प्रत्यक्षसूत्रं - श्लोक २०१ ते २५४

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


तदानीं नाsर्थरूपे हि शब्दरूप( १ )त्वसम्भवः ।
न चाsसाधारणांशेन सम्बन्धाsनुगमः क्क चित् ॥२०१॥
तत्र पूर्वाsनपेत्तत्वे यद्यात्माsध्यासशक्तता ।
शब्दस्य प्रथमेsपि स्याच्छ्रवणेsध्यस्तरूपता ॥२०२॥
मम वाच्याsनभिज्ञत्वान्न भवेत्स्मरणं ततः ।
भवतस्त्वर्थरूपस्य वाचकेष्वपि दर्शनात् ॥२०३॥
यथा त्वज्ञातशब्दानां वाच्ये तद्धीर्न जीयते ।
तथैवाsज्ञातवाच्यानामुपलब्धे sपि वाचके ॥२०४॥
तस्मान्नाsतीव वाच्यानां वाचकाsधीनता भवेत् ।
स्मारकत्वाच्च तेष्वेव पारतन्त्र्यं प्रतीयते ॥२०५॥
तेन सम्बन्धवेलायामर्थात्मा योsवसीयते ।
शब्दादपि स एवेति नाsर्थरूपं प्रणश्यति ॥२०६॥
प्रवृत्तौ वा निवृत्तौ वा यां शब्दः कुरुते मतिम् ( १ ) ।
तादात्म्यं तस्य ( २ ) शब्दस्य न कथं चित्प्रतीयते ॥२०७॥
करहस्तादिशब्देभ्यः शब्दरूपस्य भेदतः ।
भिन्नोsर्थः संप्रतीयेत तदध्यारोपकल्पने ॥२०८॥
‘ आत्माsध्यासस्तु सादृश्यादुपरागाच्च दृश्यते ।
न तावदर्थसादृश्यं शब्दस्येह प्रतीयते ॥२०९॥
न चाsनुरागः शब्देन भिन्नदेशस्य युज्यते ’ ।
दूरस्थप्रतिबिम्बं च नाsरूपस्य प्रतीयते ॥२१०॥
शब्दसर्वगतत्वेन यद्यर्थप्राप्तिरुच्यते ।
सर्वाsर्थानां भवेच्छब्दैः सर्वैरेवाsनुरञ्जनम् ॥२११॥
न च भिन्नेन्द्रियग्राह्यं किं चिदस्त्यनुरागकृत् ।
नहि लात्ताsनुरक्तेsपि स्फटिके धीस्त्वगादिभिः ( १ ) ॥२१२॥
अनुमानाssगमौ मिथ्या स्यातामध्यासकल्पने ।
निरूपणस्य मिथ्यात्वात् सर्वाsभावः प्रसज्यते ॥२१३॥
कथमेवं वदेदर्थो नाsनृताद्धि प्रतीयते ॥२१४॥
शुन्यवादोत्तराच्चापि यथाsर्थं बुद्धिशब्दयोः ।
प्रवृत्तिर्न तु तत्तन्त्रमर्थरूपं ( २ ) कदा चन ॥२१५॥
तस्मात्प्रागपि ये शब्दाद्भिन्नैकत्वादि ( ३ ) बुद्धिभिः ।
गृह्यन्ते सर्वदा तेषां परमार्थाsस्तिता भवेत् ॥२१६॥
शब्दाsभ्युपायकेsप्यर्थे तद्भावे च यद्यपि ।
अर्थबुद्धिर्न जायेत नाsर्थे रूपं प्रणश्यति ॥२१७॥
चक्षुरादेरभावे हि रूपाद्यात्मा न गृह्यते ।
स्वरूपनाशो ( १ ) रूपादेस्तावन्मात्रेण नेष्यते ॥२१८॥
सम्बन्धस्य च नित्यत्वान्नाsर्थस्य स्यादरूपता ।
युगपन्न हि सर्वेषामन्याकाराsर्थवेदनम् ( २ ) ॥२१९॥
तदाकारेsपि तद्वच्चेदू द्वये सति परीक्ष्यताम् ।
किंन्वर्थस्याsतथा भावो ग्रहीतुः किं न्वशक्तता ॥२२०॥
सदसद्भावयोरथे विरोधित्वादसम्भवः ।
ग्रहीतृभेदाच्छक्तत्वमशक्तत्वं च युज्यते ॥२२१॥
यथाsन्धाsनन्धयोः पार्श्वे रूपस्येत्यभिधास्यते ।
तेनाsर्थे ध्वन्युपायस्य तद्धीर्नाsन्यस्य जायते ॥२२२॥
देवदत्तादिशब्दे तु सम्बन्धाद्यत्वदर्शनात् ।
अर्थस्याsनित्यतायां च ताद्रूप्यस्याप्यनित्यता ॥२२३॥
तत्राप्यौत्पत्तिकी शक्तिस्तद्रूपप्रत्ययं प्रति ।
ग्राह्यग्राहकयोरिष्टा निरोगस्य त्वनित्यता ॥२२४॥
तत्र सर्वैरताद्रूप्यं प्राङ्नियोगात्प्रतीयते ।
तेनेष्टमेव मिथ्यात्वं कैश्चिदध्यासकल्पने ॥२२५॥
यदा तु यादृशः पिण्डः पूर्वं शब्दात्प्रतीयते ।
तादृशस्मरणे हेतुशब्दस्तत्र यथार्थाता ॥२२६॥
निरोगात्परतो वापि शब्देन व्यज्यतामियम् ( १ ) ।
तद्ग्राह्यशक्तिरर्थस्य, पाररूप्यं न तावता ॥२२७॥
सर्वाssकारपरिच्छेद्यशक्तेsर्थे वाचके sपि वा ।
सर्वाssकाराsर्थविज्ञानसमर्थे नियमः कृतः ॥२२८॥
‘ तत्र शब्दार्थसम्बन्धं प्रमातुः स्मरतोsपि या ( २ ) ।
बुद्धिः पूर्वगृहीताsर्थसन्धानादुपजायते ॥२२९॥
चक्षुषा सन्निकृष्टेsर्थे नाsप्रत्यक्षमसौ भवेत् ’ ।
विविक्ता एव तेsप्यर्थाः स्मृतिप्रत्यक्षगोचराः ॥२३०॥
स्मर्येते शब्दसम्बन्धौ मा भूत् प्रत्यक्षता तयोः ।
तदप्रत्यक्षभावेन न त्वर्थस्यापि वार्यते ॥२३१॥
गृहीतमपि गोत्वादि स्मृतिस्पृष्टं च यद्यपि ।
तथापि व्यतिरेकेण पूर्वबोधात् प्रतीयते ॥२३२॥
व्यक्तिकालादिभेदेन तत्राsस्त्यवसरो मितेः ( १ ) ।
यः पूर्वावगतोंशोsत्र स न नाम प्रतीयताम् ( २ ) ॥२३३॥
इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ।
न हि ‘ स्मरणतो यत्प्राक्तत्प्रत्यक्ष ’ मितीदृशम् ॥२३४॥
वचनं रायकीयं वा वैदिकं वाsपि विद्यते ।
न चापि स्मरणात्पश्चादिन्द्रियस्य प्रवर्तनम् ॥२३५॥
वार्यते केन चिन्नाsतस्तत्तदानी प्रदुष्यति ।
तेनेन्द्रियार्थसम्बन्धात्प्रागूर्ध्वं वाsपि यत्स्मृतेः ॥२३६॥
विज्ञानं जायते सर्वं प्रत्यक्षमिति गम्यताम् ।
‘ विमनस्का यदा के चित्सम्बद्धमपि चेन्द्रियैः ॥२३७॥
न बुध्यन्ते तथा चाsन्ये सादृश्यादिविमोहिताः ।
तत्र योsर्थं विवेकेन कौशलात्सदृशेष्वपि ॥२३८॥
सूक्ष्मं वाsपि प्रपद्येत तस्य भ्रान्ति र्न तावता ’ ।
यथा ( १ ) षड्जादिभेदेन गाने लौकिकवैदिके ॥२३९॥
विवेकेनावगच्छन्ति येषां तत्संकृता मतिः ।
गानमात्रं विजानन्ति तत्राsनधिकृतास्तु ये ॥२४०॥
तदज्ञानान्न मिथ्यात्वं वक्तुं शक्य विवेकिनाम् ।
‘ ते हि षड्जादिशब्देभ्यो विनाsप्येषां विविक्तताम् ॥२४१॥
यथावदधिगच्छन्ति ’ तद्वद्गोत्वादिवस्त्वपि ।
संकीर्णमर्थमात्रं तु बुध्यन्तेsभ्यासवर्जिताः ॥२४२॥
विवेकं प्रतिपद्यन्ते ये शब्दस्मृतिसंस्कृताः ।
‘ यथा रूपादिमत्यर्थे यस्यैवाsस्ति यदिन्द्रियम् ॥२४३॥
स तन्मात्रं गृहीत्वाsन्यन्न गृह्णात्पनुमानतः ।
तथा विवेकहेतूनां यदा यं प्रतिपद्यते ॥२४४॥
तदुपेये तदा ज्ञानं वर्तते तदनुग्रहात् ’ ।
तेन यावत्प्रमातॄणां विवेकोपायदर्शनम् ॥२४५॥
न स्यात्तावद्भवेत्तेषां विज्ञानं निर्विकल्पकम् ।
तस्माद्यत्र प्रकल्प्येत वस्तु वस्त्वन्तरात्मना ॥२४६॥
प्रमाणाभासता तत्र न स्वधर्मविकल्पने ।
प्रत्यक्षत्वमतः सिद्धं सामान्यस्य तथैव च ॥२४७॥
संबन्धस्येति तत्पूर्वमनुमानादि जायते ।
सर्वं चाप्यनुमानादि प्रत्यक्षे निर्विकल्पके ॥२४८॥
न प्रवर्तत इत्येतदनुमानेsभिधास्यते ( १ ) ।
नन्वेवं सति याsप्यग्नेर्दूरादप्यौष्ण्यकल्पना ॥२४९॥
साsपि प्रत्यक्षमेव साद्यथा गोत्वादिबुद्धयः ( २ ) ।
प्रत्यासन्नतरं गोत्वे प्रत्यक्षत्वेन संमतम् ॥२५०॥
विज्ञेयं ( ३ ) नाsन्यदस्तीति प्रत्यत्तमिदमेव नः ।
तत्राsप्यक्षैरसंबन्धं मन्वानस्योपजायते ॥२५१॥
यदा बुद्धिस्तदा नैव प्रत्यक्षत्वेन कल्प्यते ।
स्पर्शनेन तु संबन्धे प्रत्यक्षत्वेन जायते ॥२५२॥
मतिरौष्ण्ये, परोक्षेयं चक्षुषाsग्नौ प्रकाशिते ।
तस्माद्यदिन्दियं यस्य ग्राहकत्वेन कल्पितम् ।
तेनैव सति संबन्धे प्रत्यत्तं नाsन्यथा भवेत् ॥२५३॥
एवं समानेsपि विकल्पमार्गे
यत्राsक्षसम्बन्धफलाsनुसारः ।
प्रत्यत्तता तस्य तथा च लोके
विनाsप्यदो ( १ ) लत्तणतः प्रसिद्धम् ॥२५४॥
इति इ प्रत्यक्षसूत्रं चतुर्थम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP