संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|द्वितीयः स्कन्धः| अध्यायः ८ द्वितीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ द्वितीय स्कन्धः - अध्यायः ८ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ८ Translation - भाषांतर श्रीशुक उवाचआत्ममायामृते राजन्परस्यानुभवात्मनःन घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसाबहुरूप इवाभाति मायया बहुरूपयारममाणो गुणेष्वस्या ममाहमिति मन्यतेयर्हि वाव महिम्नि स्वे परस्मिन्कालमाययोःरमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम्आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम्ब्रह्मणे दर्शयन्रूपमव्यलीकव्रतादृतःस आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षततां नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत्स चिन्तयन्द्व्यक्षरमेकदाम्भस्युपाशृणोद्द्विर्गदितं वचो विभुःस्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुःनिशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानःस्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनःदिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियःअतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितःतस्मै स्वलोकं भगवान्सभाजितः सन्दर्शयामास परं न यत्परम्व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम्प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमःन यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताःश्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसःसर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसःप्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनःभ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभःश्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिःप्रेङ्खं श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायतीददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम्सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम्भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम्किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रियाअध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिःयुक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन्रममाणमीश्वरम्तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनःननाम पादाम्बुजमस्य विश्वसृग्यत्पारमहंस्येन पथाधिगम्यतेतं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम्बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन्श्रीभगवानुवाचत्वयाहं तोषितः सम्यग्वेदगर्भ सिसृक्षयाचिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम्वरं वरय भद्रं ते वरेशं माभिवाञ्छितम्ब्रह्मञ्छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिःमनीषितानुभावोऽयं मम लोकावलोकनम्यदुपश्रुत्य रहसि चकर्थ परमं तपःप्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहितेतपो मे हृदयं साक्षादात्माहं तपसोऽनघसृजामि तपसैवेदं ग्रसामि तपसा पुनःबिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ब्रह्मोवाचभगवन्सर्वभूतानामध्यक्षोऽवस्थितो गुहाम्वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्तथापि नाथमानस्य नाथ नाथय नाथितम्परावरे यथा रूपेजानीयां ते त्वरूपिणःयथात्ममायायोगेन नानाशक्त्युपबृंहितम्विलुम्पन्विसृजन्गृह्णन्बिभ्रदात्मानमात्मनाक्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुतेतथा तद्विषयां धेहि मनीषां मयि माधवभगवच्छिक्षितमहं करवाणि ह्यतन्द्रितःनेहमानः प्रजासर्गं बध्येयं यदनुग्रहात्यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम्अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनःश्रीभगवानुवाचज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्सरहस्यं तदङ्गं च गृहाण गदितं मयायावानहं यथाभावो यद्रूपगुणकर्मकःतथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम्पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनितद्विद्यादात्मनो मायां यथाभासो यथा तमःयथा महान्ति भूतानि भूतेषूच्चावचेष्वनुप्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनःअन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदाएतन्मतं समातिष्ठ परमेण समाधिनाभवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित्श्रीशुक उवाचसम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम्पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिःअन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिःसर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत्प्रजापतिर्धर्मपतिरेकदा नियमान्यमान्भद्रं प्रजानामन्विच्छन्नातिष्ठत्स्वार्थकाम्ययातं नारदः प्रियतमो रिक्थादानामनुव्रतःशुश्रूषमाणः शीलेन प्रश्रयेण दमेन चमायां विविदिषन्विष्णोर्मायेशस्य महामुनिःमहाभागवतो राजन्पितरं पर्यतोषयत्तुष्टं निशाम्य पितरं लोकानां प्रपितामहम्देवर्षिः परिपप्रच्छ भवान्यन्मानुपृच्छतितस्मा इदं भागवतं पुराणं दशलक्षणम्प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत्नारदः प्राह मुनये सरस्वत्यास्तटे नृपध्यायते ब्रह्म परमं व्यासायामिततेजसेयदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम्यथासीत्तदुपाख्यास्ते प्रश्नानन्यांश्च कृत्स्नशः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP