किष्किंधाकांडम् - काव्य ३५१ ते ३९०
किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
यूयं स म र्थाः सर्वेऽपि प्रतिबंधो न वो गतौ
ब्रुवध्वं यस्य, या शक्तिः प्लवने प्लवगर्षभाः ! ’ ॥३५१॥
तत्तस्य श्री मतः श्रुत्वा वालिसूनोर्वचस्तदा
आबभाषे गजस्तत्र, ‘ प्लवेयं दशयोजनम्. ’ ॥३५२॥
तथा प रा क्रमी प्राह, ‘ गवाक्षोऽहं तु विंशतिम्
शरभस्त्रिंशदृषभश्चत्वारिंशन्महामनाः. ॥३५३॥
प्लवंग म स्तु पंचाशत् गंधमादननामकः
मैंदः कीशोत्तमः षष्टिं सप्ततिं द्विविदः कपिः ॥३५४॥
तथा ते ज स्वितिलकः सुषेणोऽशीतिमित्यथ. ’
ततो वृद्धतमस्तेषां जांबवान्प्रत्यभाषत, ॥३५५॥
अंत्ये व य सि का शक्तिवैंरोचनिमखे मया
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः. ॥३५६॥
स मे प रा क्रमो नष्ट इदानीमहमंगद !
नवतिं योजनानां तु गमिष्यामि न संशयः. ॥३५७॥
न मे ग म नसामर्थ्यं संप्रत्यंगद ! तादृशम्
नैतावता च संसिद्धिः कार्यस्यास्य भविश्यति. ॥३५८॥
तं वालि ज ! उवाचा, ‘ हं गमिष्यामि शतं पुनः
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम्. ॥३५९॥
ब्रह्म का य ज आह, ‘ त्वं योजनानामसि क्षमः
कामं शतसहस्त्रं वा गंतुं प्रतिनिवर्तितुम्. ॥३६०॥
युवरा ज ! न हि प्रेष्यः प्रेष्यैः प्रेषयिता क्कचित्
स्वामी कलत्रं सैन्यस्य, तस्मात्पाल्यः सदा भवान्. ॥३६१॥
वालिका य ज आहा ‘ हं न गमिष्यामि नापरः
यद्यस्माभिः खलु पुनः कार्यं प्रायोपवेशनम्. ’ ॥३६२॥
तमाह रा जा ऋक्षाणां, ‘ चिंतामंगद ! मा कुरु
एष संचोदयाम्येनं यः कार्यं साधयिष्यति. ’ ॥३६३॥
ततः स म रुतः पुत्रं प्रतीतं रहसि स्थितम्
उपेत्य तत्प्रभावज्ञस्तमुवाच प्रहर्षयन्. ॥३६४॥
‘ हनूमनू ! श्री मतासि त्वं सुग्रीवेण समः स्वयम्
तेजसा लक्ष्मणेनापि रामेण प्रभुणापि च. ॥३६५॥
विहंग रा जपवनतपनैः समवेगवान्
हनूमन्नसि शक्तस्त्वमेकः सागरलंघने. ॥३६६॥
स्वर्वेश्या म हिता तात ! विख्याता पुंजिकस्थला
शापेन सा केसरिणो भार्या जातांजनाभिधा. ॥३६७॥
तां प्रभं ज न आलोक्य सुंदरीं काममोहितः
बलात्पर्यष्वजंत्तस्यां त्वं जातोसि महाबलः. ॥३६८॥
‘ गुणाल य स्तव सुतो महाबुद्धिपराक्रमः
लंघने प्लवने चैव भविष्यति मया समः. ’ ॥३६९॥
इति वी रा धिवीरांग ! त्वन्मातरमुवाच यत्
भगवान् मारुतः सत्यं तत्सर्वं त्वयि दृश्यते. ॥३७०॥
दृष्ट्वा त्व म र्कमुदितं फलं मत्वा तदाशया
सद्यो जातो योजनानां शतानि त्रीणि खं गतः. ॥३७१॥
देवरा ज स्त्वय्यशनिं मुमोच शिखरे गिरेः
पततस्तव बालस्य वामो हनुरभज्यत. ॥३७२॥
नामधे य मतस्तेऽभूद्धनूमानिति मारुते !
दृष्ट्वा त्वां निहतं क्रुद्धस्त्रैलोक्यं नानिलो ववौ. ॥३७३॥
संभ्रांते ज गत्ति ब्रह्मा प्रीत्या तुभ्यं वरं ददौ
अशस्त्रवध्यतां युद्धे स्वच्छंदमरण्म हरिः. ॥३७४॥
कृते श्रे य सि ते देवैः प्रसन्नोऽभूत्पिता तव
त्वं हि वायुसुतो वत्स ! प्लवने चापि सत्समः. ॥३७५॥
मया पु रा बलेर्यज्ञे प्रादुर्भूते त्रिविक्रमे
त्रिःसप्तकृत्वः पृथिवी परिक्रांता प्रदक्षिणा. ॥३७६॥
निर्मथ्य म मृतं याभिः प्रक्षिप्ताभिः पयोनिधौ
ता मयौषधयः सर्वाः संचिता देवशासनात्. ॥३७७॥
सोऽहं तु श्री मतः कार्यं कर्तुं रामस्य न क्षमः
समर्थस्त्वमिदानीं ते न सिंधोर्लंघने श्रमः. ॥३७८॥
अद्य त्वं रा हितोत्तिष्ट स्वजनान्किमुपेक्षसे ?
विक्रभस्व महावेगः विष्णुस्त्रीन् विक्रमानिव. ’ ॥३७९॥
इत्येवं म करावासं क्रमितुं शतयोजनम्
संस्तूयमानो हनुमान्व्यवर्धत महाबलः. ॥३८०॥
तं प्रभु ज नजं कीशा विस्मिता ददृशुस्तदा
त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः. ॥३८१॥
आंजने य स्य वदनं जृंभमाणस्य तद्बभौ
अंबरीषोपमं दीप्तं, स च वह्निरिव स्वयम्. ॥३८२॥
स समीरा त्मजो मध्याद्वानराणां समुत्थितः
अभिवाद्य हरीन् वृद्धान्प्रहृष्ट इदमब्रवीत्. ॥३८३॥
‘ औरसो म रुतः पुत्रः प्लवनेनास्मि तत्समः
सहस्रवारं सक्रोमि मेरुं कर्तुं प्रदक्षिणम्. ॥३८४॥
अहं भु ज द्वयस्यास्य वेगनुन्नांबुराशिना
समाप्लावयितुं लोकमुत्सहे सचराचरम्. ॥३८५॥
अहं तो य निधीन्त्सर्वांश्छोषयिष्यामि तेजसा
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ! ॥३८६॥
लंकां भु ज बलेनाहं समुत्पाट्याद्य वानराः !
गच्छेयमिति मे बुद्धिरि ’ त्युवाचानिलात्मजः. ॥३८७॥
प्रहर्ष य न् हरीन्सर्वान्महेंद्रस्य महागिरेः
आरुरोहोच्चशिखरं स्तुतो जांबवता पुनः. ॥३८८॥
वसुंध रा धरस्तेन बाहुभ्यां पीडितो यदा
कंपितो निःसृताह्यंबुशिलस्त्रस्तमृगव्रजः. ॥३८९॥
समीक्ष्य म रुतः पुत्रं महेंद्रशिखरस्थितम्
प्रहृष्टा मुदिरं दृष्ट्वा मयूरा इव वानराः. ॥३९०॥
इति श्रीमंत्ररामायणे श्रीरामनंदनमयूरविरचिते किष्किंधाकांडे त्रिंशत्तमो मंत्रः समाप्तः
N/A
References : N/A
Last Updated : November 11, 2016
TOP