किष्किंधाकांडम् - काव्य १५१ ते २००
किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
इत्युक्तो ज गदीशेन वाल्युवाच, ‘ रघुत्तम !
मया यदुक्तं परुषं तत्क्षमस्व कृपां कुरु. ॥१५१॥
मम का य जमत्यंतप्रियं तारेयमंगदम्
पालयामुं च सुगीवं पुत्रवद्बंधुवत् प्रभो ! ॥१५२॥
रघुरा ज ! मम प्राणप्रियां तारां तपस्विनीम्
सुग्रीवो नावमन्येत तथा कर्तुंत्वमर्हसि. ’ ॥१५३॥
कौसल्ये य स्तमाह, ‘ त्वं वालिन् ! पुण्यां गतिं व्रज
सुतं ते पालयिष्यावस्तां तारां च शुचं त्यज. ’ ॥१५४॥
तत्र ता रा ययौ पद्भयां रुदती ससुता द्रुतम्
रामादिभिर्द्रवच्चित्तैस्तस्या विलपितं श्रुतम्. ॥१५५॥
कांचनी म थ तां मालां सुग्रीवाय ददौ स्वयम्
‘ रामस्य कुरु साहाय्यं तारायाश्च वचो हितम्. ॥१५६॥
राज्यस्य श्री स्त्वां भजतु पालयांगदमात्मजम्
करिष्यति महत्कर्मे ’ त्युवाचानुजमानतम्. ॥१५७॥
उवाच रा जा कीशानामथ तं पुत्रमंगदम्,
‘ वत्स ! त्राता पिता तेऽयं सुगीवस्त्वममुं भज. ’ ॥१५८॥
इत्युक्त्वा म रणं प्राप्तो गतो वाली वरां गतिम्
सुग्रीवः कर्म तत्कृत्वा पश्चात्तप्तोऽभवद्भृशम्. ॥१५९॥
उवाच ज गतां नाथमृष्यमूकमहं गिरिम्
गंतुमिच्छामि, किष्किंधामंगदः पालयिष्यति. ॥१६०॥
आंजने य प्रभृतयो वानरा राम ! जानकीम्
विचिन्वंतु समर्थस्त्वं हंतुं दारापहारिणम्. ॥१६१॥
न वान रा णां राज्यं मे प्रियं राम ! न जीवितम्
हत्वाग्रजं रुषा जातोऽकीर्तेः शोकस्य भाजनम्. ’ ॥१६२॥
तं शुचं म हतीं प्राप्तं सुग्रीवं राघवः प्रभुः
स्वयमाश्वासयामास मधुराभिर्हितोक्तिभिः. ॥१६३॥
सा प्रभं ज नपुत्रेण तारा पूर्वप्रबोधिता
उवाच रामं शोकार्ता, ‘ भो ! भो ! राजीवलोचन ! ॥१६४॥
रघुना य क ! मे भर्ता येन संप्रेषितो दिवम्
मां च तेनैव बाणेन पत्युः प्रेषय सन्निधिम्. ॥१६५॥
मां विना ज लदश्याम ! धामधाम वराकृते !
रंभोर्वश्याघप्सरोभिः स्वर्गेऽपि न स रंस्यते. ’ ॥१६६॥
अप्रमे य दयस्तारामुवाच प्रभुसत्तमः,
‘ शोकं मा कुर भद्रे ! त्वं सुग्रीवान्मुदमाप्स्यसि. ॥१६७॥
त्वं यौव रा ज्ये तनयं दृष्ट्वांगदमपि स्थितम्
प्रीतिं प्राप्स्यसि कल्याणि ! वीरपत्न्यस्यलं शुचा. ’ ॥१६८॥
कुरु त्व म स्य सुग्रीव ! प्रेतकार्यमनंतरम्. ’
इत्युवाच तदा युक्तं सौमित्रिर्मित्रवत्सलः. ॥१६९॥
अंगद श्री मदाज्ञप्तः पितुर्दाहं यथाविधि
चकारानंतरं रामं हनूमान् वाक्यमब्रवीत्. ॥१७०॥
‘ राजाधि रा ज ! राम ! त्वं किष्किंधायां कुरु स्थितिम्
अर्चयिष्यति रत्नैस्त्वामभिषिक्तः कपीश्वरः. ’ ॥१७१॥
घनश्या म स्तमाहा‘हं चतुर्दश समाः पुरम्
ग्रामं वा न प्रवेक्ष्यामि पितुर्निर्देशकारकः. ॥१७२॥
कपिरा ज स्त्वयं तस्यां गुहायामभिषिच्यताम्. ’
सुग्रीवमप्युवाच, ‘ त्वं वालिनः पुत्रमंगदम् ॥१७३॥
मम प्रि य ममुं योग्यं यौवराज्येऽभिषेचय
प्रावृष्यस्यां प्रस्रवणे स्थास्यामि सह लक्ष्मणः. ॥१७४॥
कार्तिके रा वणवधे यतस्व सचिवैः सह
एष नः समयः सौम्य ! प्रविश त्वं स्वमालयम्. ’ ॥१७५॥
इत्युक्ते म कंटाधीशे तस्मिन् राज्यपदे स्थिते
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्. ॥१७६॥
उवास ज लमुक्काले गुहायां सानुजः प्रभुः
अहर्निशं प्रियतमां स्मरंस्ताद्विरहाकुलः ॥१७७॥
स्मृत्वा प्रिय य तमां रामो बभूवार्तमना यदा
तदा पुनर्लब्धधृतिं तं चकार स लक्ष्मणः. ॥१७८॥
रामोऽनु ज मुवाचा ‘ हं स्थितोऽस्मि वचने तव
सुग्रीवस्य नदीनां च प्रसादमनुपालयन्. ’ ॥१७९॥
आंजने य स्तदोवाच सुग्रीवं रतिलंपटम्,
‘ कार्यं चिंतय रामस्य स्मृत्वा तेन कृतं प्रियम्. ’ ॥१८०॥
स वान रा नशेषांस्तांस्त्वमाज्ञापय सांगदः
इत्युवाच स वध्यो मे यः पक्षं लंघयिष्यति. ॥१८१॥
प्लवंग म पतेराज्ञां पुरस्कृत्याशु वानरान्
दूतान् प्रस्थापयामास हनूमानंगदश्च सः. ॥१८२॥
शरदः श्री रतीवार्तं यदा चक्रे मनस्तदा
उवाच लक्ष्मणं रामो, ‘ वत्स ! मत्तः कल्पिः श्रिया. ॥१८३॥
व्रज वी रा धुनैव त्वं किष्किधां ब्रूहि तं कपिम्
न स संकुचितः पंथा येन वाली हतो गतः. ॥१८४॥
वाली स म र एकेन शरेणैको हतो मया
त्वां तु सत्यादतिक्रांतं हनिष्यामि सबांधवम्. ’ ॥१८५॥
सुमित्रा ज स्तदोवाच, ‘ हन्मि सत्यच्युतं कपिम्
यदार्य ! कार्यमस्माकं वालिपुत्रः करिष्यति. ’ ॥१८६॥
कृपाल य स्तं सौमित्रिमुवाच पुरुषोत्तम,
‘ स्मर सख्यं महाबाहो ! मैवं त्वं कुरु निश्चयम्. ॥१८७॥
सामैव रा ज्ञि तस्मिंस्त्वं प्रथमं कुरु लक्ष्मण !
कालोऽतिक्रांत इत्येव ब्रूहीषदपि माप्रियम्. ॥१८८॥
रूक्षाणि म तिमन्मैव ब्रूहि प्रीतिं समीक्ष्य ताम्. ’
इत्यग्रजोक्तः सौमित्रिर्जगाम भवनं कपेः. ॥१८९॥
रामानु ज स्त्वतिक्रुद्धः स भयंकरकार्मुकः
किष्किंधायाश्चलन्मार्गे त्वरया परया युतः. ॥१९०॥
ते तं भ य परीतांगाः क्षुब्धं दृष्ट्वा प्लवंगमाः
कालमृत्युयुगांताभं शतशो विप्रदुद्रुवुः. ॥१९१॥
कीशरा ज गृहं प्रपय भयव्याकुलमानसाः
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्. ॥१९२॥
सचिवा य त्नवंतस्ते किष्किंधाद्वाररक्षणे
कपीनाज्ञापयामासुः सालतालशिलायुधान्. ॥१९३॥
द्विगुणं रा घवः क्रुद्धः कपीन् दृष्ट्वा रणोद्यतान्
अंगदस्तं समासाद्य विषादमगमत्परम्. ॥१९४॥
तं प्रणा म परं प्राह लक्ष्मणो, ‘ वत्स मागतम्
सुग्रीवाय स्थितं द्वारि निवेद्यावच्छ सत्वरम्. ॥१९५॥
स गतः श्री मताज्ञप्तो नत्वा तारां रुमां गुरुम्
कथयामास, ‘ सौमित्रिः क्रुद्ध आगत ’ इत्ययम्. ॥१९६॥
स वान रा धिपः सुप्तस्तदुक्तं न विवुद्धवान्
यदासीन्मदमत्तश्च मदनेन च मोहितः. ॥१९७॥
प्लवंग म भटाश्चक्रुर्भीताः किलकिलां समम्
महता तेन शब्देन प्रत्यबुध्यत वानरः. ॥१९८॥
रामानु ज मतिक्रुद्धमागतं वानरेश्वरः
श्रुत्वांगदादभूत्त्रस्तः सोऽपृच्छत्कोपकारणम्. ॥१९९॥
आंजने य उवाच, ‘ त्वं प्रमत्तः कपिनायक !
प्रवृत्तां शरदं राजन्न जानीषेऽत एव रुट्. ॥२००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP