संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| मूलाधारपद्मविवरणम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - मूलाधारपद्मविवरणम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत मूलाधारपद्मविवरणम् Translation - भाषांतर इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये ।यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोsपि साधक: ॥४६॥समभ्यर्च्येश्वरं सम्यक् कृत्वा च योगमुत्तमम् ।गृहयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् ॥४७॥जीवादि सकलं वस्तु दत्त्वा योगविदं गुरुम् ।सन्तोष्यातिप्रयत्नेन योगोsयं गृह्यते बुधै: ॥४८॥विप्रान् सन्तोष्प मेधावी नानामङ्गलसंयुत: ।ममालये शुचीर्भूत्वा गृहीयाच्छुभमात्मन: ॥४९॥संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम् ।भूत्वा दिव्यवपुर्योगी गृहेयाद्वक्ष्यमाणकम् ॥५०॥पद्मासनस्थितो योगी जनसङ्गविवर्जित: ।विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत् ॥५१॥सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जन: ।तस्मिन् परिश्रम: कार्यो येन सिद्धो भवेखलु ॥५२॥य: करोति सदाभ्यासं तस्य सिद्धर्न दूरत: ।वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशय: ॥५३॥सकृद्य: कुरुते योगी पापौघं नाशयेद्ध्रुवम् ।तस्य स्यान्मध्यमे वायो: प्रवेशो नात्र संशय: ॥५४॥एतदभ्यासशीलो य: स योगी देवपूजित: ।अणिमादिगुणान् लब्ध्वा विचरेद्भवनत्रये ॥५५॥यो यदास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रह: ।तिष्ठेदात्मनि मेधावी संयुत: क्रीडते भृशम् ॥५६॥एतद्योगं परं गोप्यं न देयं यस्य कस्यचित् ।सप्रमाण: समायुक्तस्तमेव कथ्यते: ध्रुवम् ॥५७॥योगीर पद्मासने तिष्ठत् कण्ठकूपे यदा स्मरन् ।जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते ॥५८॥कण्ठकूपादध:स्थाने कूर्मनाड्यस्ति शोभना ।तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्य लभेद्भृशम् ॥५९॥शिर: कपाले रुद्राक्ष विवरं चिन्तयेद्यदा ।तदा ज्योति:प्रकाश: स्याद्विद्युत्पुञ्जसमप्रभ: ॥६०॥एतच्चिन्तनमात्रेण पापानां संक्षयो भवेत् ।दुराचारोsपि पुरुषो लभते परमं पदम् ॥६१॥अहर्निशं यदा चिन्तां तत्करोति विचक्षण: ।सिद्धानां दर्शनं तस्य भाषणं च भवेद्ध्रुवम् ॥६२॥तिष्ठन् गच्छन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहिर्निशम् ।तदाकाशमयो योगेअए चिदाकाशे विलीयते ॥६३॥एतज्ज्ञानं सदा काय योगिना सिद्धिभिच्छता ।निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम् ।एतज्ज्ञानबलाद्योगी सर्वेषा वल्लभो भवेत् ॥६४॥सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रह: ।नासाग्रे दृश्यते येन पद्मासनगतेन वै ।मनसो मरणं तस्य खेचरत्वं प्रसिद्धयति ॥६५॥ज्योति: पश्यति योगीन्द्र: शुद्धं शुद्धाचलोपमम् ।तत्रभ्यासबलेनैव स्वयं तद्रक्षको भवेत् ॥६६॥उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम् ।सद्य: श्रमविनाशाय स्वयं योगी विरक्षण: ॥६७॥शिर: पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत् ।भ्रूमध्ये दृष्टिमात्रेण ह्यपर: परिकीर्तित: ॥६८॥चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते ।तत्र सारतमो लिंगदेहस्य परिपोषक: ॥६९॥सप्तधातुमयं पिण्डमेति पुष्णाति मध्यग: ।याति विण्मूतररूपेण तृतीय: सप्तमो बहि: ॥७०॥आद्यभागं द्वयं नाड्य: प्रोक्तास्ता: सकला अपि ।पोषयन्ति वपुर्वायुमापादलमस्तकम् ॥७१॥नाडीभिराभि: सर्वाभिर्वायु: सञ्चरते यदा ।तदैवान्नरसो देहे साम्येनेह प्रवर्तते ॥७२॥चतुर्दशानां तत्रेह व्यापारे मुखभागत: ।ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिका: ॥७३॥गुदाद्द्वङ्गुलतश्चोर्ध्वं मेढ्रै कांङ्गुलतस्त्वध: ।एवं चास्ति समं कन्दं समता चतुरङ्गुलम् ॥७४॥पश्चिमाभिमुखी योनिगुदमेढ्रान्तरालगा ।तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा ॥७५॥संवेष्ट्य सकला नाडी: सार्द्धत्रिकुटिलाकृति: ।मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्थिता ॥७६॥सुप्ता नागोपमा ह्येषा स्फ़ुरन्ती प्रभया स्वया ।अहिवत् सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका ॥७७॥ज्ञेया शक्तिरियं विष्णोर्निर्मला स्वर्णभास्वरा ।सत्त्वं रजतमश्चेति गुनत्रयप्रसूतिका ॥७८॥तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम् ।कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् ॥७९॥सुषुम्णापि च संश्लिष्टो बीजं तत्र वरं स्थितम् ।शरच्चन्द्रनिभं तेजस्स्वयमेतत्स्फ़ुरत्स्थितम् ॥८०॥सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी ।बीजसंज्ञं परं तेजस्वदेव परिकीर्तितम् ॥८१॥क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत् ।उत्तिष्ठद्विशतस्त्वम्भ: सूक्ष्मं शोणशिखायुतम् ।योनिस्थं तत्परं तेज: स्वयम्भूलिंगसंज्ञितम् ॥८२॥आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दत: ।परिस्फ़ुरत् वादिसान्तचतुर्वर्ण चतुर्दलम् ॥८३॥कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसंगतम् ।द्विरण्डो यत्र सिद्धोsस्ति डाकिनी यत्र देवता ॥८४॥तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता ।तस्य ऊर्ध्वे स्फ़ुरत्तेज: कामबीजं भ्रमन्मतम् ॥८५॥य: करोति सदा ध्यानं मूलाधारे विचक्षण: ।तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै ॥८६॥वपुष: कान्तिरुत्कृष्टा जठराग्निविवर्धनम् ।आरोग्यं च पटुत्वं च सर्वज्ञत्वं च जायते ॥८७॥भूतं भव्यं भविष्यच्च वेत्ति सर्व सकारणम् ।अश्रुतान्यपि शास्त्राणि सरहस्यं वदेद् ध्रुवम् ॥८८॥वस्त्रे सरस्वती देवी सदा नृत्यति निर्भरम् ।मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशय: ॥८९॥जरामरणदु:खौघानाशयति गुरोर्वच: ।इदं ध्यानं सदा कार्य पवनाभ्यासिना परम् ।ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्बिषात् ॥९०॥मूलपद्मं यदा ध्यायेत् योगी स्वयम्भुलिङ्गकम् ।तदा तत्क्षणमात्रेण पापौघं नाशयेद् ध्रुवम् ॥९१॥यं यं कामयते चित्ते तं तं फ़लवाप्नुयात् ।निरन्तरकृताभ्यासातं पश्यति विमुक्तिदम् ॥९२॥बहिरभ्यन्तरे श्रेष्ठं पूजनीय: प्रयत्नत: ।तत: श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम ॥९३॥आत्मसंस्थं शिवं त्यक्त्वा बहि:स्थं य: समर्चयेत् ।हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया ॥९४॥आत्मलिंगार्चनं कुर्यादनालस्यं दिने दिने ।तस्य स्यात्सकला सिद्धिर्नात्र कार्या विचारणा ॥९५॥निरन्तरकृताभ्यासात्षण्मासे सिद्धिमाप्नुयात् ।तस्य वायुप्रवेशोsपि सुषुम्णायां भवेद्ध्रुवम् ॥९६॥मनोजयं च लभते वायुबिन्दुविधारणाम् ।ऐहिकामुष्मिकी सिद्धिर्भवेन्नैवात्र संशय: ॥९७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP