पंचम पटल - राजयोगकथनम्
महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.
अत ऊर्ध्व दिव्यरूपं सहस्रारं सरोरुहम् ।
ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् ॥१८६॥
कैलासो नाम तस्यैव महेशो यत्र तिष्ठति ।
अकुलाख्योsविनाशी च क्षयवृद्धिविवर्जित: ॥१८७॥
स्थानस्यास्य ज्ञानमात्रेण नृणां संसारेsस्मिन् सम्भवो नैव भूय: ।
भूतग्राम् सन्तताभ्यासयोगात् कर्तुं हर्तुं स्याच्च शक्ति: समग्रा ॥१८८॥
स्थाने परे हंसनिवासभूते कैलासनाम्नीह निविष्टचेता: ।
योगी हृतव्याधिरध:कृताधिर्वायुश्चिरं जीवति मृत्युमुक्त: ॥१८९॥
चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे ।
तदा समाधिसाम्येन योगी निश्चलतां व्रजेत् ॥१९०॥
निरन्तरकृते ध्याने जगद्विस्मरणं भवेत् ।
तदा विचित्रसामर्थ्य योगिनो भवति ध्रुवम् ॥१९१॥
तस्माद्गलितपियूषं पिबेद्योगी निरन्तरम् ।
मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे ॥१९२॥
अत्र कुण्डलिनीशक्तिर्लयं याति कुलाभिधा ।
तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि ॥१९३॥
यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते ।
तस्मिमन्परिश्रमं योगी करोति निरपेक्षक: ॥१९४॥
चित्तवृत्तिर्यदा लीना तस्मिन् योगी भवेद् ध्रुवम् ।
तदा विज्ञायतेsखण्डज्ञानरूपी निरञ्चन: ॥१९५॥
ब्रह्माण्डबाह्ये संचिन्त्य स्वप्रतीकं यथोदितम् ।
तमावेश्य महच्छून्यं चिन्तयेदविरोधत: ॥१९६॥
आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम् ।
चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् ॥१९७॥
एतत् ध्यानं सदा कुर्यादनालस्यं दिने दिने ।
तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशय: ॥१९८॥
क्षणार्ध निश्चलं तत्र मनो यस्य भवेद् ध्रुवम् ।
स एव योगी सद्भक्त: सर्वलोकेषु पूजित: ।
तस्य कल्मषसङ्घातस्तत्क्षणादेव नश्यति ॥१९९॥
यं दृष्ट्वा न प्रवर्तन्ते मृत्युसंसारवर्त्मनि ।
अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना ॥२००॥
एतत् ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते ।
य: साधयति जानाति सोsस्माकमपि सम्मतम् ॥२०१॥
ध्यानादेव विजानाति विचित्रफ़लसम्भवम् ।
अणिमादिगुणोपेतो भवत्येव न संशय: ॥२०२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP