संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|द्वितीयः स्कन्धः| अध्यायः ३ द्वितीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ द्वितीय स्कन्धः - अध्यायः ३ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ३ Translation - भाषांतर सूत उवाचवैयासकेरिति वचस्तत्त्वनिश्चयमात्मनःउपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात्आत्मजायासुतागार पशुद्रविणबन्धुषुराज्ये चाविकले नित्यं विरूढां ममतां जहौपप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाःकृष्णानुभावश्रवणे श्रद्दधानो महामनाःसंस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत्वासुदेवे भगवति आत्मभावं दृढं गतः राजोवाचसमीचीनं वचो ब्रह्मन्सर्वज्ञस्य तवानघतमो विशीर्यते मह्यं हरेः कथयतः कथाम्भूय एव विवित्सामि भगवानात्ममाययायथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैःयथा गोपायति विभुर्यथा संयच्छते पुनःयां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान्आत्मानं क्रीडयन्क्रीडन्करोति विकरोति चनूनं भगवतो ब्रह्मन्हरेरद्भुतकर्मणःदुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम्यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वाबिभर्ति भूरिशस्त्वेकः कुर्वन्कर्माणि जन्मभिःविचिकित्सितमेतन्मे ब्रवीतु भगवान्यथाशाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलुसूत उवाचइत्युपामन्त्रितो राज्ञा गुणानुकथने हरेःहृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमेश्रीशुक उवाचनमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलयागृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्त्मनेभूयो नमः सद्वृजिनच्छिदेऽसतामसम्भवायाखिलसत्त्वमूर्तयेपुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषेनमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम्निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमःयत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम्लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमःविचक्षणा यच्चरणोपसादनात्सङ्गं व्युदस्योभयतोऽन्तरात्मनःविन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमःतपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाःक्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमःकिरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयःयेऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमःस एष आत्मात्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयःगतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान्प्रसीदताम्श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिःपतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान्सतां पतिःयदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनःवदन्ति चैतत्कवयो यथारुचं स मे मुकुन्दो भगवान्प्रसीदताम्प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदिस्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषःभुङ्क्ते गुणान्षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान्वचांसि मेनमस्तस्मै भगवते वासुदेवाय वेधसेपपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम्एतदेवात्मभू राजन्नारदाय विपृच्छतेवेदगर्भोऽभ्यधात्साक्षाद्यदाह हरिरात्मनः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP