पर्यायोक्त अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अस्मिंश्चालंकारे व्यड्रयं वाच्यपरम्‍ । अप्रस्तुतप्रशंसायां तु वाच्यं व्यड्रयपरम्‍ । तेनायमलंकारो वाच्यसिद्धयड्रगुणीभूतव्यड्रयभेद इति-ध्वनिकारानुयायिन: ।
यत्तु-
“-‘ स्वसिद्धये पराक्षेप: परार्थं स्वसमर्पणम्‍ । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ ’
इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्नरोऽपि विषयभेदो‍ऽस्ति’ इति स्वमूलग्रन्थाशयं वर्णयता विमर्शिनीकारेणोक्तम्‍ , तन्न । नहि ‘ चक्राभि-घातप्रसभाज्ञयैव-’ इति पद्ये चुम्बनमात्रशेषरतोत्सवांशे बाधो‍ऽस्ति, येन लक्षणा स्यात्‍ । एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम्‍ । अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम्‍ , अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भड्र: स्यात्‍ । लक्षणायां हि
लक्ष्यस्यैव प्राधान्यं स्यात्‍, न वाच्यस्य । ‘ यत्र वाच्योऽर्थोऽर्थान्तरं स्वो-पस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्‍ । यत्र स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुत-मर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसा ’ इति तन्मूलग्रन्थविरोधाच्च । नहि लक्षणा आगूरणं भवति । तस्मात्पर्यायोक्ते वाच्यस्य प्राधान्यम्‍ , अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP