संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|रसगड्गाधर:|सहोक्ति अलंकारः| लक्षण ३ सहोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ सहोक्ति अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर ‘ न च पुत्रेण सहागत: पिता ’ इत्यादौ पुत्राभिन्नाप्रधानसहित इतिबोधस्याप्रामाणिकत्वान्नोक्तार्थसिद्धिरिति वाच्यम् । ‘ दण्डेन घट: ’ इत्यादौ दण्डजन्यतावान् घट इति हि सर्वजनीने बोधे ‘ हेतौ तृतीया ’ इति मुनिवचनावलम्बेन दण्डाभिन्नहेतुको घट: इति बोधं वदता भवतैवास्या:सरणेर्दर्शितत्वात् । ‘ भावप्रधानमाख्यातं ’ इत्याद्यनेकैर्मुनिवचनैस्तत्र तत्रत्वत्कृतबोधवैपरीत्यस्यानुपपत्तेश्चेति कृतमप्रसक्तविचारेण ।प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोर्निर्णायके इत्युक्तत्वादिह न ताभ्यां तयोर्निर्णय: , प्रकृतयोरपि साहित्यसंभवात् । किं तु प्राधान्या-प्राधान्याभ्यामिति । ह्लद्यत्वं चास्या अतिशयोक्तिकृतमित्युक्तम् । यत्र तु सा नास्ति तत्र ‘ पुत्रेण सहागत: पिता ’ इत्यादौ न सहोक्तिरलंकार: । अत्र विचार्यते-‘ केशैर्वधूनां ’ इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम् । अतिशयोक्तेरेवात्र चमत्कृत्याधायकत्वेनसहोक्तेर्नाममात्रत्वात् । ‘ तव कोपोऽरिनाशश्च जायते युगपन्नृप ’ इत्यस्मा-दतिशयोक्त्यलंकारात् ‘ तव कोपोऽरिनाशेन सहैव नृप जायते ’ इत्यत्र गुण-भावमात्रकृतवैलक्षण्येऽपि विच्छित्तेरविशेषात् तस्यैव चालंकारविभाजक-त्वात् । न च सादृश्यानुप्राणितस्य रूपकोदप्यपृथग्भावापत्ति: । ‘ निशाकर-समानोऽयमयं साक्षान्निशाकर: ’ इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूक-त्वात् । अन्यथा तत्प्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्ते: । अपि च सादृश्यप्र-युक्तरूपकादिषु सादृश्यस्य गुणत्वाच्चमत्कृतिविश्रान्तिधामभ्यो रूपकादिभ्योयथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्याविर्भूताया: कार्यकारणपौर्वाप-र्यविपर्ययात्मिकाया अतिशयोक्ते: सकाशादस्या: सहोक्तेरपृथग्भाव एवोचित: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP