संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| अर्थापत्ति अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - अर्थापत्ति अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत अर्थापत्ति अलंकार: Translation - भाषांतर अथार्थापत्ति:-केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिर्थापत्ति: ॥न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यैर्द्वादशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विंशति-भेदा । दिड्भात्रेणोदाह्लियते-‘ लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेद्वालिशा: ।अद्य श्र्व: फणिनां शकुन्तशिशवो दन्तावलनां शशा: सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति शालावृका: ॥ ’अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च । ‘ यदि ते चरणाम्बुजं ह्लदा वहतो मे न हतो विपद्नण: । अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणै: ॥ ’अत्र न हत इति विद्यमानतारूपात्प्रकृतार्थाज्जितमित्यापाद्यमानस्याप्रकृ-तार्थस्य सर्वोत्कर्षेण वर्तनरूपस्याधिक्यम् । न चात्र विपद्नणस्यावस्थान-मात्रेण तमोगणानामवस्थानभापादयितुमुचितम्, न तु जय: अनानुरूप्यात्, इति शड्कयम् । भगवच्चरणसंनिधाने यद्येकस्य विपद्नणस्य स्वास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोष: ।सदैव स्नेहार्द्रे सुरततिनि निष्किञ्चनजने यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा ददीरन्नर्थिभ्य: किमिति कणभिक्षामपि जडा: ॥ ’अत्राभावेनाभावापादनम् । स्नेहार्द्रजाह्लवीरूपप्रकृतार्थापेक्षया चिन्ता-रत्नादीनाम जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् ।‘ मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ॥ ’इयं राज्ञा नलेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्रत्युक्ति: । अत्रापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्वयमपि प्रकृतम् । पुरुषसिंहापेक्षाया वनस्य नपुंसकत्वान्न्यूनत्वम् । अत एव किं चित्रमित्युक्तम् ।‘ उदुम्बरफलानीव ब्रह्माण्डान्यत्ति य: सदा । सर्वगर्वापह: कालस्तस्य के मशका वयम् ॥ ’अत्राप्रकृतेन ब्रह्माण्डादनेन समस्तभूतानामनित्यत्वं कैमुतिकन्यायेन प्रकृतं प्रतिपाद्यते ।‘ न भवानिह मे लक्ष्य: क्षत्रवर्णविलेपिन: । के वा विटपिनो राम कुलाचलभिद: पवे: ॥’रामं प्रति जामदग्न्यस्येयमुक्ति: । अत्र प्रतिवस्तूपमा महावाक्यार्थ: । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्यार्थ-गतायामर्थापत्तावापाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ । उपमान-वाक्यार्थगतायां त्वप्रकृताविति । अनया दिशान्यदप्यूह्मम् ।अत्र विचार्यते-नेयं वाक्यवित्संमतायामर्थापत्तौ निविशते । आपा-दकस्यार्थस्यापतितमर्थं विनानुपपत्तेरत्राभावात् । नाप्यनुमाने । आपततोऽ-र्थस्यापादकासमानाधिकरणत्वेन व्याप्यत्व-पक्षधर्मत्वयोर्दूरापास्तत्वात् । नच येन कारणेनैकार्थसिद्धिस्तेनैव लिड्रेनापरार्थानुमानमिति वाच्यम् । अर्थान्तरसिद्धेरनुमित्यात्मकताविरहात् । यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकार:, न तु भवत्येवेति । नापि यद्यर्थातिशयोक्तौ । तस्या विपरी-तार्थ एव द्वयोर्विश्रान्ते: । न चेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वाद्यथाश्रुत एव विश्रान्ते: । तस्माद्येन न्यायेनैकोऽर्थ: सिद्ध-स्तेनैव न्यायेनापरोऽप्यर्थ: सेद्भुमर्हतीत्येवंरूपेयमर्थापत्ति: । अस्यां चार्था-न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा-न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा-लंकारत्वम् । यथा ‘ फणिनां शकुन्तशिशव: ’ इत्यादौ । अन्यथा तु कैमु-तिकन्यायतामात्रम् । यथा ‘ उदुम्बरफलानीव ’ इत्यादौ । प्राचीनरीत्या तु प्रागिदमुदाह्लतमस्मामि: । अत एव तत्र कैभुतिकन्यायेनेत्युक्तम् । एवं च ‘ कमपरमवशं न विप्रकुर्यर्विभुमपि तं यदमी स्पृशन्ति भावा: ’,‘ अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्रि स्थितवति वयं के पुनरमी ’ इत्यादि सर्वस्वकृता यदुदाह्लतं तन्नातीव ह्लदयंगमम । यत्तु-‘ कैमुत्येनार्थसंसिद्धि: काव्यार्थापत्तिरिष्यते ’ इति कुवलयानन्द-कृता असा लक्षणं निर्मितं, तदसत् । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेना-धिकार्थापत्तावव्याप्ते: । यथा-‘ तवाग्रे यदि दारिद्य्रं स्थितं भूप द्विजन्मनाम् । शनै: सवितुरप्यग्रे तम: स्थास्यत्यसंशयम् ॥ ’अत्र शनै: शब्दमहिम्रा राजाग्रे दारिद्य्रस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दु:शकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति ।इति रसगंगाधरेऽर्थापत्तिप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP