाणुहावेहिं णवजोवणगुणाभिरामेहिं जामाउएहिं परितोसे त्ति पडिबोधिअ गओ अब्भन्दरं राआ । इमे वि माहवमअरन्दा आअच्छन्दि इति अहं वि एदं भअवदीए वुत्तन्दं णिवेदेमि । ( इति निष्क्रान्तः । )
( ततः प्रविशतो माधवमकरन्दौ । )
माधव :- अहो, प्रेयसः सर्वपुरुषातिशायि निर्व्याजमूर्जितं तेजः । तथा हि ।
दोर्निष्पेषविशीर्णसंचयदलत्कङ्कालमुन्मथ्नतः
प्राग्वीराननुपात्य तत्प्रहरणान्याच्छिद्य विक्रामतः ।
उद्वेल्लद्धनरुण्डखण्डनिकराकीर्नस्य संख्योदधे -
र्द्वेधास्तम्भितपत्तिपङ्क्तिविकटः पन्थाः पुरस्तादभूत् ॥९॥
वयस्य, नन्वनुशयस्थानमेतत् । पश्य ।
अद्यैवेन्दुमयूखखण्डनिचितं पीतं निशीथोत्सवे
यैर्लीलापरिरम्भदायिदयितागण्डूषशेषं मधु ।
संप्रत्येव भवद्भुजार्गलगुरुव्यापारभग्नास्थिभि -
र्गात्रैस्ते कथयन्त्यसारभिदुरान्प्रायेण संसारिणः ॥१०॥
स्मर्तव्यं तु नरपतेरस्य सौजन्यम् । यदपराद्धयोरप्यनपराद्धयोरिव नौ कृतोपसदनं चेष्टितवान् । तदेहि, मालतीसमक्षमधुना मदयन्तिकाहरणवृत्तान्तं विस्तरतः कथ्यमानमनुभवामः । ( पुरोऽवलोक्य । ) कथं शून्या इवामी प्रवेशाः ।
मकरन्द :- नूनं शङ्क आवयोः समरसंकटोद्वेगेन व्याकुलत्वादितस्ततो भ्रमन्त्यस्ता अत्रैवात्मानं विनोदयन्ति ।
माधव :-
कथयति त्वयि सस्मितमालती -
वलितलोककटाक्षपराहतम् ।
वदनपङ्कजमुल्लसितत्रपं
स्तिमितदृष्टि सखी नमयिष्यति ॥११॥
अयमसावुद्यानवाटः ।
( प्रवेशं नाटयतः । )
लवङ्गिकामदयन्तिके - सहि मालदि । ( सहसा विलोक्य सहर्षम् )
दिट्ठिआ पुणो वि अ ते महाणुहावा दिस्सन्दि ।
माधवमकरन्दौ - भवत्यौ, क्क सा मालती ।
उभे - कुदो मालदी । पदसद्देन अम्हे विप्पलद्धाओ मन्दभाइणीओ ।
माधव :- भवत्यौ, कथंकथमपि सहस्रधैव ध्वंसते मे हृदयम् ।
ततः स्फुअमभिधीयताम् ।
मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे -
रविरतमनुबद्धोत्कम्प एवान्तरात्मा ।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं
वचनमपि भवत्योः सर्वथा हा हतोऽस्मि ॥१२॥
मदयन्तिका - तह क्खु इदो विणिग्गदे महाणुहावे बुद्धरक्खिदं अवलोइदं अ भअवदीसआसं विसज्जिअ अप्पमादणिमित्तं विण्णवेहि अज्जउतं त्ति लवङ्गिआ अनुप्पेसिदा । तदो उत्तम्ममाणाअ एदाए मग्गं ओलोइदुं अग्गदो पसरिदा मालदी । पच्चादो अहं । तदो ण पेक्खामि । तदो अम्हेहिं मग्गिदा एत्थ विडवन्दराइं जाव तुम्हे दिट्ठति ।
माधव :- हा प्रिये मालति,
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य -
द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि ।
कलयसि कलितोऽहं वल्लभे देहि वाचं
भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥१३॥
उभे - हा पिअसहि, कहिं गआसि ।
मकरन्द :- वयस, किमित्यविज्ञाय वैक्लव्यमवलम्ब्यते ।
माधव :- सखे, त्वमपि किं न जानासि मत्स्नेहदुःखितायास्तस्याः कातर्यचेष्टितानि ।
मकरन्द :- अस्त्येतत् । किंतु भगवतीपादमूलगमनमप्याशङ्क्यते । तदेहि । तत्र तावद्गच्छावः ।
उभे - एदं वि संभावीअदि ।
माधव :- एवमस्तु नाम । ( इति परिक्रामति । )
मकरन्द :- ( स्वगतम् । )
याता भवेद्भगवतीभवनं सखी सा
जीवन्त्यथैष्यति न वेत्यभिशङ्कितोऽस्मि ।
प्रायेण बान्धवसुहृत्प्रियसंगमादि
सौदामिनीस्फुरणचञ्चलमेव सौख्यम् ॥१४॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवेऽष्टमोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP