आर्चज्योतिषम्
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् | दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥१॥
प्रणम्य शिरसाअ कालमभिवद्य सरस्वतीम् | कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥२॥
ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः | विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥३॥
निरेकं द्वादशाभ्यस्तं द्विगुणं गतसञ्ज्ञिकम् | षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥४॥
स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ | स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥५॥
प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् | सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥६॥
धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ | दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥७॥
द्विगुणं सप्तमं चाहुरयनाद्यं त्रयोदश | चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥८॥
वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् | धाता कश्चायनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥९॥
भांशाः स्युरष्टकाः कार्याः पक्षा द्वादशकोद्गताः | एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥१०॥
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः | उनस्थाने त्रिसप्ततिमुद्ववपेदूनसम्मिताः ॥११॥
त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् | भार्धेऽधिके चाधिगते परेंऽशेद्यावुक्तमेकं नवकैर्भवेद्यः ॥१२॥
पक्षात्पञ्चदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् | नवभिस्तूद्गतोंऽशः स्यादूनांशद्वयधिकेन तु ॥१३॥
जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः | रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिङ्गैः ॥१४॥
जावाद्यशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे | भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥१५॥
कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके | द्युस्त्रिंशन्त् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥१६॥
नाडिके द्वे मुहुर्तस्तु पञ्चाशत्पलमाढकम् | आढाकात्कुम्भाकोद्रोणः कुटपैर्वर्धते त्रिभिः ॥१७॥
ससप्तकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश | नवमानि च पञ्चाह्नः काष्ठाः पञ्चाक्षरा भवेत् ॥१८॥
श्रविष्ठाभ्यो गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् | स्तर्यान् मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून ॥१९॥
अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् | तेषु मण्डलभागेषु तिथिनिष्ठाङ्गतो रविः ॥२०॥
याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् | पक्षिपेत्तत् समूहस्तु विद्यादादानिकाः कलाः ॥२१॥
यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य | तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥२२॥
यदर्धं दिनभागानां सदा पर्वणि पर्वणि | ॠतुशेषं तु तद् विद्यात् सङ्ख्याय सह पर्वणाम् ॥२३॥
इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् | ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥२४॥
अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती | सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥२५॥
सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च | इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥२६॥
विष्णुर्वसवो वरुणोओऽजेकपात् तथैव च | अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥२७॥
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि | यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥२८॥
इत्येवं मासवर्षाणां मुहुर्तोदयपर्वणाम् | दिनर्त्वयनमासाङ्गं व्याख्यानं लगधोऽब्रवीत् ॥२९॥
सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते | सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥३०॥
विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् | यल्लब्धं तानि पर्वाणि तथार्धं सा तिथिर्भवेत् ॥३१॥
माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः | युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥३२॥
तृतीयां नवमीं चैव पौर्णमासीमथासिते | षष्ठि च विषुवान् प्रोक्तो द्वादशीं च समं भवेत् ॥३३॥
चतुर्दशीमुपवसथस्तथा भवेद्यथोदितो दिवसमुपैति चन्द्रमाः | मघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥३४॥
यथा शिखा मयूराणां नागानां मणयो यथा | तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥३५॥
वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः | तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥३६॥
॥इति आर्चज्योतिषं समाप्तम् ॥
N/A
References : N/A
Last Updated : January 24, 2014
TOP