विभावना अलंकारः - लक्षण ४
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
प्रकृते च कारणत्वावच्छिन्नप्रतियोगिताक: प्रसिद्ध-कारणत्वावच्छिन्नपतियोगिताको वाऽभावो न तादृशरूपावच्छिन्नप्रति-योगिताक इति चेत्, ‘ खला विनैवापराधं भवन्ति खलु वैरिण: ’ इत्यत्र तथाप्यतिव्यापनात् । अपराधाभावस्य तथात्वात् । न च कार्याशोऽतिशयोक्त्याली-ढत्वेनाभेदनिश्चयालीढत्वेन वा विशेषणीय इति वाच्यम् । ‘ खला विनैवाप-राध्म दहन्ति खलु सज्जनान् ’ इत्यादौ तथापि दोषानुद्धारादिति चेत् । मैवम् । कार्याशे यद्विषयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपिताया: कारणताया
अवच्छेदकमिह ग्राह्यम् । दाहत्वं चेह विषयितावच्छेदकम् । तदवच्छि-न्नाभिन्नत्वेन पीडाया अध्यवसानात् । नहि दाहत्वावच्छिन्नकार्यतानि-भिन्नत्वेनाध्यवसिता या पीडा तन्निष्ठाकार्यतानिरूपितकारणताया इति तदवच्छिन्नप्रतियोगिताकाभावसामानाधिकरण्येन कार्योत्पत्तिवर्णनेऽपि नात्र विभावनाप्रसड्र: । यदि तु ‘ खला विनैव दहनं दहन्ति जगती-तलम् ’ इति क्तियते तदा भवत्येव विभावना । एवम्-
‘ कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरभ्परा केयम् ॥ ’
इति परकीयपद्येऽतिशयोक्त्युदाहरणेऽप्यस्त्येव विभावना । परंतु ‘ कमलमनम्भसि ’ इत्यंशे शाब्दी । ‘ कमले च ’ इत्यादौ त्वार्थीति संक्षेप: ।
इति रसगंगाधरे विभावनाप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP