चतुर्थ सर्ग - श्लोक २१ ते ४०
श्रीविद्यारण्यस्वामिविरचितः
स हि जातु गुरोः कुले वस -
न्सवयोभिः सह मैक्ष्यलिप्सया ॥
भगवान्भवनं द्विजन्मनो
धनहीनस्य विवेश कस्यचित् ॥२१॥
तमवोचत तत्र सादरं
बटुवर्यं गृहिणः कुटुम्बिनी ॥
कृतिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते ॥२२॥
विधिना खलु वञ्चिता वयं
वितरीतुं बटवे न शक्नुमः ॥
अपि *भैक्ष्यमकिंचनत्वतो
धिगिदं जन्म निरथकं गतम् ॥२३॥
इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ॥
करुणं वचनं निशम्य सोऽ -
प्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥२४॥
स मुनिर्मुरभित्कुटुम्बिनीं
पदचित्रैर्नवनीतकोमलैः ॥
मधुरैरुपतस्थिवांस्तवै -
द्विंजदारिद्र्यदशानिवृत्तये ॥२५॥
अथ कैटभजित्कुटुम्बिनी
तडिदुद्दामनिजाङ्गकान्तिभिः ॥
सकलाश्च दिशः प्रकाशय -
न्त्यचिरादाविरभूत्तदग्रतः ॥२६॥
अभिवन्द्य सुरेन्द्रवन्दितं
पदयुग्मं पुरतः कृताञ्जलिम् ॥
ललितस्तुतिभिः प्रहर्षिता
तमुवाच स्मितपूर्वकं वचः ॥२७॥
विदितं तव वत्स हृद्गतं
कृतमेभिर्न पुराभवे शुभम् ॥
अधुना मदपाङ्गपात्रतां
कथमेते महितामवाप्नुयुः ॥२८॥
इति तद्वचनं स शुश्रुवा -
न्निजगादाम्ब मयीदमर्पितम् ॥
फलमद्य ददस्व तत्फलं
दयनीयो यदि तेऽहमिन्दिरे ॥२९॥
अमुना वचनेन तोषिता
कमला तद्भवनं समन्ततः ॥
कनकामलकैरपूरय -
ज्जनताया हृदयं च विस्मयैः ॥३०॥
अथ चक्रभृतो वधूमये
सुकृतेऽन्तर्धिमुपागते सति ॥
प्रशशंसुरतीव शंकरं
महिमानं तमवेक्ष्य विस्मिताः ॥३१॥
दिवि कल्पतरुर्यथा तथा
भुवि कल्याणगुणो हि शंकरः ॥
सुरभूसुरयोरपि प्रियः
समभूदिष्टविशिष्टवस्तुदः ॥३२॥
अमरस्पृहणीयसंपदं
द्विजवर्यस्य निवेशमात्मवान् ॥
स विधाय यथापुरं गुरोः
सविधे शास्त्रवराण्यशिक्षत ॥३३॥
वरमेनमवाप्य भेजिरे
परभागं सकलाः कला अपि ॥
समवाप्य निजोचितं पतिं
कमनिया इव वामलोचनाः ॥३४॥
सरहस्यसमग्रशिक्षिता -
खिलविद्यस्य यशस्विनो वपुः ॥
उपमानकथाप्रसङ्गम -
प्यसहिष्णु श्रियमन्वपद्यत ॥३५॥
जयति स्म सरोरुहप्रभा -
मदकुण्ठीकरणक्रियाचरणम् ॥
द्विजराजकरोपलालितं
पदयुग्मं परगर्वहारिणः ॥३६॥
जलमिन्दुमणिं स्रवेद्यदि
यदि पद्मं दृषदस्ततः सरः ॥
यदि तत्र भवेत्कुशेशयं
तदमुष्याङ्घ्रितुलामवाप्नुयात् ॥३७॥
पादौ पद्मसमौ वदन्ति कतिचिच्छ्रीशंकरस्थानघौ
वक्त्रं च द्विजराजमण्डलनिभं नैतद्द्वयं सांप्रतम् ॥
प्रेष्यः पद्मपदः किल ब्रिजगति ख्यातः पदं दत्तवा -
नम्भोजे द्विजराजमण्डलशतैः प्रेष्येरुपास्यं मुखम् ॥३८॥
मुहुः सन्तो नैजं हृदयकमलं निर्मलतरं
विधातुं योगीन्द्राः पदकमलमस्मिन्निदधति ॥
दुरापां शक्राद्यैर्वमति वदनं यन्नवसुधां
ततो मन्ये पद्मात्पदमधिकमन्दोश्च वदनम् ॥३९॥
तत्त्वज्ञानफलेग्रहिर्घनतरव्यामोहमुष्टिंधयो
निःशेषव्यसनोदरंभरिरघप्राग्भारकूलंकषः ॥
लुण्टाको मदमत्सरादिविततेस्तापत्रयारुंतुदः
पादः स्यादमितंपचः करुणया भद्रंकरः शांकरः ॥४०॥
N/A
References : N/A
Last Updated : May 19, 2017
TOP