श्रीसूक्तविधानम्
श्रीलक्ष्मीकेशवं नौमि दत्तात्रेयजनार्दनौ ।
येषां कृपाप्रसादेन साफल्यं जन्मनो मम ॥१॥
अजरालयग्रामवासी रत्नागिर्याख्यमण्डले ।
जोशी नारायणाख्योऽहं वामनिश्चित्तपावन: ॥२॥
ब्रम्हाणस्पतिसूक्तस्य विधानं प्राक कृतं मया ।
श्रीसूक्तस्याधुना कुवें विधानं श्रीशतुष्टये ॥३॥
अनुष्ठानं कथं कार्यं फलं किं हवनं कथम ।
प्रमाणपूर्वकं सम्यक यथामति विचार्यते ॥४॥
अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छुतस्य वा ।
यद्भवेत्पूरणीयं च तद्विशोध्यं दयालुभि: ॥५॥
अथ विष्णुधर्मोत्तरे पुष्कर उवाच :---
हिरण्यवर्णां हरिणीमृच: पंचदश द्विज ।
श्रीसूक्तं कथितं पुण्यं ऋग्वेदे पुष्टिवर्धनम् ॥१॥
रथे अक्षेषु वाजेति चतस्रस्तु तथा ऋच: ।
श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ॥२॥
श्रायंतीयं तथा साम सामवेदे प्रकीर्तितम् ॥३॥
श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति ।
जुहुयादथ धर्मज्ञो हविष्येण विधानत: ॥४॥
। इति शांतिरत्ने ।
अथ हिरण्यवर्णामिति पंचदशर्चं श्रीसूक्तं ऋग्वेदे । रथे अक्षेषु
वृषभस्य वाजेति चतुऋचं यजुवेंदे । श्रायंतीयं सामवेदे । श्रियं धातुर्मयि
धेहीति अथर्ववेदे इति । एवं प्रतिवेदं श्रीसूक्तं भिन्नं भिन्नमुक्तम ।
तत्र ऋग्वेदांतर्गतश्रीसूक्तस्य परिशिष्टरूपस्य विधिर्लिख्यते ।
अर्थ :--- संध्या प्रसिद्ध व देवीउपासनेकरितां प्रचलित असलेलें ‘हिरण्यवर्णां’
हें पंचदशऋचाचें श्रीसूक्त ऋग्वेदांतीला आहे. ‘रथे अक्षेषु वृ षभस्य वाजे’ हें
चतुऋचात्मक श्रीसूक्त यजुर्वेदस्थ आहे. ‘श्रायंतीयं’ हें सामवेदांतीलव ‘श्रियं
धातुर्मयि धेहि’ हें अथर्ववेदांतील आहे. याप्रमाणें प्रत्येक वेदांत श्रीसूक्त भिन्न
भिन्ना आहे. यांपैकीं परिशिष्टरूप असलेलें ऋग्वेदस्थ पंचदशऋचात्मक श्रीसूक्त
विचारांत घेऊन त्याचेंच विधान लिहीत आहें.