प्रत्यक्षसूत्रं - श्लोक १७६ ते २००
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
न चाsविकल्पितः शब्दादिति वाच्यो न गृह्यते ।
तेनाsगृहीतशब्दोsपि गोत्वादीन् प्रतिपद्यते ॥१७६॥
श्रुतिसंस्पर्शबोधेsपि नैवाsभेदोपचारता ।
विवेकादर्थशब्दानां चक्षुःश्रोत्रधिया कृतात् ॥१७७॥
अनन्तधर्मके धर्मिण्येकधर्माsवधारणे ।
शब्दोsभ्युपायमात्रं स्यान्नाssत्माsध्यारोपकारणम् ॥१७८॥
न चोपेयेsभ्युपायस्य रूपाध्यासः प्रसज्यते ।
न हि दीपेन्द्रियादीनां रूपाsध्यारोप ( १ ) इष्यते ॥१७९॥
नित्यं यदि च गोत्वादि शब्दरूपेण गृह्यते ।
रूपान्तरं न दृष्टं चेदू भेदाsध्यासौ कुतो न्विमौ ॥१८०॥
यद्यभेदो न मिथ्यात्वं भेदश्चेत्स्यात्स्वरूपतः ।
नाsध्यारोपप्रसङ्गः स्याद्भ्रान्त्या त्वध्यासकल्पना ॥१८१॥
शब्देनैव च निर्देशो गृहीतेsर्थेsवकल्पते ।
गौरित्येव च निर्देशो वाच्यतद्बुद्धिवादिनाम् ॥१८२॥
निर्देशतुल्यतायां च ( १ ) श्रोत्रा वक्तुः( २ )सरूपता ।
शब्दज्ञानप्रमेयेषु विज्ञानस्याsवसीयते ॥१८३॥
भ्रान्तिहेतुसमानत्वेsप्युपायत्वान्मतिश्रुती ।
मन्यतेsर्थे समध्यस्ते नाsर्थाध्यासं तयोः पुनः ॥१८४॥
गोत्वे सास्नादिमद्रूपा ( ३ ) गादिरूपाsभिधायके ।
निराकारोभयज्ञाने संविःत्तिः परमार्थतः ॥१८५॥
यदि चाsभेदरूपेण शब्देनाsर्थः प्रतीयते ।
एकरूपत्वमक्षादौ देवनादेः प्रसज्यते ॥१८६॥
स्यादनक्षनिवृत्त्या चेत्, न प्राक् शब्दात् प्रतीयते ।
गवादिष्वपि तुल्यं चेन्नैकरूपस्य दर्शनात् ॥१८७॥
त्रये बिभीतकादीनां नैकधर्मान्वयोsस्ति हि ।
शब्दः साधारणस्तेषां जातिशब्दाद्विलक्षणः ॥१८८॥
परस्परविभिन्नं तु ज्ञायतेsत्राssकृतित्रयम् ।
तदध्यासे न युज्येत तद्रूपस्याsविभागतः ॥१८९॥
भिन्नाः स्युरक्षशब्दाश्चेन्नाsर्थे संशयदर्शनात् ।
न सामान्यादृते स स्याद्रूपाsभेदश्च गम्यते ॥१९०॥
भवत्यादौ च भिन्नेsपि नामाख्यातत्वसंज्ञया ।
रूपैकत्वेन चाsध्यासे तुल्यार्थत्वं प्रसज्यते ॥१९१॥
‘ शब्दनिष्पत्त्यभेदाच्च तिङ्न्ताsर्थस्य साध्यता ।
कथं, कथञ्च मूर्ताsर्थो वाचके मूर्तिवर्जिते ॥१९२॥
गवाsश्वशुक्लशब्दादेर्वाच्यरूपाsनपेक्षणे ।
वाचकत्वव्यवस्थानं कथं जातिगुणादिषु ॥१९३॥
वृत्तप्लक्षादिशब्दानां तुल्ये भेदे घटादिभिः ।
विशेषणविशेष्यत्वं कथमर्थाsनपेक्षया ॥१९४॥
सामानाधिकरण्यं च न स्याद्वाचकबुद्धिवत् ।
एकत्र चोपसंहारो न बुध्द्योर्निर्विकल्पके ॥१९५॥
वस्तुमात्रे स चेदेवं सर्वेषामेकवाच्यता ।
भवेद्गवादिशब्दानां सर्वेर्वस्तु हि गम्यते ॥१९६॥
न चाsसाधारणे भेदे नीलोत्पलमितीष्यते ।
न हि शब्दप्रवृत्तिः स्यादन्यत्राsन्यत्र चेष्यते ॥१९७॥
न च नीलोत्पलं नाम वस्त्वेकं किं चिदिष्यते ।
शब्दाsर्थयोर्यतो भेदो गम्यतेsवयवाsनुगः ॥१९८॥
शब्दद्वयस्य चाsध्यासः पर्यायेष्वपि दृश्यते ।
एकाsधिकरणास्तेन स्युस्ते नीलोत्पलादिवत् ॥१९९॥
न चाsनवगते पूर्वं पदमर्थे प्रयुज्यते ।
तत्र सम्बन्धवेलायां कीदृशोsर्थः प्रतीयते ॥२००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP