चतुर्थ पटल - महावेधकथनम्
महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.
अपानप्राणयोतैक्यं कृत्वा त्रिभुवनेश्वरि ।
महावेधस्थितो योगी कुक्षिमापूर्य बायुना ।
स्फ़िचौ संताडयेद्धीमान् वेधोsयं कीर्तितो मया ॥४३॥
वेधेनानेन संचिध्य वायुना योगिषुङ्गव: ।
ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रंथिं भिनत्त्यसौ ॥४४॥
य: करोति सदाभ्यासं महावेधं सुगोपितम् ।
वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी ॥४५॥
चक्रामध्ये स्थिता देवा: कम्पन्ति वायुताडनात् ।
कुण्डल्यपि महामाया कैलासे सा विलीयते ॥४६॥
महामुद्रामहाबन्धौ निष्फ़लो वेधवर्जितौ ।
तस्माद्योगी प्रयत्नेन करोति त्रियतं क्रमात् ॥४७॥
एतत्त्रयं प्रयत्नेन चतुर्वारं करोति य: ।
षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशय: ॥४८॥
एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतर: ।
यज्ज्ञात्वा साधका: सर्वे सिद्धिं सम्यक् लभन्ति वै ॥४९॥
गोपनीया प्रयत्नेन साधकै: सिद्धिमीप्सुभि: ।
अन्यथा च न सिद्धि: स्यान्मुद्राणामेष निश्चय: ॥५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP