मालतीमाधवम् - पञ्चमोऽङ्कः ।

एतद् भवभूतिना लिखितं कल्पनारम्यनाटकं वर्तते।


( ततः प्रविशत्याकाशयानेन भीषणोज्ज्वलवेषा कपालकुण्डला । )
कपालकुण्डला -
षडधिकदशनाडीचक्रमध्यस्थितात्मा
हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः ।
अविचलितमनोभिः साधकैर्मृग्यमाणः
स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥१॥
इयमिदानीमहम्
नित्यं न्यस्तषडङ्गचक्रनिहितं हृत्पद्ममध्योदितं
पश्यन्ती शिवरूपिणं लववशादात्मानमभ्यागता ।
नाडीनामुदयक्रमेण जगतः पञ्चामृताकर्षणा -
दप्राप्तोत्पतनश्रमा विघटयन्त्यग्रेनभोऽम्भोमुचः ॥२॥
उद्वृत्तस्खलितकपालकण्ठमाला -
संघट्टक्कणितकरालकिंकिणीकः ।
पर्याप्तं मयि रमणीयडामरत्वं
संधत्तें गगनतलप्रयाणवेगः ॥३॥
तथा हि ।
विष्वग्वृत्तिर्जटानां प्रचलति निबिडग्रन्थिबन्धोऽपि भारः
संस्कारक्काणदीर्घं पटु रटति कृतावृत्ति खट्वाङ्गघण्टा ।
ऊर्ध्वं धूनोति वायुर्विवृतशवशिरःश्रेणिकुञ्जेषु गुञ्ज -
न्नुत्तालः किंकिणीनामनवरतरणत्कारहेतुः पताकाम् ॥४॥
( परिक्रम्यावलोक्य च । ) इदं च पुराणनिम्बतैलाक्तपरिभृज्यमानरसोनकरसगन्धिभिश्चिताधूमैरधस्ताद्विभावितस्य श्मशानवाटस्य नेदीयः करालयतनम् । यत्र पर्यवसितमन्त्रसाधनस्यास्मद्गुरोरघोरघण्टस्याज्ञया सविशेषमद्य मया पूजासंभारः संनिधापनीयः । कथितं हि मे गुरुणा - ‘ वत्से कपालकुण्डले, भगवत्याः करालया यन्मया प्रागुपयाचितं स्त्रीरत्नमुपहर्तव्यम्, तदत्रैव नगरे विदितमास्ते ’ इति । ( सकौतुकमवलोक्य । ) तत्कोऽयमतिगम्भीरमधुराकृतिरुत्तम्भितकुटिलकुन्तलभारकृपाणपाणिः श्मशानमवतरति । य एषः ।
कुवलयदलश्यामोऽप्यङ्गं दधत्परिधूसरं
ललितविकटन्यासः श्रीमान्मृगाङ्कनिभाननः ।
हरति विनयं वामो यस्य प्रकाशितसाहसः
प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः ॥५॥
( निरूप्य । ) स एष कामन्दकीसुहृत्पुत्रो महामांसस्य पणयिता माधवः । तत्किमनेन । यथासमीहितं संपादयामि । विगलितप्रायश्च पश्चिमसंध्यासमयः । तथा हि ।
व्योम्नस्तापिच्छगुच्छावलिभिरिव तमोवल्लरीभिर्व्रियन्ते
पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमतीनूतने मज्जतीव ।
वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं
प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥६॥
( इति निष्क्रान्ता । )
इति शुद्धविष्कम्भः ।
( ततः प्रविशति यथानिर्दिष्टो माधवः । )
माधव :- ( साशंसम् । )
प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया -
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा -
दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥७॥
अपि च ।
अतिमुक्तकग्रथितकेसरावली -
सतताधिवाससुभगार्पितस्तनम् ।
अपि कण्ठजाहविनिवेशिताननः
प्रियया तदङ्गपरिवृत्तिमाप्नुयाम् ॥८॥
अथवा दूरे तावदेतत् । इदमेव तावत्प्रार्थये ।
संभूयेव सुखानि चेतसि परं भूमानमातन्वते
यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः ।
यद्बालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं
तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ॥९॥
यत्सत्यमधुना संदर्शनं नेति स्वल्पोऽपि विशेष । मग हि संप्रति सातिशयप्राक्तनोपलम्भसंभावितात्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वॄत्तिसारूप्यतश्चैतन्यम् । तथा हि ।
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि -
श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥१०॥
( नेपथ्ये कलकलः । )
माधव :- ( आकर्ण्य । ) अहो, संप्रतीतस्ततः प्रवर्तमानकौणपनिकरस्य महती श्मशानवाटस्य रौद्रता । अत्र हि,
पर्यन्तप्रतिरोधिमेदुरघनस्त्यानं चिताज्योतिषा -
मौज्ज्वल्यं परभागतः प्रकटयत्याभोगभीमं तमः ।
संसक्ताकुलकेलयः किलकिलाकोलाहलैः संमदा -
दुत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते ॥११॥
तदुचैराघोषयामि । भो भोः श्मशाननिकेतनाः कटपूतनाः,
अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् ।
विक्रीयते महामांसं गृह्यतां गृह्यतामिति ॥१२॥
माधव :- कथामाघोषाणानन्तरमेव सर्वतः समुच्चलदुत्तालतुमुलव्यक्तकलकलाकुलः प्रचलित इवाविर्भवद्भूतसंकटः श्मशानवाटः । आश्चर्यम् ।
कर्णाभ्यर्नविदीर्णसृक्कविकटव्यादानदीप्ताग्निभि -
र्दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते ।
विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्नभो
लक्ष्यालक्ष्याविशुष्कदीर्घवपुषामुल्कामुखानां मुखैः ॥१३॥
अपि च ।
एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृका -
नुत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः ।
खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत -
स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥१४॥
( समन्तादवलोक्य विहस्य च । ) अहो प्रकारः पिशाचानाम् । ततः ।
पृथुचलरसनोग्रमास्यगर्तं
दधति विदार्य विशीर्णशुष्कदेहाः ।
चलद्जगरघोरकोटराणां
द्युतिमिह दग्धपुराणरोहिणानाम् ॥१५॥
( परिक्रम्यवलोक्य च । ) हन्त, अतिबीहत्समग्रतो वर्तते ।
उत्कृत्त्योत्कत्त्य कृतिं प्रथममथ पृथूत्सेधभूयांसि मांसा -
न्यंसस्फिक्पृष्ठपीठाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आत्तस्नाय्वानेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का -
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥१६॥
अपि च ।
निष्टापस्विद्यदस्थ्नः क्कथनपरिगलन्मेदसः प्रेतकाया -
न्कृष्ट्वा संसक्तधूमानपि कुणपभुजो भूयसीभ्यश्चिताभ्यः ।
उत्पक्कस्रंसि मांसं प्रचलदुभयतः संभिनिर्मुक्तमारा -
देते निष्कृष्य जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति ॥१७॥
( बिहस्य । ) अहो, प्रादोषिकः प्रमोदः पिशाचानाम् ।
आन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल -
व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
एताः शोणितपङ्क्कुङ्कुमजुषः संभूय कान्तैः पिब -
न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥१८॥
( परिक्रम्य । पुनः ‘ अशस्त्रपूतम् - ’ इत्यादि पठित्वा । ) कथं नामातिभीषणविभीषिकाविकारैर्झटित्यपक्रान्तं पिशाचैः । अहो निःसत्त्वाः सर्वे । ( सनिर्वेदम् । ) विचितश्चैष सर्वः श्मशानवाटः । तथा खल्वियं पुरत एव,
गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवेल्लित -
क्रन्दत्फेरवचन्डधात्कृतिभृतप्राग्भारभीमैस्तटैः ।
अन्तःकीर्नकरङ्ककर्परतरत्संरोधिकूलंकष -
स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥१९॥
( नेपथ्ये । )
हा ताद णिक्करुण, एसो दाणि दे णरेन्दचित्ताराहणोवअरणं जनो विपज्जइ ।
माधव :- ( साकूतमाकर्ण्य । )
नादस्तावद्विकलकुररीकूजितस्निग्धतार -
श्चित्ताकर्षीं परिचित इव श्रोत्रसंवादमेति ।
अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं
गात्रस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत् ॥२०॥
करालायतनाचायमुच्चरन्करुणध्वनिः ।
विभाव्यते ननु स्थानमनिष्टानां तदीदृशाम् ॥२१॥
भवतु । पश्यामि । ( इति परिक्रामति । )
( ततः प्रविशतो देवतार्चनाव्यप्रौ कपालकुण्डलाघोरघण्टौ कृतवध्यचिह्ना मालती च । )
मालती - हा ताद णिक्करुण, एसो दाणि दे णरेन्दचित्ताराहणोवअरणं जणो विपज्जइ । हा अम्ब, हिअए हदासि दुव्वारदेव्वदुव्विलसिदेण । हा मालदीमअजीविदे, मह कल्लाणसाहणेक्कसुहसअलव्वावारे भअवदि कामन्दइ, चिरस्स जाणाविदासि दुक्खं सिणेहेण । हा पिअसहि लवङ्गिए, सिविणअवसरमेत्तदंसणा अहं दे संवुत्ता ।
माधव :- हन्त, संप्रति निरस्त एव मे संदेहः । तदपि नाम जेवन्तीमेना संभावयेयमिति । ( झटिति परिक्रामति । )
कापालिकौ - देव चामुण्डे भगवति, नमस्ते ।
सावष्टम्भनिशुम्भसंभ्रमनमद्भूगोलनिष्पीडन -
न्यञ्चत्कर्परकूर्मकम्पविगलद्ब्रह्माण्डखण्डस्थिति ।
पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं
वन्दे नन्दितनीलकण्ठपरिषब्द्यक्तं तव क्रीडितम् ॥२२॥
अपि च ।
प्रालितकरिकृत्तिपर्यन्तचञ्चन्नखाघातभिन्नेन्दुनिष्यन्दमानामृतश्च्योतजीवत्कपालावलीमुक्तचण्डाट्टहासत्रसद्भूरिभूतप्रवृत्तस्तुति ।
श्वसदसितभुजङ्गभोगाङ्गदग्रन्थिनिष्पीडनोत्फुल्लफुल्लत्फणापीठनिर्यद्विषज्योतिरुज्जृम्भणोड्डामरव्यस्तविस्तारिदोःखण्डपर्यासितक्ष्माधरम् ॥
ज्वलदनलपिशङ्ग्नेत्रच्छटाभारभीमोत्तमाङ्गभ्रमिप्रस्तुतालातचक्रक्रियास्यूतदिग्भागमुत्तुङ्गखट्वाङ्गध्वजोद्धूतिविक्षिप्ततारागणम् ।
प्रमुदितकटपूतनोत्तालवेतालतालस्फुटत्कर्णसंभ्रान्तगौरीघनाश्लेषहृष्यन्मनस्त्र्यम्बकानन्दि वस्ताण्डवं देवि भूयादरिष्ट्यै च हृष्ट्यै च नः ॥२३॥
( इत्यभिनयतः । )
माधव :- ( विलोक्य । ) हा धिक् प्रमादम् ।
न्यस्तालक्तकरक्तमाल्यवसना पषण्डचण्डालयोः
पापारम्भवतोर्मृगीव ऋकयोर्भीरुर्गता गोचरम् ।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते
हा धिक्कष्टमनिष्टमस्तकरुणः को‍ऽयं विधेः प्रक्रमः ॥२४॥
कपालकुण्डला -
तं भद्रे स्मर दयितोऽत्र यस्तवाभू -
दद्य त्वां त्वरयति दारुणः कृतान्तः ।
मालती - हा देव माहव, परलोअगदो वि तुम्हेहिं सुमरिदव्वो अअं जणो । ण हु सो उवरदो जस्स वल्लहो सुमरेदि ।
कपालकुण्डला - हन्त, माधवानुरक्तेयं तपस्विनी ।
अघोरघण्ट :- ( शस्त्रमुद्यम्य । )
चामुण्डे भगवति मन्त्रसाधनादा -
वुद्धिष्टामुपनिहितां भजस्व पूजाम् ॥२५॥
माधव :- ( सहसोपसृत्य खङ्गं प्रकोष्ठेन निक्षिप्य । ) आः कापालिकापसद दुरात्मन्, अपेहि । प्रतिहतोऽसि ।
मालती - ( सहसावलोक्य । ) परित्ताअदु महाभाओ । ( इति माधवमालिङ्गति । )
माधव :- महाभागे, न भेतव्यम् ।
मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल -
प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते ।
सुतनु विसृजोत्कम्पं संप्रत्यसाविह पाप्मनः
फलमनुभवत्युरं पापः प्रतीपविपाकिनः ॥२६॥
अघोरघण्ट :- आः, क एष पापोऽस्माकमन्तरायः संवृत्तः ।
कपालकुण्डला - भगवन्, स एवास्याः स्नेहभूमिः कामन्दकीसुहृत्पुत्रो महामांसस्य पणयिता माधवः ।
माधव :- ( सास्त्रम् । ) महाभागे किमेतत् ।
मालती - ( चिरादाश्वस्य । ) महाभाअ, अहं वि ण जाणामि एत्तिअं जाणामि । उवरिअलिन्दं जेव्व पसुत्ता इह पडिबुद्धम्हि । तुम्हे उण कहिं ।
माधव :- ( सलज्जम् । )
त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा
भूयासमित्यभिनिवेशकदर्थ्यमानः ।
भ्राम्यन्नृमांसपणमाय परेतभूमा -
वाकर्ण्य भीरु रुदितानि तवाअतोऽस्मि ॥२७॥
मालती - ( अपवार्य । ) कहं मम कालणादो एव्व एद अप्पणिरपेक्खं परिम्भमन्दि ।
माधव :- अहो नु खलु भोः, तदेतत्काकतालीयं नाम । संप्रति हि
राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे
दस्योरस्य कृपाणपातविषयादाछिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रतुं करुणया विक्षोभितं विस्मया -
त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते ॥२८॥
अघोरघण्ट :- अरे ब्राह्मणडिम्भ,
व्याघ्राघातमृगीकृपाकुलमृगन्यायेन हिंसारुचेः
पाप प्राण्युपहारकेतनजुषः प्राप्तोऽसि मे गोचरम् ।
सोऽ‍हं प्राग्भवतैव भूतजननीमृध्नोमि खङ्गाहति -
व्यस्तस्कन्धकबन्धरन्ध्ररुधिरप्राग्भारनिष्यन्दिना ॥२९॥
माधव :- आः दुरात्मन्पाखण्डचण्डाल,
असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम् ।
अदर्पं कंदर्पं जननयजनिर्माणमफलं
जगज्जीर्णारण्य कथमसि विधातुं व्यवसितः ॥३०॥
अपि च रे रे पाप,
प्रणयसखीसलीलपरिहासरसाधिगतै -
र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिततः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥३१॥
अधोरघण्ट :- आः दुरात्मन्, प्रहर प्रहर । नन्वयं न भवसि ।
मालती - पसीद णाह साहसिअ, दारुणो क्खु अअं हदासो । ता परित्ताअसु मं । णिवत्तअदु इमादो अनत्थसंकटादो ।
कपालकुण्डला - भगवान्, अप्रमत्तो भूत्वा दुरात्मानं व्यापादय ।
माधवाघोरघण्टौ - ( मालतीकपालकुण्डले प्रति । ) अयि भीरु,
धैर्यं निधेहि हृदये हत एष पापः
किं वा कदाचिदपि केनचिदन्वभावि ।
सारङ्गसंहृतिविधाविभकुम्भकूट -
कुट्टाकपाणिकुलिशस्य हरेः प्रमादः ॥३२॥
( नेपथ्ये कलकलः । सर्व आकर्णयन्ति । )
भो भो मालत्यन्वेषिणः, इयममात्यभूरिवसुमाश्वासयन्त्यप्रतिहतप्रज्ञाचक्षुर्भगवती कामन्दकी समादिशति, पर्यवष्टभ्यतामेतत्करालायतनम् ।
नाघोरघण्टादन्यस्मात्कर्मैतद्दारुणादभूत् ।
न करालोपहाराच्च फलमन्यद्विभाव्यते ॥३३॥
कपालकुण्डला - भगवान्, पर्यवष्टब्धाः स्मः ।
अघोरघण्ट :- संप्रति विशेषतः पौरुषस्यावसरः ।
मालती - हा ताद, हा भअवदि ।
माधव :- भवतु बान्धवसमाजसुस्थितामेनां विधाय तत्समक्षमेनं व्यापादयामि । ( मालतीमन्यतः प्रेषयन्परिक्रामति । )
( माधवाघोरघण्टावन्योन्यमुद्दिश्य । -
आः, रे रे पाप,
कठोरास्थिग्रन्थिव्यतिकरघणात्कारमुखरः
खरस्नायुच्छेदक्षणविहितवेगव्युपरमः ।
निरातङ्कः पङ्केष्विव पिशितखण्डेषु निपत -
न्नसिर्गात्रंगात्रं सपदि लवशस्ते विकिरतु ॥३४॥
( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे पञ्चमोऽङ्कः ।

N/A

References : N/A
Last Updated : June 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP