संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छंकरदिग्विजयः ।|अथ तृतीयः सर्गः| श्लोक २१ ते ४० अथ तृतीयः सर्गः श्लोक १ ते २० श्लोक २१ ते ४० श्लोक ४१ ते ६० श्लोक ६१ ते ८३ तृतीय सर्ग - श्लोक २१ ते ४० श्रीविद्यारण्यस्वामिविरचितः Tags : booksanskritपुस्तकविद्यारण्यसंस्कृत श्लोक २१ ते ४० Translation - भाषांतर इष्टस्य हानेरनभीष्टयोगा - द्भवन्ति दुःखानि शरीरमाजाम् ॥वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१॥न तेऽत्यगादुद्वहनस्य कालः परावमानो न च निःस्वता वा ॥कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२॥न मूढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ॥विद्वत्सु विस्पष्टतयाऽग्रपाठा - त्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३॥आ जन्मनो विहितकर्मनिषेवणं ते स्वप्नेऽपि नास्ति विहितेतरकर्मसेवा ॥तस्मान्न भेयमपि नारकयातनाभ्यः किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४॥निर्बन्धतो बहुदिनं प्रतिपाद्यमानौ वक्तुं कृपाभरयुताविदमूचतुः स्म ॥निर्बन्धतस्तव वदामि मनोगतं मे वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५॥शोणाख्यपुंनदतटे वसतो द्विजस्य कन्या श्रुतिं गतवती द्विजपुंगवेभ्यः ॥सर्वज्ञतापदमनुत्तमरूपवेषां तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६॥पुत्रेण सोऽतिविनयं गदितोऽन्वशाद्द्वौ विप्रौ वधूवरणकर्मनि संप्रवीणौ ॥तावापतुर्द्विजगृहं द्विजसंदिदृक्षू देशानतीत्य बहुलान्निजकार्यसिद्ध्यै ॥२७॥भूभृन्निकेतनगतः श्रुतविश्वशास्त्रः श्रीविश्वरूप इति यः प्रथितः पृथिव्याम् ॥तत्पादपद्मरजसे स्पृहयामि नित्यं साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८॥पुत्र्या वचः पिबंति कर्णपुटेन ताते श्रीविश्वरूपगुरुणा गुरुणा द्विजानाम् ॥आजग्मतुः सुवसनौ विशदाभयष्टी संप्रेषितौ सुतवरोद्वहनक्रियायै ॥२९॥तावार्च्य स द्विजवरौ विहितोपचारै - रायानकारणमथो शनकैरपृच्छत् ॥श्रीविश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥३०॥संप्रेषिती श्रुतवयःकुलवृत्तवर्मैः साधारणीं श्रुतवता स्वसुतस्य तेन ॥याचावहे तव सुतां द्विज तस्य हेतो - रन्योन्यसंघटनमेतु मणिद्वयं तत् ॥३१॥मह्यं तदुक्तमभिरोचत एव विप्रौपृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ॥कन्याप्रदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥३२॥भार्यामपृच्छदथ किं करवाव भद्रे विप्रौ वरीतुमनसौ खलु राजगेहात् ॥एतां सुतां सुतनिभा तव याऽस्ति कन्या ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३॥दूरे स्थितिः श्रुतवयःकुलवृत्तजातं न ज्ञायते तदपि किं प्रवदामि तुभ्यम् ॥वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥३४॥नैवं नियन्तुमनघे तव शक्यमेत - त्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ॥प्रादात्स भीष्मकनृपः खलु कुण्डिनेश - स्तीर्थापदेशमटते त्वपरीक्षिताय ॥३५॥किं केन संगतमिदं सति मा विचारी - र्यो वैदिकीं सरनिमप्रहतां प्रयत्नात् ॥प्रातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनमशिषत्स च भट्टपादः ॥३६॥किं वर्ण्यते सुदति यो भविता वरो नो विद्या धनं द्विजवरस्य न बाह्यवित्तम् ॥याऽन्वेति संततमनन्तदिगन्तभाजं यां राजचोरवनिता न च हर्तुमीशाः ॥३७॥वध्वर्जनावनपरिव्ययगानि तानि वित्तानि चित्तमनिशं परिखेदयन्ति ॥चोरान्नृपात्स्वजनतश्च भयं धनानां शर्मेति जातु न गुणः खलु बालिशस्य ॥३८॥केचिद्धनं निदधते भुवि नोपभोगंकुर्वन्ति लोभवशगा न विदन्ति केचित् ॥अन्येन गोपितमथान्यजना हरन्तितच्चेन्नदीपरिसरे जलमेव हर्तृ ॥३९॥सर्वात्मना दुहितरो न गृहे विधेया - स्ताश्चेत्पुरा परिणयाद्रज उद्गनं स्यात् ॥पश्येयुरात्मपितरौ बत पातयन्तिदुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥४०॥ N/A References : N/A Last Updated : May 18, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP