अथ ससंदेह:-

साद्दश्यमूला भासमानविरोधका समबला नानाकोटयवगाहिनी धी रमणीया ससंदेहालंकृति: ॥

‘ अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्‍ । परिणेष्यति वा न वा युवायं निरपायं मिथिलधिनाथपुत्रीम्‍ ॥ ’

अत्र मिथिलास्थजनोक्तौ तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्ति-वारणाय सादृश्यमूलेति । सादृश्यज्ञानरूपदोषजन्येत्यर्थ: । तेन ‘ सिंहवत्प्रा-न्तरं गच्छ गृहं सेवस्व वा श्ववत्‍ ’ इत्युपमाविकल्पे वाकारप्रतीतविरोधक-प्रान्तरगमन-गृहसेवन-रूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नाति-प्रसड्र: । तस्य सादृश्यज्ञानरूपत्वात्‍ । मालारूपकातिप्रसड्रवारणाय

भासमानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासकसाम-ग्रीत्वार्थकम्‍ । एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थं नानेति । स्थाणुर्वा पुरुषो वेति लैकिकसंशयनिवृत्तये रमणीयेति, चमत्कारिणीत्यर्थ: । एतच्च विशेषणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम्‍ । एतद्विशेषणद्वयस्य सादृश्यभूलत्वस्य चाभावे संशयमात्रमेव । यद्वा ‘ सादृश्यहेतुका निश्चयसंभावनान्यतरभिन्ना धी रमणीया संशयालंकृति: ’ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP