मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|श्रीकृष्णविलासकाव्यम्| चतुर्थः सर्गः श्रीकृष्णविलासकाव्यम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः श्रीकृष्णविलासकाव्यम् - चतुर्थः सर्गः भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र चतुर्थः सर्गः Translation - भाषांतर स रोहिणीसूनुनिबद्धरागः सतां शरण्यस्तमसोऽपहर्ता ।मनोहरो बाल इवौषधीशो दिने दिने पोषमियाय शौरिः ॥१॥त्यक्त्वा हरिः स्तैन्यकृतापवादं तच्छैशवं प्राप्य दशान्तरं सः ।मन्ये तदंहःपरिमार्जनाय गवां परित्राणसमुद्यतोऽभूत् ॥२॥पुत्रे तथोद्योगिनि नन्दगोपो गोपालपुत्राननुनीय सर्वान् ।त्रातुस्त्रयाणामपि विष्टपानां संरक्षणे तस्य समादिदेश ॥३॥मात्रा कृतस्वस्त्ययनः प्रभाते पित्रा परिष्वज्य चिरं विसृष्टः ।सहैव रामेण समग्रहर्षः विनिर्ययौ विश्वपतिर्वनाय ॥४॥स प्रातराशी व्यतिषक्तपाणिर्यष्टिं वहन्नंसविषक्तशृङ्गः ।विमुच्यतां गौरिति सम्भ्रमेण गच्छन् प्रतिद्वारमवोचदुच्चैः ॥५॥निशम्य तस्य ध्वनिमूर्ध्वकर्णाः विलूनपाशा भृशमुत्सुकिन्यः ।वत्सानपि स्वाननवेक्ष्य गावः ससम्भ्रमं निर्ययुरालयेभ्यः ॥६॥गत्वा पुरस्ताद्गजराजगामी गोष्ठं गरिष्ठो गुणमण्डलेन ।आपूरयन्मित्रगणागमार्थं पित्रोरभीष्टेन सहैव शृङ्गम् ॥७॥नभस्स्पृशा कर्णपथं गतेन तेनैव संज्ञागवलस्वनेन ।आदाय तत्तत्परिबर्हजातं सद्यो गृहेभ्यः सुहृदो निरीयुः ॥८॥गवां खुरन्याससमुद्भवेन विषाणसङ्घट्टनजन्मना च ।प्रसर्पता दिक्षु महास्वनेन घोषः क्षणं घोषमयो बभूव ॥९॥प्रधावनैरुत्प्लुतिभिस्सुदूरं मिथो बलाद्ग्राहविमोचनैश्च ।समागतैस्तत्र समं सुहृद्भिर्बहुप्रकारं विजहार शौरिः ॥१०॥परेण हर्षेण पुराणपुंसः सङ्क्रीडमानस्य समं सुहृद्भिः ।पवित्रयामास पदाम्बुजोत्थिता करीषधूलिः ककुभां मुखानि ॥११॥महर्षयस्तत्र महानुभावाः गृहीतरूपान्तरदुर्न्निरूपाः ।भवाग्निसन्तापहरे ममज्जुः पदोत्थिते तस्य परागपूरे ॥१२॥प्रहर्षमालोकयतां जनानां क्रीडाभिरापाद्य मनोहराभिः ।उत्थापयामास स चीत्कृतेन गोष्ठे हरिर्गोसमजं शयानं ॥१३॥तस्मिन् गवां पालनकौतुकेन वनाय निर्गछति दैत्यशत्रौ ।ययुः प्रियाख्यानचिकीर्षयेव दिवाकृतो दिग्वलयं मयूखाः ॥१४॥कूलद्रुमाणां कुसुमानि धून्वन् कर्षन् पयश्शीकरमण्डलानि ।कृष्णं कृतानेकविहारखिन्नं यान्तं सिषेवे यमुनासमीरः ॥१५॥परस्य पुंसः पदपङ्कजाभ्यां प्रवेक्ष्यतो गोकुलपालनाय ।चकार नीहारहरैर्मयूखैः प्रवेशयोग्यानि वनानि भानुः ॥१६॥प्रेम्णा परित्यक्तुमशक्नुवन्तं बद्धाञ्जलिं बन्धुजनं निवार्य ।रामं पुरस्कृत्य समित्रवर्गः विवेश विष्णुर्विपिनान्तराणि ॥१७॥अरण्यभूमीरवगाहमानं तमातपक्लान्तमवेक्षमाणः ।पक्षातपत्रेण परिस्तृतेन वियत्यसेविष्ट विहङ्गराजः ॥१८॥मा गच्छ गङ्गे यमुने क्व यासि किं तत्र गोदावरि धावसीति ।न्यषेधि तत्तद्व्यपदेशपूर्वं मार्गच्युतं गोकुलमच्युतेन ॥१९॥प्ररूढसुस्निग्धतृणाङ्कुरासु छायाद्रुमश्यामलितान्तरासु ।गवां कुलं तत्सुलभोदकासु प्रचारयामास वनस्थलीषु ॥२०॥साटोपमान्दोलितलम्बसास्नाः गावश्चरन्त्यो वलमानवालाः ।त्रुट्यत्तृणस्तोमचटत्कृतिन्यः चक्रुः प्रियं चेतसि चक्रपाणेः ॥२१॥हरिन्मणिश्यामरुचीनि तत्र स्वैरं चरन्तीषु तृणानि गोषु ।शौरिः स्वयं भुक्त इवाप तृप्तिं तृप्यन्त्युदाराः परतर्पणेन ॥२२॥सर्वासु कण्डूयनलिप्सयोच्चैरुन्नम्य कण्ठं दधतीषु गोषु ।बालो हरिर्बाहुसहस्रशून्यं जन्मात्मनो निष्फलमेव मेने ॥२३॥परिभ्रमद्गोकुलमुग्रकोपं समुच्चलद्धूलिरटद्विषाणम् ।स युद्धमुक्ष्णां मदनिर्भराणां प्रविश्य मध्यं शमयाञ्चकार ॥२४॥शाखाकराग्रैरवलम्ब्य पृथ्वीं निषेदुषः पुष्पफलावनम्रान् ।तत्र द्रुमान् सादरमीक्षमाणो जगाम तृप्तिं न कदाऽपि शौरिः ॥२५॥अलक्ष्यमूलान्यतिविप्रकर्षाद् घोषानुमेयस्खलितोदकानि ।उत्तुङ्गरोधस्तरुमण्डलानि निम्नानि दृष्ट्वा नितरां स रेमे ॥२६॥अतुच्छगुच्छस्तनभारनम्राः लताः प्रवालाधरलोभनीयाः ।स तत्र वीक्ष्य भ्रमरालकाढ्यास्तामस्मरत्तामरसाधिवासाम् ॥२७॥समुत्सुकं सागरकन्यकायामाक्रष्टुमन्तःकरणं मुरारेः ।सर्वस्य वेत्ता सरसां स वाचं सङ्कर्षणस्सादरमित्युवाच ॥२८॥अन्तस्समीरभ्रमणप्रसङ्गादुदीर्णनादेन गुहामुखेन ।भूयः प्रयुङ्क्ते पृथिवीधरस्ते गोवर्धनः स्वागतमेष शौरे ॥२९॥निशम्य गोवर्धननिर्झराणां धीरध्वनिं कृष्णशिखण्डिनोऽमी ।मुदा त्वदालोकनजातयेव नृत्यन्ति चक्रीकृतबर्हभाराः ॥३०॥पादाविमौ सञ्चरणाय नालमत्रेति मत्वा मृगयूथमेतत् ।स्वलोचनांशुस्तबकापदेशान्नीलोत्पलैर्भूमिमिवास्तृणाति ॥३१॥विकीर्य विष्वग्विपिनद्रुमाणां मधूनि पुष्पस्तबकच्युतानि ।अर्कांशुतप्तामनिलो धरित्रीं सञ्चारयोग्यां भवतो विधत्ते ॥३२॥न भीतिरन्तर्न दृशोश्चलत्वं नास्था तृणेनोत्सुकताऽपि शाबे ।रूपेण दामोदर मोहितास्ते तिष्ठन्त्यमी काष्ठकृता इवैणाः ॥३३॥तेनेति सन्दर्शितमग्रजेन मनोहरं तत्तदवेक्षमाणः ।गाश्चारयन् शाद्वलिनीषु भूषु रेमे रमाया रमणः प्रकामम् ॥३४॥तं तत्र दृष्ट्वा महनीयरूपं शौरिं शबर्यश्चरितार्थनेत्राः ।फलोपहारैरुपसृत्य वन्यैरवादिषुः प्रश्रयशोभि वाक्यम् ॥३५॥इतः पदं नः शरपातमात्रं यायास्सहानेन सुहृद्गणेन ।अत्रागमिष्यन्ति किरातपुत्राः गवाममूषां परिपालनाय ॥३६॥व्याधाहृतैर्वारणकुम्भगर्भात् मुक्ताफलैरामलकाभिरामैः ।प्रसाधनं त्वां भुवनत्रयस्य प्रसाधयिष्यन्ति किरातकन्याः॥३७॥कन्याऽस्ति काचिच्छबरेश्वरस्य या नः कुलानामधिदेवतेव ।तां सर्वथा दास्यति ते स राजा महान्त्यनर्घाणि च यौतकानि ॥३८॥इत्यूचिषीणां शबराङ्गनानामत्यादरं चेतसि वीक्षमाणः ।कृष्णः कृपानिघ्नमनास्स वाचमित्याह लज्जामृदुना स्वनेन ॥३९॥पित्रोरनुज्ञामधिगम्य भद्राः समीहितं वः सकलं विधास्ये ।मयि स्थिते तिष्ठति गोकुलं तद्गच्छामि मा भूत विषादवत्यः ॥४०॥गते पुलिन्दीरिति सान्त्वयित्वा तदिष्टभङ्ग्व्यथिते मुकुन्दे ।फलापचायादिषु निस्पृहास्ताः शनैर्ययुः पक्कणमेव खिन्नाः ॥४१॥विहृत्य गर्भेषु लतागृहाणां निपीय वारीणि च पल्वलानाम् ।फलानि चास्वाद्य महीरुहाणां वनानि धन्यानि चकार शौरिः ॥४२॥अथाधिरूढे गगनस्य मध्यं दिवाकरे दुःसहभानुजाले ।घर्माकुलं गोकुलमीक्षमाणः हलायुधः प्राह रथाङ्गपाणिम् ॥४३॥किञ्चित्परिम्लानलताप्रवालस्तृणाङ्कुरभ्रान्तकुरङ्गयूथः ।अह्नः परित्यक्तजनप्रचारः प्रवर्तते मध्यम एष भागः ॥४४॥कुलानि वीक्षस्व विहङ्गमानां पक्षान्तरस्थापितशाबकानि ।कठोरमेनं गमयन्ति कालं नीडेषु निद्रालसलोचनानि ॥४५॥प्रायः कठोरातपपीडयेव छायाः परित्यक्तबहिर्विहाराः ।आलोकयाध्वन्यजनेन सार्द्धमध्यासते मूलमनोहकानां ॥४६॥करैरसह्यैरयमंशुमाली तपन् महीमुग्र इव क्षितीशः ।आशंसितापत्प्रसरः प्रजाभिर्धत्ते दशामद्य विगर्हणीयाम् ॥४७॥विहृत्य कान्तारमहीषु वेगाद्व्रजन्नपः पुष्करिणीषु पातुम् ।मार्गे करीन्द्रः करशीकरेण प्रियामसावुक्षति तापखिन्नाम् ॥४८॥तप्तानि भासा तपनस्य हंसाः विहाय वारीणि नखंपचानि ।पत्रेषु विन्यस्य पदानि मन्दं पद्माकरे सम्प्रति पर्यटन्ति ॥४९॥निगूढमीनग्रहणाभिसन्धिं कृछ्रेण मुक्त्वा कपटासिकां स्वाम् ।अमी बकोटास्तपनांशुतापात्तटीनिकुञ्जं तरसा विशन्ति ॥५०॥तदेहि यामस्तरुषण्डमेतद् घर्माकुलं गोकुलमानयामः ।अत्रैव विश्रम्य मुहूर्तमात्रं भूयोऽपि गावः प्रचरन्त्वरण्ये ॥५१॥इतीरितं तत्समयानुरूपं वाक्यं समाकर्ण्य हलायुधस्य ।आर्यो यथाज्ञापयतीति कृष्णस्तं राममुक्त्वा तरुषण्डमाप ॥५२॥अलब्धमार्ताण्डकरप्रवेशमारामकल्पं तरुषण्डमेत्य ।आनेतुकामः स गवां कुलं तदासज्जयामास मुखेन वेणुम् ॥५३॥सलीलमीषत्परिवृत्तपादं सविभ्रमोदञ्चितसव्यनेत्रं ।कृष्णस्य वंशार्पितपाटलोष्ठं वीक्ष्य स्थितं विस्मयमाप लोकः ॥५४॥तत्र स्थितं तामरसायताक्षं तापिञ्छवर्णं शिखिपिञ्छचूडं ।तमेव पश्यन्ननिमेषतायाः फलं प्रपेदे सुरसिद्धसङ्घः ॥५५॥स्थितस्त्रिभङ्ग्या विवरेषु वेणोर्व्यापारयन्नङ्गुलिपल्लवानि ।जगत्त्रयीमोहविधानदक्षमुत्थापयामास स नादमुच्चैः ॥५६॥अथोत्थितानन्दनिमीलिताक्ष्यः विलूनदूर्वाङ्कुरलाञ्छितास्याः ।गावस्तदभ्याशमुपेत्य तस्थुः निस्पन्ददेहा निभृतैः श्रवोभिः ॥५७॥नैसर्गिकं वैरमपत्यसङ्गस्तृष्णा बुभुक्षा कुसुमायुधश्च ।तद्वेणुनादश्रुतितत्पराणां नालं विधातुं विकृतिं तिरश्चाम् ॥५८॥तस्मिन् मनोहारिणि चक्रपाणेर्वनान्तरे मूर्छति वंशनादे ।विधीयमानं परिहृत्य कर्म सर्वेऽपि सत्वा लिखिता इवासन् ॥५९॥प्रवृत्तमात्रौ वनपद्मिनीषु दातुं गृहीतुं च मृणालभङ्गम् ।चक्राह्वयस्तद्गृहमेधिनी च प्रसार्य चञ्चू परमासिषाताम् ॥६०॥उपाविशन्नुज्झितचापलानि स्वजानुविन्यस्तकराननानि ।निष्पन्ददृष्टीनि वनद्रुमाणां शाखासु शाखामृगमण्डलानि ॥६१॥पद्भ्यामवष्टभ्य महीमुभाभ्यां सद्यस्समुत्तम्भितपूर्वकायः ।सिंहः करीन्द्राक्रमणे प्रवृत्तस्तस्थौ तथा कृत्रिमसिंहकल्पः ॥६२॥सिद्धाः कलत्राणि लतागृहेषु समुद्यताः पाययितुं मधूनि ।करद्वयोदञ्चितरत्नपात्राः निषेदुरालेख्यमिव प्रपन्नाः ॥६३॥तद्वंशनालाच्च्युतमच्युतस्य गेयामृतं साधु निषेव्य वृक्षाः ।चिरं जराजर्जरितत्वचोऽपि बाला इवासन्नवपल्लवाढ्याः ॥६४॥नादेन वेणोर्विवशीकृतानां विद्याधराणां गलिताः करेभ्यः ।गतिर्भवास्माकमपीति नूनं वीणा निपेतुर्मधुविद्विषोऽग्रे ॥६५॥स्ववेणुनादेन स जीवलोकमित्थं परानन्दमयं विधाय ।प्रभुर्व्यरंसीदमराश्च सर्वे सुप्तोत्थितानां स्थितिरन्वभूवन् ॥६६॥प्रत्यागते चेतसि ते विदित्वा प्रभ्रश्य हस्तात् पतिता विपञ्चीः ।पुनर्न्न चक्रुः प्रतिपन्नलज्जाः विद्याधरास्तद्ग्रहणाभिलाषम् ॥६७॥मधुव्रतानां ध्वनिभिर्मनोज्ञैर्वाचालयन्ती वलयं दिशानाम् ।प्रसूनवृष्टिः सुरसिद्धमुक्ता पपात मौलौ परमस्य पुंसः ॥६८॥अवर्षि केनायमदृष्टपूर्वः प्रसूनराशिस्तव मूर्धनीति ।पृष्टो विहस्याह विभुस्सहायान् ज्ञानं भवद्भोऽपि कथं ममेति ॥६९॥विषह्यतां याति विवस्वदंशौ विश्रान्तमुत्थाप्य गवां स पुञ्जम् ।भूयस्तृणाश्यामलभूतलेषु प्रारब्ध सञ्चारयितुं वनेषु ॥७०॥ततः परिक्षीणसहस्रभानोरशाम्यदूष्मा दिवसस्य तीव्रः ।यथा विनाशे धनसञ्चयस्य महावलेपो धनिनो जनस्य ॥७१॥प्रभाकरे पाटलभासि दूरं दिशं प्रतीचीमवगाहमाने ।आलोक्य रामः परिणाममह्नो दामोदरं सादरमित्युवाच ॥७२॥आविर्भवन्मन्दमरुत्प्रचारा शान्तातपा निर्वृतसर्वसत्वा ।विरामवेला दिवसस्य शौरे प्रवर्तते पश्य मनोभिरामा ॥७३॥शिरोभिरूढेन्धनशाकमूलाः स्वयूथ्यमुच्चैःस्वरमाह्वयन्तः ।वनेचरा वीक्ष्य विराममह्नः समारभन्ते सहसैव गन्तुम् ॥७४॥शतं शतं व्योमनि बद्धमालाः शात्कारवाचालविलोलपक्षाः ।व्रजन्ति लक्ष्मीकृतवासवृक्षाः मनोजवाः पश्य पतत्रिणोऽमी ॥७५॥भुवः परागे बहुशो लुठित्वा प्रविश्य नीडं कलविङ्गयूथम् ।धिनोत्यपत्यानि बुभुक्षितानि ग्रासेन चञ्चूपुटसञ्चितेन ॥७६॥तदेहि शौरे तपनव्यपायात्प्रागेव यामः पदमस्मदीयम् ।इयं क्षतिः श्वभ्रतटेन पश्चाद्दुःसञ्चरा लुब्धकनिर्मितेन ॥७७॥श्रुत्वेति रामस्य गिरं मुरारिः अस्त्वेवमित्यादरपूर्वमुक्त्वा ।सह प्रतस्थे स च मित्रवर्गैः प्रचण्डश्रृङ्गध्वनिपूरिताशैः ॥७८॥सहप्रयाणाय कृतत्वराणामूधोभराद्दूरविलम्बिनीनाम् ।स तत्र तत्र प्रतिपाल्य तस्थौ प्रीतो गवामागमनं मुकुन्दः ॥७९॥समावृतो गोपजनेन नन्दः गोपाङ्गनाभिश्च वृता यशोदा ।अतिष्ठतामध्वनि लोचनाभ्यां पुत्रागतिप्रेक्षणसस्पृहाभ्याम् ॥८०॥चकार कर्णेषु तयोः प्रमोदं दामोदरापूरितशृङ्गनादः ।दिवि प्रसर्पन्नथ पांसुपूरः नेत्रेषु पीयूषमिवाभ्यवर्षत् ॥८१॥तौ धूसराङ्गौ रजसा कुमारौ गत्वा स नन्दः परिरभ्य गाढम् ।आत्मानमानन्दसमुद्रमग्नं नालं समुद्धर्तुमभून्मुहूर्तम् ॥८२॥उत्पत्य धावद्भिरुदस्तशस्त्रैः क्ष्वेलारवक्षोभितदिग्विभागैः ।आभीरवीरैस्स वृतः प्रपेदे व्रजं समाकर्णिततूर्यघोषम् ॥८३॥चाटूक्तिभिः पार्श्वचरानशेषान् विसृज्य गोपान् सहितस्स मित्रैः ।विवेश कृष्णो भवनं दिनान्ते समुज्वलन्मङ्गलदीपिकाभिः ॥८४॥कामं दिवा कर्णपथं गतेन नीताः प्रियं वेणुरवेण विष्णोः ।प्रतिप्रियं चक्रुरमुष्य सायं गावः पयोदोहननिःस्वनेन ॥८५॥अनुदिनमिति कुर्वन् पालनं गोकुलस्यक्षणमिव दिवसानि क्रीडया यापयन् सः ।अखिलमपि धरित्रीभारमभ्युद्धरिष्यन्अरमत सह शौरिस्तत्र सङ्कर्षणेन ॥८६॥इति सुकुमारकृतौ कृष्णविलासकाव्ये चतुर्थः सर्गः ॥४॥ N/A References : N/A Last Updated : January 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP