पर्यायोक्त अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इदं तु बोध्यम्‍-ध्वनिकारात्प्राचीनैर्भामहोद्भटप्रभृतिभि: स्वग्रन्थेषु
कुत्रापि ध्वनीगुणीभूतव्यड्रयादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न स्वीक्रियन्त इत्याधुनिकानां वाचोयु क्तिरयुक्तैव । यत: समासोक्तिव्याज-स्तुत्यप्रस्तुतप्रशंसाद्यलंकारनिरूपणे कियन्तोऽपि गुणीभूतव्यड्रयभेदास्तैरपि निरूपिता: । अपरश्च सर्वोऽपि व्यड्रयप्रपञ्ज: पर्यायोक्तकुक्षौ निक्षिप्त: । न ह्यनुभवसिद्धोऽर्थो बालेनाप्यपह्लोतुं शक्यते । ध्वन्यादिशब्दै: परं व्यवहारो न कृत: । नह्येतावतानड्रीकारो भवति । प्राधान्यादलंकार्यो हि ध्वनिर-लंकारस्य पर्यायोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम्‍ ।
अयं चालंकार: क्कचित्कारणेन वाच्येन कार्यम्य गम्यत्वे, क्कचित्कार्येण कारणस्य, क्कचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति विपुलविषय: । तत्र ‘ त्वां सुन्दरीनिवह-’ इति पद्ये पातिव्रत्यस्खलनेन
कारणेन तं प्रति प्राप्ति: कार्यं गम्यते । समासोक्तिरत्रोत्थापिका । एतेन ‘ कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेर्वैचित्र्याभावात्‍ ’ इति टीका-कारोक्तमपास्तम्‍ ।
‘ अपकुर्वद्भिरनिशं धृतराष्ट्र तवात्मजै: । उप्यन्ते मृत्युबीजानि पाण्हुपुत्रेषु निश्चितम्‍ ॥ ’
अत्र बीजवापेन कारणेन कुलक्षय: कार्यरूपो गम्यते । कार्येण कारणस्य गम्यत्वे यथा-
‘ त्वद्विपक्षमहीपाला: स्वर्बालाधरपल्लवम्‍ । पीडयन्तितरां तीव्रदारुणैर्दशनक्षतै: ॥ ’
अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP