संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| प्रहर्षण अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - प्रहर्षण अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत प्रहर्षण अलंकार: Translation - भाषांतर अथ प्रहर्षणम्-साक्षात्तदुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थलाभ: प्रहर्षणम् ॥इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभी-प्सितार्थलाभ इत्येका विधा, वाञ्छितार्थसिद्धयर्थं यत्ने क्रियमाणे ततोऽप्य-धिकतरार्थलाभ इत्यपरा । उपायसिद्धयर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थं लक्षणे साक्षादित्युक्तम् । क्रमेणो-दाहरणानि-‘ तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्या शयित: पराड्मुख: । किं मूर्च्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सस्वजे ॥ ’अत्र यत्रसामान्यशून्यस्यापीष्टलाभ: ।‘ केलीमन्दिरमागतस्य शनकैरालीरपास्येड्रितै: सुप्ताया: सरुष: सरोरुहदृश: संजीजनं कुर्वत: । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥ ’अत्र भामिन्या रोषनिवारणाय यत्ने क्तियमाणे रोषनिवारणादप्यधि-कतरसुखप्रद: कामुकस्य भामिनीकर्तृक: स्वकरकर्मकस्तत्कुचाधिकरणक आसड्र: । न चात्र तृतीयभेद: शड्कय: । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुप-स्थिते: । यथा वा-‘ लोभाद्वराटिकानां विक्तेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणि: ॥ ’अत्र प्रहर्षणद्वितीयभेद: स्फुट एव । अननुरूपसंबन्धमादाय विषमा-लंकारश्च । तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोर्विषयविषयि-णोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणि-भगवदु-भयसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो वराटिकार्थिनो यथा महेन्द्रनीलमणे: कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गो भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननु-रूप एवेति वाच्यम् । एवं तर्हि तक्रविक्तयकर्तृत्वेनैवाज्ञानित्वलाभे वरा-टिकालोभरू पहेतूपन्यासस्यानतिप्रयोजनकत्वापत्ते: । यादृशवाञ्छित-सिद्धयर्थं यत्न: क्रियते तादृषवाञ्छितसिद्धौ तु समालंकार एव ।तद्दर्शनोपायविमर्शनार्थं मया तदालीसदनं गतेन । तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ॥ ’अत्र तद्दर्शनोपायसिद्धयर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव तद्दर्शनलाभ: । यत्तु-‘ चातकस्त्रिचतुरान्पय:कणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ ’इति पद्यम् ‘ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् ’ इति प्रहर्षणद्वितीय-प्रभेदं लक्षयित्वोदाह्लतं कुवलयानन्दकृता । तदसत् । वाञ्छितादधि-कार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभकृतसंतोषानतिशये प्रहर्षणशब्दयोगा-र्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृत: संतोषातिशय: । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणक-विश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छिता-दधिकप्रदत्वेन दातुरुत्कर्षो भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वाराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वाञ्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यात्तद्युक्तम् ।इति रसगंगाधरे प्रहर्षणप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP