विभावना अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ विभावना-
कारणव्यतिरेकसमानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्ति-र्विभावना ॥
तदुक्तम्‍-‘ क्रियाया: प्रतिषेधेऽपि फलव्यक्तिर्विभावना ’ इति । क्रियाशब्देनात्र कारणं विवक्षितम्‍ । अत्र कारणव्यतिर्रेकसामानाधि-क्रण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोध:प्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते । यथा-
‘ विनैव शस्त्रं ह्लदयानि यूनां विवेकभाजामपि दारयन्त्य: । अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्य: ॥ ’
अत्र हि दारणे शस्त्रं कारणम्‍ । तदभावेऽपि दारणमुपनिबध्यमानमा-पाततो विरुद्धमपि कामिनीविलासरूपहेतुकतय़ा पर्यवस्यति ।
नन्वत्र यस्य कार्यस्योत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेक: प्रतीयते । यदीयकारणव्यतिरेकश्च प्रतीयते नहि तस्य कार्य-स्योत्पत्तिर्निबध्यते । दारणं चेह पीडाविशेषो विवक्षित:, न तु द्विधा-भाव: । शस्त्रं च न कामपीडाया: कारणम्‍, अपि तु द्वैधीकरणस्येति चेत्‍, न मुख्यं हि दारणं द्विधाभावनम्‍ । गौणं च कामादिजनितपीडाविशेष: । तयोर्गैणभुख्ययोर्दारणयो: सादृश्यमूलेनाभेदाध्यवसानरूपेणा-तिशयेन सति भेदस्थगने, द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योप-निबन्धनान्न दोष: । एवं चास्मिन्नलंकारे सर्वत्रापि कार्यांशे अभेदाध्यवसान-रूपातिशयोक्तिरनुप्राणकतया स्थिता । तया च पायसादिपिण्डवदेकी-कृतस्य वस्तुत: सदृशवस्तुद्वयस्यैकावयवसंबन्धिकारणव्यतिरेकसामानाधि-करण्येनापरावयवमादाय पर्यवसानं भवति ।
तत्र च कार्यांश: कारणाभावरूपविरोधिनो बाध्यतयैव स्थित: , न बाधकतया । कार्यांशस्य कल्पितत्वात्कारणाभावस्य च स्वभावसिद्धत्वात्‍ । अत एव कार्यांशो रूपान्तरेण पर्यवस्याति । अत एव च समबलविरोधि-द्वयघटिताद्विरोधालंकारादस्य वैलक्शण्यम्‍ । तथा चोक्तम्‍-
‘ कारणस्य निषेधेन वाध्यमान: फलोदय: । विभावनायामाभाति, विरोधोऽन्योन्यबाधनम्‍ ॥ ’ इत्याहु: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP